मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — पुरुषोत्तमजगन्नाथमाहात्म्यम्, अध्याय ४७

3
वैष्णवखण्डः · पुरुषोत्तमजगन्नाथमाहात्म्यम् · 47

भगवन्सर्वशास्त्रज्ञ श्रुतं परममद्भुतम्

मुनय ऊचुः

भगवन्सर्वशास्त्रज्ञ श्रुतं परममद्भुतम् ॥

यात्रारूपं भगवतो माहात्म्यं पापनाशनम्

॥१॥

यथाहं पूजितो देवः कामिभिः सर्वकामदः ॥

भूत्युपासनया भूतिप्रदो ब्रूहि तथा हि नः

॥२॥

जैमिनिरुवाच

सर्वा विभूतयो विष्णोर्जगत्यस्मिंश्चराचराः ॥

भूतिप्रदो विभूतिश्च स एकः परमेश्वरः

॥३॥

यथायथोप चरति तथा वै जायते नरः ॥

एतावदस्य महिमा परिमातुं न शक्यते

॥४॥

यो यथा समुपास्ते तं तथा वै फलमाप्नुयात् ॥

एकः पंथाश्चतुर्णां वै धर्मादीनां स दारवः

॥५॥

धर्मस्य पथा गहनः संकीर्णो वहुशासनैः ॥

तत्त्वावधारणे नास्य क्षमः कोऽपि द्विजोत्तमाः

॥६॥

अर्थकामौ हि तन्मूलावित्थं स्थूलगती सदा ॥

तेषां त्रयाणां भगवाननायासेन वृद्धिकृत्

॥७॥

धर्मो हि भगवान्विष्णुर्धर्ममूलमिदं जगत् ॥

धर्मस्य जगतश्चापि प्रभुरेष जनार्दनः

॥८॥

पुरुषार्थमये तस्मिन्भक्तिर्यस्य प्रतिष्ठिता ॥

स सर्वकामतृप्तात्मा न शोचति न कांक्षति

॥९॥

त्रैलोक्यैश्वर्यदातासौ शक्ररूपो ह्युपासितः ॥

भावितो धातृरूपेण वंशवृद्धिकरो हरिः

॥१०॥

सनत्कुमाररूपेण दीर्घमायुः प्रयच्छति ॥

वृत्तिसंपत्प्रदो ह्येष पृथुरूपेण भावितः

॥११॥

गङ्गादितीर्थफलदो वाचस्पतिरुपासितः ॥

अंतस्तमः प्रणुदति भास्वद्रूपेण भावितः

॥१२॥

सौभाग्यमतुलं दद्यादमृतांशुरुपासितः ॥

विद्याष्टादशतत्त्वज्ञो वाक्पतित्वेन भावयन्

॥१३॥

वाजिमेधादियज्ञानां फलदोऽयं सनातनः ॥

यज्ञेश्वरस्वरूपेण भावितोऽयं जगन्मयः

॥१४॥

ध्यातः कुबेररूपेण समृद्धिमतुलां ददेत्

॥१५॥

एवं दयांबुधिरसौ तस्मिन्नीलाचले वसन् ॥

दीनानाथानुग्रहाय दारुव्याजशरीरवान्

॥१६॥

प्रयात तत्र भो विप्रा वसध्वं सुसमाहिताः ॥

श्रीशपादाब्जयुगलं शरणं तत्प्रपद्यत

॥१७॥

ऐहिकामुष्मिकान्भोगान्वाञ्छध्वं यदि शाश्वतान् ॥

अन्ते मुक्तिं च कैवल्यां यथेच्छं तत्र प्राप्नुत

॥१८॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये सप्तचत्वारिंशोऽध्यायः ॥ ४७ ॥