मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — पुरुषोत्तमजगन्नाथमाहात्म्यम्, अध्याय ३०

3
वैष्णवखण्डः · पुरुषोत्तमजगन्नाथमाहात्म्यम् · 30

चकार केन विधिना जन्मस्नानं श्रियः पतेः

मुनय ऊचुः

चकार केन विधिना जन्मस्नानं श्रियः पतेः ॥

अन्यानप्युत्सवान्सर्वान्विधिवद्ब्रूहि नो मुने

॥१॥

नारदेन पुरा प्रोक्तं सर्वं ते मुनिसत्तम ॥

स हि वेद तमःपारे ब्रह्म ब्रह्मसुतो मुनिः

॥२॥

तत्सर्वं ब्रूहि तत्त्वेन मुने क्रौतूहलं हि नः ॥

अहो भाग्यं नरपतेरिंद्रद्युम्नस्य भो मुने

॥३॥

तस्य तावति कर्मांते अत्यद्भुतमिदं महत् ॥

न श्रुता हि न दृष्टा हि प्रतिमा दारुनिर्मिता

॥४॥

सजीवतनुवत्साक्षाद्वारं दद्यान्मनुष्यवत् ॥

स्मारंस्मारं भगवतश्चरितं पापनाशनम्

॥५॥

चरितं तस्य नृपतेर्दुर्लभं मर्त्यवासिनाम् ॥

न सन्तोषोऽस्ति भगवञ्शृण्वतां नो महामुने

॥६॥

तद्वदानुक्रमेणास्मान्यात्राः सर्वाघनाशनाः ॥

यासां संदर्शनाद्वासो वैकुण्ठ इति निश्चितम्

॥७॥

यात्रामाहात्म्यवक्तासौ यत्साक्षान्मधुसूदनः ॥

तन्नो वद महाभाग जगतां हितकाम्यया

॥८॥

जैमिनिरुवाच

ज्येष्ठस्नानं प्रवक्ष्यामि शृणुध्वं मुनयोऽधुना ॥

ज्येष्ठशुक्लदशम्यां तु व्रतं संकल्प्य वाग्यतः

॥९॥

प्रातरुत्थाय कुर्वीत पंचतीर्थविधानतः ॥

मार्कंडेय वटं गत्वा आचम्य प्रयतः पुमान्

॥१०॥

प्रार्थयेच्छंकरं नत्वा कृतांजलिपुटोऽग्रतः

॥११॥

अतितीक्ष्ण महाकाय कल्पांतदहनोपम ॥

भैरवाय नमस्तुभ्यमनुज्ञां दातुमर्हसि

॥१२॥

ततः प्रविश्य तीर्थं तु वैदिकैः पंच वारुणैः ॥

अघमर्षणसूक्तेन त्रिरावृत्तेन वा द्विजाः ॥

स्नात्वा यथावत्स्नायीत मन्त्रेणानेन चांततः

॥१३॥

नमः शिवाय शांताय सर्वपापहराय च ॥

स्नानं करोमि देवेश मम नश्यतु पातकम्

॥१४॥

संसारसागरे मग्नं पापग्रस्तमचेतनम् ॥

त्राहि मां भगनेत्रघ्न त्रिपुरारे नमोऽस्तु ते

॥१५॥

एवं स्नात्वा बहिर्गत्वा धौतवासा सपुण्ड्रकः ॥

देवानृषीन्पितॄंश्चैव तर्पयित्वा यथाविधि

॥१६॥

प्रविश्य शंकरागारं स्पृष्ट्वा वृषणयोर्वृषम् ॥

मन्त्रेणानेन भो विप्राः सर्वक्रतुफलं लभेत्

॥१७॥

धर्मश्चतुष्पाद्यज्ञस्त्वं स्वर्णशृंगस्त्रयीवपुः ॥

गोपते वाहरूपस्त्वं शूलिनं त्वां नमाम्यहम्

॥१८॥

अघोरमन्त्रेण ततः पूजयेद्वृषवाहनम् ॥

पञ्चब्रह्मभिर्ऋग्भिस्तु संस्पृशेल्लिंगमुत्तमम्

॥१९॥

अंगुष्ठेन स्पृशेल्लिगं मुष्टिना शक्तिमेव च ॥

पूजयित्वा तु विधिवत्स्तुत्वा देवं पुरद्विषम्

॥२०॥

दशानामश्वमेधानां फलं प्राप्नोत्यनुत्तमम् ॥

मार्कंडेयवटे स्नात्वा दृष्ट्वा देवं तु शंकरम्

॥२१॥

फलं प्राप्नोत्यविकलं राजसूयाश्वमेधयोः ॥

अन्ते शिवस्य सालोक्यं प्राप्य ज्ञानं ततो नरः

॥२२॥

क्रमाच्च लभते मुक्तिं जगन्नाथप्रसादतः ॥

ततो मौनी व्रजेद्देवं नारायणमनामयम्

॥२३॥

तद्दक्षिणस्थितं विष्णुरूपं न्यग्रोधमुत्तमम् ॥

दर्शनादपि पापानां पापसंहतिनाशनम्

॥२४॥

तं दृष्ट्वा प्रणमेद्दूराद्भावयन्पुरुषोत्तमम् ॥

प्रदक्षिणं ततः कुर्यादिमं मन्त्रमुदीरयन्

॥२५॥

अमरस्त्वं सदा कल्प विष्णोरायतनं महत् ॥

न्यग्रोध हर मे पापं विष्णुरूप नमोऽस्तु ते

॥२६॥

नमोऽस्त्वव्यक्तरूपाय महाप्रलयस्थायिने ॥

एकाश्रयाय जगतां कल्पवृक्षाय ते नमः

॥२७॥

स्तुवञ्जपेत्तु तद्भक्त्या मूले तस्य जनार्दनम् ॥

कोटिजन्मशतोद्भूतपापादेव विमुच्यते

॥२८॥

तच्छायाक्रमणेनापि निष्पापो जायते नरः ॥

ततः सुपर्णं प्रणमेद्यानरूपं हरेः पुरः

॥२९॥

स्थितो भक्तिनतो विष्णोः कृतांजलिपुटो मुदा ॥

छन्दोमय जगद्धामन्यानरूप त्रिवृद्वपुः

॥३०॥

यज्ञरूप जगद्व्यापिन्प्रीयमाणाय ते नमः ॥

स्तुत्वेत्थं गरुडं पापान्मुच्यतेऽनेकजन्मजात्

॥३१॥

वाङ्मनःकर्मनियतो गच्छेदेवं विचिंतयन् ॥

प्रविश्य देवतागारं कृत्वा तं त्रिः प्रदक्षिणम्

॥३२॥

पूजयेन्मन्त्रराजेन सूक्तेन पुरुषस्य वा ॥

द्वादशाक्षरमंत्रेण यत्र वा जायते रुचिः

॥३३॥

पूजाधिकारिणः सर्वे ब्रह्मक्षत्रविशस्ततः ॥

अन्येषां दर्शन भक्त्या तयोर्नामानुकीर्तनात्

॥३४॥

पंचोपचारविधिना पूजयेत्परमेश्वरम् ॥

कृतांजलिपुटो भूत्वा इदं स्तोत्रमुदीरयेत्

॥३५॥

देवदेव जगन्नाथ संसारार्णवतारक ॥

भक्तानुग्राहक सदा रक्ष मां पादयोर्नतम्

॥३६॥

जय कृष्ण जगन्नाथ जय सर्वाघनाशन ॥

जयाशेषजगद्वंद्य पादांभोज नमोऽस्तु ते

॥३७॥

जय ब्रह्मांडकोटीश वेदनिःश्वासवातक ॥

अशेषजगदाधार परमात्मन्नमोऽस्तु ते

॥३८॥

जय ब्रह्मेंद्ररुद्रादि देवौघप्रणतार्तिनुत् ॥

जयाखिलजगद्धामन्नंतर्यामिन्नमोऽस्तु ते

॥३९॥

जय निर्व्याजकरुणापाथोधे दीनवत्सल ॥

दीनानाथैकशरण विश्वसाक्षिन्नमोऽस्तु ते

॥४०॥

संसारसिंधुसलिले मोहावर्त्ते सुदुस्तरे ॥

षडूर्मिकुलदुष्पारे कुकर्मग्राहदारुणे

॥४१॥

निराश्रये निरालंबे निःसारे दुःखफेनिले ॥

तव मायागुणैर्बद्धमवशं पतितं ततः

॥४२॥

मां समुद्धर देवेश कृपापांगविलोकनैः ॥

तत्र मग्नं सुरश्रेष्ठ सुप्रसादप्रकाशक

॥४३॥

एक एव जगन्नाथ बन्धुस्त्वं भवभीरुणाम् ॥

बुभुक्षा च पिपासा च प्राणस्य मनसः स्मृतौ

॥४४॥

शोकमोहौ शरीरस्य जरा मृत्युर्वपुर्भवः ॥

त्वत्सृष्टौ तादृशो नास्ति यो दीनपरिपालकः

॥४५॥

अवतीर्णोसि लोकानामनुग्रहधिया विभो ॥

पूर्णकामस्य ते नाथ किमन्यत्कारणं क्षितौ

॥४६॥

त्वत्पादपद्ममासाद्य न चिंतास्ति जगत्पते ॥

यतस्ते चरणांभोजं चतुर्वर्गेकसाधनम्

॥४७॥

दर्शनात्सर्वलोकानां सर्ववांछा फलप्रदम् ॥

ततः सीरध्वजं शेषमन्त्रेण परिपूजयेत्

॥४८॥

द्वादशाक्षरमन्त्रेण नाम्ना वा प्रणवादिना ॥

एकाग्रमानसो भूत्वा प्रणिपत्य प्रसादयेत्

॥४९॥

जय राम सदाराम सच्चिदानदविग्रह ॥

अविद्यापंकरहित निर्मलाकृतये नमः

॥५०॥

जयाखिलजगद्भारधारणश्रमवर्जित ॥

तापत्रयविकर्षाय हलं कलयसे सदा

॥५१॥

प्रपन्नदीनत्राणाय स्फुटनेत्रसरोरुह ॥

त्वमेवेश पराशेषकलुषक्षालनप्रभुः

॥५२॥

प्रसन्नकरुणासिंधो दीनबन्धो नमोऽस्तु ते ॥

चराचराफणाग्रेण धृता येन वसुन्धरा

॥५३॥

मामुद्धरास्माद्दुष्पाराद्भवांभोधेरपारतः ॥

परापराणां परमपरमेश नमोऽस्तु ते

॥५४॥

स्तुत्वैवं नागराजानं बलं मुसलधारिणम् ॥

पूजयेज्जगतामादिकारणां भद्रलोचनाम्

॥५५॥

स्तुत्वा जयां तां भो विप्राः प्रणिपत्य प्रसादयेत् ॥

जय देवि महादेवि प्रसीद भवतारिणि

॥५६॥

सुखारणि श्रितवतां जय संतुष्टिकारिणि ॥

कार्यं कार्यस्वरूपाणां कारणानां च कारणम्

॥९७॥

धारणां धार्यमाणानां त्वामादिं प्रणमाम्यहम् ॥

वक्षःस्थलस्थितां विष्णोः शंभोरर्द्धांगधारिणीम्

॥५८॥

पद्मयोनि मुखाब्जस्थां प्रणमामि जगत्प्रियाम् ॥

सृष्टिस्थितिविनाशादिकर्मणां परमात्मनः

॥५९॥

त्वमेका शक्तिरतुला त्वां विना सोऽपि नेश्वरः ॥

त्वां सर्वलोकजननीं विष्णुमायां तपस्विनीम्

॥६०॥

सुभद्रां भद्ररूपां तां मूलभूतां नमाम्यहम् ॥

ततः सागरस्नानाय प्रार्थयेत्पुरुषोत्तमम्

॥६१॥

नमस्ते भगवन्विष्णो जगद्व्यापिंश्चराचर ॥

निर्विघ्नं सिद्धिमायातु सिंधुस्नानं मम प्रभो

॥६२॥

नमस्ते जगतामीश शंखचक्रगदाधर ॥

देहि देव ममानुज्ञां तव तीर्थनिषेवणात्

॥६३॥

ततो मौनं व्रजेद्विष्णुं चिंतयन्सरितां पतिम् ॥

उग्रसेनं स्थितं मार्गे अनुज्ञाप्य समाहितः

॥६४॥

उग्रसेन महाबाहो वलवन्नुग्रविक्रम ॥

लब्ध्वा वरं सुप्रसन्नात्समुद्रतटमास्थितः

॥६५॥

तीर्थराजकृतस्नानसुसंपूर्णफलप्रद ॥

सिंधुस्नानं करिष्यामि अनुज्ञां दातुमर्हसि

॥६६॥

ततो गच्छेद्द्विजश्रेष्ठाः स्वर्गद्वारं ततः परम् ॥

येन देवाः समायांति क्षेत्रेऽस्मिन्पुरुषोत्तमे

॥६७॥

भूस्वर्गे जगदीशस्य दर्शनाय दिनेदिने ॥

स्वर्गावतारमार्गेण तत्रस्थौ वां नमाम्यहम्

॥६८॥

मामप्यूर्ध्वं नयेतां वै साक्षिणौ कर्मणां सताम् ॥

सागरांभः समुत्पन्नौ श्रेष्ठौ सर्वगुणान्वितौ

॥६९॥

मध्येन युवयोर्यामि स्वर्गद्वारमपावृतम् ॥

प्रार्थयित्वा ततो गच्छेत्तीर्थराजस्य संनिधिम्

॥७०॥

यं दृष्ट्वा दूरतः पापान्मुच्यते महतो धुवम् ॥

प्रक्षालितकरांघ्रिक आचांतः शुचिविष्टरे

॥७१॥

आसीनः प्राङ्मुखोभूत्वा लिखेन्मंडलमग्रतः ॥

चतुरस्रं चतुर्द्वारं चतुःस्वस्तिककोणकम्

॥७२॥

तन्मध्ये विलिखेत्पद्ममष्टपत्रं सुशोभनम् ॥

ततोऽष्टाक्षरमंत्रं तु करयोश्च तनौ न्यसेत्

॥७३॥

षड्भिर्वर्णैः षडंगानां न्यासः प्रोक्तो मनीषिभिः ॥

शेषौ कुक्षौ च पृष्ठे च न्यस्तव्यौ च ततः पुनः

॥७४॥

पादयोर्जंघयोरूर्वोः स्फिचोश्च पार्श्वयोः पुनः ॥

नाभौ पृष्ठे बाहुयुग्मे हृदि कण्ठे च कक्षयोः

॥७५॥

ओष्ठयोः कर्णयोरक्ष्णोर्गंडयोर्नासयोस्तथा ॥

भ्रुवोर्ललाटे शिरसि मंत्रवर्णान्यथाक्रमम्

॥७६॥

विन्यस्य व्यापकं सर्वैर्न्यासं कुर्यात्समाहितः ॥

प्राणायामत्रयं कुर्यान्मूलेन पंचविंशतिम्

॥७७॥

बध्नीयात्कवचं दिव्यं सर्वपापापनोदनम् ॥

पूर्वे मां पातु गोविंदो वारिजाक्षस्तु दक्षिणे

॥७८॥

प्रद्युम्नः पश्चिमे पातु हृषीकेशस्तथोत्तरे ॥

आग्नेय्यां नरसिंहस्तु नैर्ऋत्यां मधुसूदनः

॥७९॥

वायव्यां श्रीधरः पातु ऐशान्यां च गदाधरः ॥

ऊर्ध्वं त्रिविक्रमः पातु अधो वाराहरूपधृक्

॥८०॥

सर्वत्र पातु मां देवः शंखचक्रगदाधरः ॥

नारायणो मनः पातु चैतन्यं गरुडध्वजः

॥८१॥

पातु मे बुद्ध्यहंकारौ त्रिगुणात्मा जनार्दनः ॥

इंद्रियाणि सदा पातु दैत्यवर्गनिकृन्तनः

॥८२॥

एवं बद्ध्वा च कवचं निष्पापो जायते पुमान् ॥

षोडशैरुपचारैश्च मनसा कल्पितैर्नरः

॥८३॥

पुरुषोत्तमं पूजयित्वा यथावद्विधितो द्विजाः ॥

आवाह्य मण्डले तस्मिन्देवदेवमनामयम्

॥८४॥

पूजयित्वा विधानेन यथाशक्त्युपबृंहितैः ॥

आत्मानं तीर्थराजस्य देवदेवस्य चिंतयन्

॥८५॥

एवं बद्धांजलिपुटमिमं मन्त्रमुदीरयेत् ॥

सुदर्शन नमस्तेऽस्तु कोटिसूर्यसमप्रभ

॥८६॥

अज्ञानतिमिरांधस्य विष्णोर्मार्गं प्रदर्शय ॥

एवं संप्रार्थ्य भो विप्रास्तीर्थराजजलांतिके

॥८७॥

जानुभ्यामवनिं गत्वा प्रणमेद्भक्तिभावितः ॥

तीर्थराज नमस्तुभ्यं जलरूपाय विष्णवे

॥८८॥

जीवनाय च जंतूनां परं निर्वाणहेतवे

॥८९॥

अग्निश्च ते योनिरिला च देहे रेतोधा विष्णोरमृतस्य नाभिः ॥

उपैमि ते रूपमनन्यहेतुमानंदसंपन्नमप्रनुप्रविश्य

॥९०॥

इति मन्त्रं पठन्विप्राः प्रविशेज्जलमध्यतः ॥

आवाहयेत्तीर्थराजं भावयञ्जगतांपतिम्

॥९१॥

जलाधीशं कृतस्नानफलदानेऽतः स्थितम् ॥

अघमर्षणसूक्तेन नारायणयुतेन च

॥९२॥

त्रिरावृत्तेन कुर्वीत पञ्चवारुणकेन च ॥

सकृदावाहनादीनि षडंगान्यभिषेचने

॥९३॥

आवाहनं पुर प्रोक्तं सन्निधानमथोच्यते ॥

स्नातुरिष्टफलप्राप्तौ सान्निध्यपरिकल्पनम्

॥९४॥

अन्तःशुद्ध्यर्थमाचामेत्पीत्वा तदभिमंत्रितम् ॥

बाह्यावयवशुद्ध्यर्थं मार्जयेत्कुशवारिणा

॥९५॥

अंतर्बहिर्विशुद्ध्यर्थं मन्त्रपूतेन वारिणा ॥

त्रीनंजलीन्मूर्ध्नि सिंचेत्सिंधौ नांतर्जले जपः

॥९६॥

त्रिः स्नानायात्स्वकृताघानि कोटिजन्मकृतानि च ॥

प्लावितानि जले तस्मिन्भावयन्नघनाशनम्

॥९७॥

उत्थायाचम्य विधिवत्प्रार्थयेन्मन्त्रमुच्चरन् ॥

त्वमग्निर्जगतां नाथ रेतोधाः कामदीपनः

॥९८॥

प्रधानं सर्वभूतानां जीवानां प्रभुरव्यय ॥

अमृतस्यारणिस्त्वं हि देवयोनिरपांपते

॥९९॥

वृजिनं हर मे सर्वं तीर्थराज नमोस्तु ते ॥

जन्मकोटिसहस्रेषु यत्पापं पूर्वमर्जितम्

॥१००॥

तदशेषं लयं यातु देहि मे ब्रह्म शाश्वतम् ॥

स्नात्वापि च ततस्तीरमुत्तीर्याचम्य वाग्यतः

॥१०१॥

धारयेद्वाससी शुक्ले पुंड्रकानुज्ज्वलाकृतीन् ॥

शंखचक्रगदापद्मतिलकानि च भक्तितः

॥२॥

देवान्पितॄन्यथान्यायं चिंतयन्भगवद्धिया ॥

तर्प्पयेद्विधिवद्विप्राः सम्यगव्यग्रमानसः

॥३॥

ततः पूर्ववदालिख्य मण्डलं चोत्तरामुखः ॥

पूजयेन्मूलमन्त्रेण मन्त्रैरेभिश्च भक्तितः

॥४॥

नारायणं चतुर्बाहुं शंखचक्रगदाधरम् ॥

धरारमाभ्यां सहितं केवलं वा द्विजोत्तमाः ॥

ध्यात्वांतर्यागसंतुष्टं बहिरावाहयेत्ततः

॥५॥

आगच्छ परमानंद जगद्व्यापिञ्जगन्मय ॥

अनुग्रहाय देवेश मण्डले सन्निधिं कुरु

॥६॥

चराचरमिदं सर्वं जगदत्र प्रतिष्ठितम् ॥

तदन्तस्थस्त्वमेवेश आसनं कल्पयामि ते

॥७॥

यस्य पादांबुजे धौते धर्मेण ब्रह्मरूपिणा ॥

पुनाति तद्भवा गंगा जगत्पाद्यं ददाम्यहम्

॥८॥

अनर्घ्यरत्नघटितचूडामणिकरोत्करैः ॥

ब्रह्मादयः पादपद्मं चिंतयंति दिने दिने ॥

अनर्घ्यायजगद्धाम्ने अर्घ्यमेतद्ददाम्यहम्

॥९॥

आचांतस्तीर्थराजो वै येनागस्त्यस्वरूपिणा ॥

तस्मै सुवासितं वारि ददाम्याचमनीयकम्

॥११०॥

यः प्राप्य मधुसंपर्कं चकर्ष जलरूपिणम् ॥

अशेषाघविकर्षाय मधुपर्कं ददाम्यहम्

॥११॥

यः क्रोडरूपमास्थाय प्रलयार्णवविप्लुताम् ॥

उज्जहार धरामेतां स्नपयामि तमंभसा

॥१२॥

ब्रह्मांडकोटयो यस्य विश्वरूपस्य संवृतिः ॥

आच्छादनाय सर्वेषां प्रददे वाससी शुभे

॥१३॥

विना येनानुष्ठितोऽपि यज्ञः स्यादकृतो ध्रुवः ॥

तस्मै यज्ञेश्वरायेदमुपवीतं प्रकल्पये

॥१४॥

यदंगसंगमासाय शोभंते भूषणानि वै ॥

विश्वालंकृतये तस्मै भूषणानि प्रकल्पये

॥१५॥

यदंगसंस्पर्शिमरुत्संगान्मलयजा द्रुमाः ॥

सुगंधरससंपन्नास्तस्मै गंधानुलेपनम्

॥१६॥

यस्य संचितनादेव सौमनस्यं हतांहसाम् ॥

तस्मै सुमनसां मालां सुगंधां परिकल्पये

॥१७॥

यं चित्ते स्थिरमादाय भवाग्निपरिधूपनम् ॥

जहाति तस्मै प्रददे सुगंधं धूपमुत्तमम्

॥१८॥

स्वतेजसाखिलमिदं दीपितं यस्य भासतः ॥

तस्मै दीपप्रदीप्ताय दीपमेतं ददाम्यहम्

॥१९॥

चराचरं जगत्सर्वमत्ति यो यश्च भावयेत् ॥

अनेन च पुनः पुष्टौ तस्मादन्नं निवेदये

॥१२०॥

यदीयमुखरागेण सहजावासितेन च ॥

मोहिताः सुरसुंदर्यस्तस्मै तांबूलमुत्तमम्

॥२१॥

प्रदक्षिणप्रकमणाद्भवांगणविवर्त्तनम् ॥

हंति यः करुणांभोधिस्तं नमामि जगद्गुरुम्

॥२२॥

मंत्रास्तु कथिता ह्येत उपचारैः पृथक्पृथक् ॥

आवाह्य चिंतयेद्देवं बहिःसंस्थितमात्मनः

॥२३॥

रत्नसिहासनं दत्त्वा तत्रासीनं विचिंतयेत् ॥

पादपद्मद्वये दद्यात्पाद्यं श्यामाकपंकजैः

॥२४॥

दूर्वापराजिताभ्यां च संस्कृतं मूलमंत्रणात् ॥

सौवर्णे राजते वापि ताम्रे वा शंख एव वा

॥२५॥

अर्घ्यं संस्कृत्य विधिवद्वारिचंदनपुष्पकैः ॥

यवदूर्वाकुशाग्रैश्च फलसिद्धार्थकैस्तिलैः

॥२६॥

दूर्वाकुशाग्रैर्देवस्य मूर्ध्नि सिंचेत्तदग्रतः ॥

सावशेषं क्षिपेद्भूमावेषोऽर्घविधिरीरितः

॥२७॥

जातीफलैर्वा कंकोलैर्लवंगैः संस्कृतं जलम् ॥

दद्यादाचमनार्थं तु मधुपर्कं ततो ददेत्

॥२८॥

मधुसर्पिर्युतं गव्यं दधि कांस्ये हि निर्मले ॥

पात्रे स्थितं च पिहितं पात्रेणान्येन तादृशा ॥

सुसंस्कृतं फलयुतं स्नपने जलमुच्यते

॥२९॥

पट्टकौशेयकापासनिर्मिते वाससी शुभे ॥

यथाशक्ति प्रदेये च वित्तशाठ्यं न कारयेत्

॥१३०॥

हारकेयूरमुकुटग्रैवेयादिकभूषणम् ॥

यथाशक्ति यथास्थानं देवस्यांगे निवेशयेत्

॥३१॥

उपवीतं हरेर्दद्यात्पट्टसूत्रविनिर्मितम् ॥

कार्पासमथवा विप्रा गंधचंदनसंस्कृतम्

॥३२॥

चंद्रचंदनकस्तूरीकुंकुमैरनुलेपनम्

॥३३॥

तुलसीदलमालां च जातीपंकजचंपकैः ॥

अशोकच्छुरपुन्नागनागकेसरकेसरैः

॥३४॥

अन्यैः सुगंधैः कुसुमैर्माला माल्यमथापि वा ॥

मुक्तकानि च पुष्पाणि दद्याद्देवस्य मूर्द्धनि

॥३५॥

माला सा प्रपदीनातु माल्यं कंठोरुसंमितम् ॥

गर्भकं केशमध्ये तु मूर्ध्नि पुष्पांजलिं क्षिपेत्

॥३६॥

सगुग्गुल्वगुरूशीरसिताज्यमधुचंदनैः ॥

धूपं दद्यात्सुगंधाढ्यं दीपं गोसर्पिषा शुभम् ॥

कर्पूरगर्भया वर्त्या तिलतैलेन वा ददेत्

॥३७॥

अखंडितसमुद्धौतं शालितंडुलनिर्मितम् ॥

सुपक्वमन्नं सुरभि सर्पिषा च सुवासितम्

॥३८॥

सौरभेयदधिक्षीरपक्वरंभासितायुतम् ॥

नानाव्यंजनसंकीर्णं सोपदंशं सपूपकम्

॥३९॥

नानाफलयुतं हृद्यं सुगंधं सुरसं नवम् ॥

नैवेद्यं देवदेवस्य प्रस्थादूनं न शस्यते

॥१४०॥

धूपे दीपे च नैवेद्ये स्नानेऽर्घे मधुपर्कके ॥

वस्त्रे यज्ञोपवीते च दद्यादाचमनीयकम्

॥४१॥

अन्यत्र केवलं वारि संस्कृतं त्वौपचारिकम्।

नैवेद्यांते त्वाचमनं दद्याच्च करघृष्टिकम्

॥४२॥

सगंधचंदनं विप्रास्तांबूलं च ददेत्ततः ॥

सकर्पूरलवंगैलाजातीक्रमुकसंयुतम्

॥४३॥

अष्टोत्तरशतं जप्त्वा मूलमंत्रमनन्यधीः ॥

स्तुत्वा प्रदक्षिणं कृत्वा प्रार्थयेत्पुरुषोत्तमम्

॥४४॥

देवदेव जगन्नाथ सर्वतीर्थप्रवर्त्तक ॥

सर्वतीर्थमयश्चासि सर्वदेवमय प्रभो

॥४५॥

त्वत्प्रसादान्मया तीर्थराजे स्नानं हि यत्कृतम् ॥

तदस्तु सफलं देव यथोक्तफलदो भव

॥४६॥

सिंधुराजस्त्वं च विभो द्रवरूपोऽस्यसंशयम् ॥

पापालये निमग्नं मां परित्राहि नमोऽस्तु ते

॥४७॥

इत्थं प्रपूज्य देवेशं नारायणमनामयम् ॥

तीर्थराजकृतस्नानः सर्वतीर्थफलं लभेत्

॥४८॥

गवां कोटिप्रदानेन क्रतुकोटिकृतेन च ॥

कोटिब्राह्मणभोज्येन महादानैश्च कोटिशः ॥

यत्पुण्यं कर्मिणां प्रोक्तं तदनेन हि लभ्यते

॥४९॥

ध्यानं दानं तपो जाप्यं श्राद्धं च सुरपूजनम् ॥

सिंधुराजे कृतं सर्वं कोटिकोटिगुणं भवेत्

॥१५०॥

अपि नः स कुले कश्चित्सिंधुस्नायी भविष्यति ॥

देवेभ्यश्च पितृभ्यश्च दास्यते च तिलोदकम्

॥५१॥

क्रंदंति सर्वपापानि संभ्रांताः सर्वपातकाः ॥

अनिष्टानि पलायन्ते सिंधुस्नानोद्यतस्य वै

॥५२॥

अन्यतीर्थे कृतं पापं सिंधुतीरे विनश्यति ॥

सिंधुतीरे कृतं पापं सिधुस्नाने विनश्यति

॥५३॥

सिंधुस्नानरतं नित्यं दृष्ट्वैव यमकिङ्कराः ॥

दिशो दश पलायन्ते सिंहं दृष्ट्वा यथा मृगाः

॥५४॥

यमोऽपि भीतस्तं दृष्ट्वा प्रणिपत्य प्रपूज्य च ॥

न शक्नोति तदा स्थातुं तस्याग्रे पुण्यकर्मिणः

॥५५॥

वांछंति देवता नित्यं मानुष्यं प्राप्नुयामहे ॥

सम्यक्छु(छ्रु?)द्धतन्वो भूत्वा सिंधुस्नानं लभेमहि

॥५६॥

मेरुमन्दरमात्रोऽपि राशिः पापस्य कर्मणः ॥

सिंधुस्नानेन दग्धः स्यात्तूलराशिरिवानलात्

॥५७॥

अप्सु नारायणं देवं स्नानकाले स्मरेत्सदा ॥

साक्षाद्विष्णुस्वरूपेऽत्र सिंधौ चैव विशेषतः

॥५८॥

ब्रह्मघ्नो वा सुरापो वा गोघ्नो वा पञ्चपातकी ॥

सर्वे ते निष्कृतिं यांति सिंधुस्नानान्न संशयः

॥५९॥

कपिलाकोटिदानाच्च सिन्धुस्नानं विशिष्यते ॥

सकृत्सिंध्ववगाहेन कुलकोटिं समुद्धरेत्

॥१६०॥

सर्वतीर्थेषु यत्पुण्यं सर्वेष्वायतनेषु च ॥

तत्फलं लभते सर्वं सिन्धुस्नानान्न संशयः

॥६१॥

य इच्छेत्सफलं जन्म जीवितं श्रुतमेव वा ॥

स पितॄंस्तर्पयेत्सिंधुमभिगम्य सुरांस्तथा

॥६२॥

चत्वारः सुलभा वेदाः सषडंग पदक्रमाः ॥

सुलभानि कुरुक्षेत्रे दानानि विविधानि च

॥६३॥

चांद्रायणानि कृच्छ्राणि तपांसि सुलभान्यपि ॥

अग्निष्टोमादयो यज्ञाः सुलभा बहुदक्षिणाः

॥६४॥

सिन्धुतोयैश्च सलिलैर्दुर्लभं पितृतर्पणम् ॥

मासं तर्पणमात्रेण पिंडानां पातनेन च

॥६५॥

सिन्धौ वै पितरः सर्वे विमानान्सूर्यवर्चसः ॥

सिन्धुतर्पणसंतुष्टाः श्राद्धपिंडसुतर्पिताः ॥

आरुह्य सहसा यांति ब्रह्मलोकं सनातनम्

॥६६॥

आद्यंतयोर्जगन्नाथं पूजयित्वा यथाविधि ॥

तीर्थराजेऽभिषिच्य स्वं नरः स्यान्मुक्तिभाजनम्

॥६७॥

ततस्तीर्थविसर्गं च कृत्वा शुद्धमनाः पुमान् ॥

रामं कृष्णं सुभद्रां च नत्वा रूपं विचिन्तयेत्

॥१६८॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये त्रिंशोऽध्यायः ॥ ३० ॥