मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — पुरुषोत्तमजगन्नाथमाहात्म्यम्, अध्याय २

3
वैष्णवखण्डः · पुरुषोत्तमजगन्नाथमाहात्म्यम् · 2

ततो ब्रह्मागमत्तूर्णं यत्रास्ते भगवान्स्वयम्

जैमिनिरुवाच

ततो ब्रह्मागमत्तूर्णं यत्रास्ते भगवान्स्वयम् ॥

स्तवान्तेऽसौ यथा दृष्टस्तथाद्राक्षीत्प्रभुं तदा

॥१॥

प्रत्यभिज्ञानसंहृष्टस्तं दृष्ट्वा परमेश्वरम् ॥

अत्यद्भुतज्ञाननिधिर्बभूवासौ द्विजोत्तमाः

॥२॥

यावत्स्तोतुं समारेभे हर्षसंफुल्ललोचनः ॥

तावदेव समागत्य कुतश्चिद्वायसोत्तमः

॥३॥

कारुण्योदकसंपूर्णे तस्मिन्कुण्डे निमज्य तम् ॥

विलोक्य माधवं नीलरत्नकांतिं कृपानिधिम्

॥४॥

काकदेहं समुत्सृज्य लुठमानो मुहुः क्षितौ ॥

शंखचक्रगदापाणिस्तस्य पार्श्वे व्यवस्थितः

॥५॥

तिरश्चस्तां गतिं दृष्ट्वा योगींद्राणां सुदुर्लभाम् ॥

मेनेऽसौ मुनयः सृष्टिः क्रमात्क्षीणा भविष्यति

॥६॥

मनुष्याधिकृते मुक्तौ वेदांते संशयोऽभवत् ॥

न किंचिद्दुर्लभं चेह विष्णुभक्तस्य विद्यते

॥७॥

प्रत्यक्षोऽभूद्द्विजश्रेष्ठाः पुराणपुरुषोदिते ॥

संकीर्त्य यन्नाम नरः सर्वपापैः प्रमुच्यते

॥८॥

तस्य संदर्शने विप्रा मुक्तिः किं खलु दुर्लभा ॥

मनसा ध्याययन्विष्णुं त्यजन्प्राणान्विमुच्यते

॥९॥

साक्षात्कृतो भगवतः किं चित्रं मुक्तिमेति यत् ॥

पुरुषोत्तमसंज्ञस्य क्षेत्रस्य महिमाद्भुतः

॥१०॥

यत्र काकोऽपि च हरिं साक्षात्पश्यति भो द्विजाः ॥

सुदुर्लभं क्षेत्रमिदमज्ञानां च विमोचनम् ॥

अहो क्षेत्रस्य माहात्म्यं काकस्यापि विमुक्तिदम् ॥

किं पुनः सततं शांति वैराग्यज्ञानसंयुजाम्

॥११॥

ऋषय ऊचुः

नीलाख्यं माधवं दृष्ट्वा किं चकार पितामहः

॥१२॥

तद्दर्शने क्षणान्नष्टदेहबन्धं च वायसम्

॥१३॥

जैमिनिरुवाच

अत्यद्भुतमयं दृष्ट्वा यावद्ध्यायति माधवम् ॥

तावत्पितृपतिः स्वाधिकारसंयमनाकुलः

॥१४॥

दीनाननो निःश्वसन्वै तत्र यातस्त्वरान्वितः ॥

नीलाद्रौ माधवं दृष्ट्वा साऽष्टांगं प्रणिपत्य च

॥१५॥

तुष्टाव स जगन्नाथं स्वाधिकारदृढस्थितौ ॥

यम उवाच ॥

नमस्ते देवदेवेश सृष्टिस्थित्यन्तकारण

॥१६॥

त्वयि प्रोतमिदं सर्वं सूत्रे मणिगणा यथा ॥

त्वया धृतं त्वया सृष्टं त्वया चाप्यायितं जगत्

॥१७॥

चन्द्रसूर्यादिरूपेण नित्यं भासयसेऽखिलम् ॥

विश्वेश्वरं जगद्योनिं विश्वावासं जगद्गुरुम्

॥१८॥

विश्वसाक्षिणमाद्यन्तवर्जितं प्रणमाम्यहम् ॥

नमः परमकारुण्यजलसंभृतसिन्धवे

॥१९॥

परापरपरातीतविभवे विश्वसंभवे

॥२०॥

भवसंतापनीहारभानवे दीनबन्धवे ॥

स्वमायारचिताशेष भवे गुणरज्जवे

॥२१॥

नमः कमलकिंजल्क पीतनिर्मलवाससे ॥

महाहवरिपुस्कन्ध कृंतचक्राय चक्रिणे

॥२२॥

दंष्ट्रोद्धृत क्षितिभृते त्रयीमूर्तिमते नमः ॥

नमो यज्ञवराहाय चन्द्रसूर्याग्निचक्षुषे

॥२३॥

नरसिंहाय दंष्ट्रोग्रमूर्तिद्रावितशत्रवे ॥

यदपांगविलासैक सृष्टिस्थित्युपसंहृतिः

॥२४॥

उच्चावचात्मको ह्येष भवः संभवते मुहुः ॥

तममुं नीलमेघाभं नीलाश्ममणिविग्रहम्

॥२५॥

नीलाचलगुहावासं प्रणमामि कृपानिधिम् ॥

शंखचक्रगदापद्मधारिणं शुभदायिनम्

॥२६॥

प्रणताशेषपापौघदारिणं मुरवैरिणम् ॥

नमस्ते कमलापांग संगसंस्कारचक्षुषे

॥२७॥

श्रीवत्सकौस्तुभोद्भासि मनोहृद्व्यूढवक्षसे ॥

यत्पादपंकजद्वंद्वसंश्रयैश्वर्यभागिनी

॥२८॥

श्रीः संश्रिता जनैः शश्वत्पृथगैश्वर्यदायिनी ॥

या परापरसंभिन्ना प्रकृतिस्ते सिसृक्षया

॥२९॥

निर्विकारं परं ब्रह्म विकारि ससृजेंऽजसा ॥

सर्वलक्षणसंपूर्णा लक्षितां शुभलक्षणैः ॥

लक्ष्मीशोरसि नित्यस्था लक्ष्मीं तां प्रणमाम्यहम्

॥३०॥

जैमिनिरुवाच

तदेवं धर्मराजेन श्रीकांतः परितोषितः ॥

पार्श्वस्थां वल्लकीहस्तां नेत्रांतेनादिशच्छ्रियम्

॥३१॥

तेन संभाविता लक्ष्मीर्भवदुःखविनाशिनी ॥

शुभाय सर्वलोकानां यमं प्रोवाच लीलया ३२ ॥

लक्ष्मीरुवाच ॥

यदर्थमावां संस्तौषि क्षेत्रेस्मिन्दुर्लभं हि तत् ॥

अत्याज्यमावयोरेतत्क्षेत्रं श्रीपुरुषोत्तमम्

॥३३॥

कल्पावसानेप्यावां वै ध्रियेते परमेष्ठिना ॥

ब्रह्मादिदिक्प्रभूणां हि स्वामित्वं नेह विद्यते

॥३४॥

नेह कर्मपरीपाकाः संभवंति कदाचन ॥

अत्र प्रवसतां नृणां तिरश्चामपि दुष्कृताम्

॥३५॥

दह्यते ज्वलिताग्नौ हि तूलराशिर्यथा भृशम् ॥

ये बद्धा पापपुण्याभ्यां निगडाभ्यामहर्निशम्

॥३६॥

तेषां संयमिता त्वं हि यमः पूर्वं विनिर्मितः ॥

अत्र साक्षाद्वपुष्मंतं नीलेन्द्रमणिमंजुलम्

॥३७॥

दृष्ट्वा नारायणं देवं मुच्यते कर्मबन्धनात् ॥

अतोऽन्यतः कर्मभूमौ प्रभुत्वं सूर्यसंभव

॥३८॥

वैक्लव्यं क्षेत्रराजेस्मिन्मा गास्त्वं यम संयमे ॥

तवापि भगवानेष विधाता प्रपितामहः

॥३९॥

तिर्यंचं विष्णुसारूप्यं प्राप्तं पश्यति कौतुकात् ॥

एष कर्मपरीपाकं सर्वेषां वेत्ति कंजजः

॥४०॥

ज्ञात्वा क्षेत्रस्य माहात्म्यं स्तौति देवं गदाधरम् ॥

त्वद्वशं गंतुमुचिता नेह तिष्ठंति जंतवः

॥४१॥

वैवस्वत वसंत्यत्र जीवन्मुक्ता मुमुक्षवः ॥

तया संबोधितस्त्वेवं विष्णुना स्त्रीस्वरूपिणा ॥

ततोऽहंकारलज्जाभ्यां विनीतः प्राब्रवीद्यमः

॥४२॥

यम उवाच

मातस्त्वया यदाज्ञप्तं पुरा नैतन्मया श्रुतम्

॥४३॥

अज्ञानोपहतो वेद्मि रहस्यं कथमुत्तमम् ॥

यस्य स्वरूपं वेदाश्च न च वेत्ति पितामहः

॥४४॥

महिमानं कथं तस्य वेद्म्यहंकार मोहितः ॥

यदादिष्टं सुरेशानि क्षेत्रमेतद्विमु्क्तिदम्

॥४५॥

सान्निध्याद्वासुदेवस्य ईश्वरेच्छा निरंकुशा ॥

अन्यत्र बन्धदो विष्णुरत्र मोक्षं ददाति यत्

॥४६॥

ममापि निरयाणां च स्रष्टासौ त्रिदिवस्य च ॥

मृतानामत्र मुक्तिश्चेत्तन्मामंब सुविस्तरम्

॥४७॥

क्षेत्रसंस्थाप्रमाणं हि तत्र स्थिति फलं हि यत् ॥

तीर्थानि कानि संत्यत्र किमन्यद्वा रहस्यकम्

॥४८॥

किमधिष्ठातृकं क्षेत्रं तत्सर्वं कथयस्व मे ॥

तदहं संपरित्यज्य निर्भयः संचरे यथा

॥४९॥

इति श्रीस्कांदे महापुराण एकाशातिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये जैमिनिऋषिसंवादे द्वितीयोऽध्यायः ॥ २ ॥