कस्मिन्युगे स तु नृप इन्द्रद्युम्नोऽभवन्मुने
मुनय ऊचुः
कस्मिन्युगे स तु नृप इन्द्रद्युम्नोऽभवन्मुने ॥
कस्मिन्देशेऽस्य नगरं कथं वा पुरुषोत्तमम्
॥१॥गत्वा च विष्णोः प्रतिमां कारयामास वा कथम् ॥
एतत्सर्वं विस्तरतः कथयस्व महामुने
॥२॥याथातथ्येन सर्वज्ञ परं कौतृहलं हि नः
॥३॥जैमिनिरुवाच
साधु साधु द्विजश्रेष्ठा यत्पृच्छध्वं पुरातनम् ॥
सर्वपापहरं पुण्यं भुक्तिमुक्तिप्रदं शुभम्
॥४॥चरितं तस्य वक्ष्यामि तथावृत्तं कृते युगे ॥
शृणुध्वं मुनयः सर्वे सावधाना जितेन्द्रियाः
॥५॥आसीत्कृतयुगे विप्रा इन्द्रद्युम्नो महा नृपः ॥
सूर्यवंशे स धर्मात्मा स्रष्टुः पंचमपूरुषः
॥६॥सत्यवादी सदाचारोऽवदातः सात्त्विकाग्रणीः ॥
न्यायात्सदा पालयति प्रजाः स्वा इव स प्रजाः
॥७॥अध्यात्मविज्ज्ञानशौंडः शूरः संग्रामवर्द्धनः ॥
सदोद्यतः सदा विप्रपूजकः पितृभक्तिमान्
॥८॥अष्टादशसु विद्यासु बृहस्पतिरिवापरः ॥
ऐश्वर्येण सुराधीशः कुबेरः कोषसंचये
॥९॥रूपवान्सुभगः शीली दाता भोक्ता प्रियंवदः ॥
यष्टा समस्तयज्ञानां ब्रह्मण्यः सत्यसंगरः
॥१०॥वल्लभो नरनारीणां पौर्णमास्यां यथा शशी ॥
आदित्य इव दुष्प्रेक्ष्यः शत्रुपक्षक्षयंकरः
॥११॥वैष्णवः सत्य संपन्नो जितक्रोधो जितेंद्रियः ॥
राजसूयं क्रतुवरं वाजिमेधसहस्रकम्
॥१२॥इयाज परमः श्रीमान्मुमुक्षुर्धर्मतत्परः ॥
एवं सर्वगुणोपेतः स पृथ्वीं पालयन्नृपः
॥१३॥अवंतींनाम नगरीं मालवे भुवि विश्रुताम् ॥
उवास सर्वरत्नाढ्यां द्वितीयाममरावतीम्
॥१४॥तत्र स्थितो नरपतिर्विष्णौ भक्तिमनुत्तमाम् ॥
चकार मनसा वाचा कर्मणा परमाद्भुताम्
॥१५॥एवं प्रवर्तमानोऽसौ कदाचिच्छ्रीपतेर्विभोः ॥
पूजासमयमासाद्य देवार्चनगृहांतरे
॥१६॥विद्वद्भिः कविभिश्चैव तीर्थयात्राप्रसिद्धिभिः ॥
दैवज्ञैः श्रोत्रियैः सार्द्धं पुरोहितमवस्थितम्
॥१७॥आदृतो व्याजहारेद ज्ञायतां क्षेत्रमुत्तमम् ॥
यत्र साक्षाज्जगन्नाथं पश्यामोऽनेन चक्षुषा
॥१८॥एवमुक्तो नृपाग्र्येण वैष्णवेन पुरोहितः ॥
तीर्थयातृव्रजं पश्यन्नुवाच प्रश्रितं वचः
॥१९॥भोभोस्तीर्थाटनव्यग्रा धार्मिकास्तीर्थकोविदाः ॥
यदादिशति देवोऽयं युष्माभिस्तच्छ्रुतं किल
॥२०॥विज्ञाय तस्याभिप्रायं कश्चित्सुबहुतीर्थगः ॥
उवाच वाग्ग्मी राजानं बद्धांजलिपुटं मुदा
॥२१॥राजन्ननेकतीर्थानि व्यचारिषमहं प्रभो ॥
आशैशवात्क्षितितले श्रुतान्यन्यैस्तु यानि वै
॥२२॥ओढ्रदेश इति ख्यातो वर्षे भारतसंज्ञिते ॥
दक्षिणस्योदधेस्तीरे क्षेत्रं श्रीपुरुषोत्तमम्
॥२३॥यत्र नीलगिरिर्नाम समंतात्काननावृतः ॥
तस्योत्संगे कल्पवृक्षः समंतात्क्रोशसंमितः
॥२४॥तस्य छायां समाक्रम्य ब्रह्महत्यां व्यपोहति ॥
तस्य पश्चाद्दिशि ख्यातं कुंडं रौहिणसंज्ञितम्
॥२५॥तत्पूर्णं कारणांभोभिः स्पर्शनादेव मुक्तिदम् ॥
तस्य प्राक्तटमास्थाय नीलेंद्रमणिनिर्मिता
॥२६॥तनुः श्रीवासुदेवस्य साक्षान्मुक्तिप्रदायिनी ॥
तत्र कुंडे तु यः स्नात्वा दृष्ट्वा तु पुरुषोत्तमम्
॥२७॥अश्वमेधसहस्रस्य फलं प्राप्य विमुच्यते ॥
तत्रास्त आश्रमश्रेष्ठः ख्यातः शबरदीपकः
॥२८॥पश्चिमस्यां दिशि विभोर्वेष्टितः शबरालयैः ॥
यस्मादेकपदीमार्गो येन विष्ण्वालयं व्रजेत्
॥२९॥यत्र साक्षाज्जगन्नाथः शंखचक्रगदाधरः ॥
जंतूनां दर्शनान्मुक्तिं यो ददाति कृपानिधिः
॥३०॥तत्रोषितं मया राजन्वर्षं श्रीपुरुषोत्तमे ॥
तुष्ट्यर्थं देवदेवस्य व्रतिना वनवासिना
॥३१॥प्रतिरात्रं भगवतो दर्शनाय दिवौकसाम् ॥
आगतानां महाराज दिव्यगंधो ह्यमानुषः
॥३२॥नानास्तुतिवचःकल्पपुष्पवृष्टिश्च लभ्यते ॥
महिमैष न कुत्रापि विष्णोः स्थाने प्रकाशते
॥३३॥पौराणिकी प्रवृत्तिश्च श्रुता तत्र महीपते ॥
वायसो माधवं दृष्ट्वा तिर्यग्देहोऽपि मुच्यते
॥३४॥नाधिकारी पुण्यकृत्ये ज्ञानहीनोऽपि पार्थिव ॥
तृषार्त्तो रौहिणे कुंडे जलं पातुं समागतः
॥३५॥त्यक्त्वा कालवशात्प्राणान्विष्णुसारूप्यमाप्तवान् ॥
अहमासं पुरा मूर्खस्तत्प्रसादात्तु सांप्रतम्
॥३६॥अष्टादशसु विद्यासु शेषो वा स्यान्ममापरः ॥
मतिश्च निर्मला जाता विष्णोः पश्यामि नापरम्
॥३७॥त्वं यस्माद्विष्णुभक्तोऽसि सततं च दृढव्रतः ॥
अतस्तवोपदेशार्थमागतोऽहं तवांतिकम्
॥३८॥नो धनं न च भूमिं च त्वत्तः संप्रार्थ्यतेऽधुना ॥
व्यलीकमेतन्मा बुद्ध्वा तत्रस्थं श्रीधरं भज
॥३९॥एवमुक्त्वा तु जटिलः सर्वेषां पश्यतां तदा ॥
अंतर्द्धानं जगामाशु राजा परमविस्मयम्
॥४०॥अवाप्य व्याकुलमतिः कथं मे निर्वहेदिति ॥
पुरोहितमुवाचेदं तस्यैवार्थस्य साधने
॥४१॥इन्द्रद्युम्न उवाच
अमानुषमिदं वृत्तं श्रुत्वेदानीममानुषात् ॥
बुद्धिस्त्वरयते तत्र यत्रास्तेऽसौ गदाधरः
॥४२॥मम धर्मार्थकामा हि त्वदायत्ता द्विजोत्तम ॥
अविरुद्धास्त्वत्प्रसादात्त्रिवर्गः साधितो मया
॥४३॥इदानीं चेद्द्विजश्रेष्ठ त्वमत्रार्थे गमिष्यसि ॥
चतुर्वर्गस्तु संपूर्णः प्राप्तः स्यात्सांप्रतं मया
॥४४॥पुरोहित उवाच
बाढमेतत्करिष्यामि यथा द्रक्ष्यसि केशवम् ॥
वर्माच्छादितचक्षुर्भ्यां साक्षान्मुक्तिप्रदं विभुम्
॥४५॥एवमत्र यतिष्यामि तत्र सर्वे यथा वयम् ॥
वत्स्यामः ससहायाश्च क्षेत्रे श्रीपुरुषोत्तमे
॥४६॥साफल्यं किमतो राजञ्जन्मिनो जन्मनो भवेत् ॥
पुरुषं तमसः पारं साक्षाद्द्रक्ष्यसि माधवम्
॥४७॥भ्राता विद्यापतिर्नाम कनीयान्मे व्रजिष्यति ॥
देशभ्रमणशीलैश्च चारैः सह तवाधुना
॥४८॥तत्र गत्वा जगन्नाथं दृष्ट्वा स हि गिरौ यथा ॥
कंटकावाससंस्थानं भूप्रदेशं प्रमीय च
॥४९॥तूर्णं प्रवृत्तिमानेता श्रेयोऽस्माकं भविष्यति ॥
तस्य तद्वचनं श्रुत्वा राजा पुनरुवाच ह
॥५०॥इन्द्रद्युम्न उवाच
साधु ब्रह्मन्समाधाय व्यवसायो विचारितः ॥
अहं प्रथमतोप्येतच्छ्रुत्वैव कृतनिश्चयः
॥५१॥तत्र क्षेत्रे भगवतः सन्निधौ निवसाम्यहम् ॥
तद्गच्छतु तव भ्राता यथेष्टं साधयिष्यति
॥५२॥इत्युक्त्वांतःपुरं राजा प्रविवेश मुदान्वितः ॥
पुरोहितोऽपि तान्सर्वान्यथावदनुपूर्वशः
॥५३॥राजाज्ञया पूजयित्वा प्राहिणोत्स्वं स्वमाश्रमम् ॥
भ्रातरं सुमुहूर्ते च दैवज्ञकृतनिश्चये
॥५४॥प्रस्थापयामास तदा कृतस्वस्त्ययनं द्विजैः ॥
अपसर्पैः प्रत्ययिकैः पुष्पस्यन्दनमास्थितः
॥५५॥ततः संप्रस्थितो विप्राः स तु विद्यापतिर्द्विजः ॥
मनसा चिन्तयामास मध्ये स्यन्दनमास्थितः
॥५६॥अहो मे सफलं जन्म सुकल्या शर्वरी च मे ॥
द्रक्ष्यामि यद्भगवतो मुखपद्ममघापहम्
॥५७॥श्रवणाद्यैरुपायैर्यं यतमाना अहर्निशम् ॥
पश्यंति यतयः चेतः पुंडरीके व्यवस्थितम्
॥५८॥तमद्य नीलशिखरिशृंगस्थं बिभ्रतं वपुः ॥
वपुःसंबन्धहरणं साक्षाद्द्रक्ष्यामि चक्रिणम्
॥५९॥श्रुति स्मृतीहासपुराणवाक्यैर्यद्रूपमास्थापयितुं न शक्यम् ॥
तच्छ्रीनिधे रूपमदृष्टपूर्वं दृष्ट्वा तरिष्यामि भवांबुराशिम्
॥६०॥यन्नामसंकीर्तनतस्त्रिवांहः संघः प्रणाशं स्मरतां प्रयाति ॥
तमद्य विश्वेश्वरमप्रमेयं साक्षात्करिष्यामि गिरौ वसन्तम्
॥६१॥यत्पादपद्माननुसंहितस्य पदेपदे दुःखमुपार्जितस्य ॥
तमः प्रकांडप्रभवं कदाचिन्नात्माश्रितं कर्मभिरेति नाशम्
॥६२॥आराध्य सूक्ष्मं स्वगुहानिवासं यं पञ्चकोषावृतमात्मसंस्थम् ॥
वेदांतगीराह न चापि वेद वंदे स्वविद्यैकनिवेद्यमाद्यम्
॥६३॥ब्रह्मांडमालाकलितानुरोमं सहस्रमूर्द्धांघ्रिदृशं पुराणम् ॥
निःश्वासवातोत्थित वेदराशिं सर्वप्रपंचेशमहं प्रपद्ये
॥६४॥यन्मायया निर्मितकूटमेतत्सृष्टिक्षयस्थानविलासि रूपम् ॥
निरूपितारोपितहेयरूपस्वरूपहीनं प्रणवस्वरूपम्
॥६५॥तिर्यक्तृषाशांतिनिमित्ततोऽपि यदृच्छया यत्सविधं प्रयातः ॥
देहेन तेनैव सरूपमुक्तिमवाप तं दृष्टिपथं करिष्ये
॥६६॥अहो अहो मे खलु भाग्यशंसी यत्कोटिजन्मार्जितपुण्य एकः ॥
समुत्थितो मे खलु चर्मदृग्भ्यां विलोकयिष्ये जगदादिकंदम्
॥६७॥इत्थं संचिन्तयन्विप्रः प्रहृष्टेनांतरात्मना ॥
अतीतं बहुमध्वानं नाबुध्यद्रथवेगतः
॥६८॥दिनमध्ये व्यतिक्रांते लंबिते बहुवासरे ॥
वर्त्मन्यदृश्यताग्रे तु देशो भुवनमंडनः
॥६९॥ओढ्रसंज्ञस्तु भो विप्राः क्षितिमंडलपावनः ॥
इत्थं पश्यन्वनांतानि गिरिदुर्गाश्च मार्गगान् ॥
सूर्यास्तमनवेलायां महानद्यास्तटेऽभवत्
॥७०॥अवरुह्य रथाद्विप्रः कृत्वा चाह्निकमादृतः ॥
उपास्य पश्चिमां सन्ध्यां दध्यौ स मधुसूदनम्
॥७१॥रथपृष्ठे स्थितो रात्रिं गमयित्वा त्वरान्वितः ॥
महानदीं समुत्तीर्य प्रातःकृत्यं समाप्य सः
॥७२॥चिंतयन्नेव गोविंदं प्रतस्थे रथमास्थितः ॥
पश्यन्भगवतो मार्गं श्रोत्रियाणां हि यज्वनाम्
॥७३॥वह्निवर्चस्विनां विप्रा ग्रामान्पूगैरलंकृतान् ॥
विलंघ्यैकाम्रकवनं यावदायाति स द्विजः
॥७४॥शंखचक्रगदापद्मधारिणो ददृशे जनान् ॥
जन्मांतरितमात्मानं बुबुधे दिव्यरूपिणम्
॥७५॥अवरुह्य रथात्तूर्णं साष्टांगं प्रणिपत्य च ॥
हर्षाश्रुपूर्णनयनो नान्यत्किंचिदपश्यत
॥७६॥केवलं मनसा विष्णुं पश्यन्बाह्ये च भो द्विजाः ॥
एवं व्रजन्यदा विप्रो ध्यायन्पश्यन्स्तुवन्हरिम्
॥७७॥अपश्यत्काननाकीर्णं कल्पन्यग्रोधभूषितम् ॥
नीलाचलं लिखंतं खं पश्यतां पापनाशनम्
॥७८॥अत्यद्भुतं निवसंति साक्षात्तनुभृतो हरेः ॥
उपत्यकायामारूढः समंतान्मार्गयन्द्विजः
॥७९॥मार्गं न लेभे विप्रोऽसौ मुकुंदालोकनोत्सुकः ॥
असुप्यत ततो भूमौ कुशानास्तीर्य वाग्यतः
॥८०॥दर्शने तस्य देवस्य तमेव शरणं ययौ ॥
ततः शुश्राव वचनं गिरेः पश्चादमानुषम्
॥८१॥भगवद्भक्तिविषयं संलापं कुर्वतां मिथः ॥
ततो विद्यापतिर्हृष्टोऽनुसरंस्तं जगाम वै
॥८२॥ददर्श शबरागारैर्वेष्टितं परितो द्विजाः ॥
क्षेत्रस्य दीपसंस्थानं ख्यातं शबरदीपकम्
॥८३॥तत्र गत्वा शनैर्विप्रः प्रविश्य विनयान्वितः ॥
ददर्श विष्णुभक्तांस्ताञ्छंखचक्रगदाधरान्
॥८४॥प्रणम्य शिरसा विप्रस्तस्थौ बद्धांजलिस्तदा ॥
ततोविश्वावसुर्नाम शबरः पलितांगकः
॥८५॥अवसाय हरेः पूजां पूजाशेषोपशोभितः ॥
संप्राप्तो गिरिमध्यात्तु तस्मिन्नेव क्षणे द्विजाः
॥८६॥आलोक्य तं द्विजो हर्षमुपयातो व्यचिंतयत् ॥
एष प्राप्तो हरेः स्थानाच्छ्रांतो निर्माल्यभूषितः
॥८७॥वैष्णवाग्र्य इतो वार्तां विष्णोः प्राप्स्यामि दुर्लभाम् ॥
चिंतयन्नेव विप्रोऽसौ शबरेणाभ्यभाषत
॥८८॥शबर उवाच
कुतः समागतो विप्र काननांतं सुदुस्तरम् ॥
क्षुत्तृड्भिरतिश्रांतश्च सुखमत्रास्यतां चिरम्
॥८९॥पाद्यमासनमर्घं च दत्त्वा विश्वावसुर्द्विजम् ॥
उवाच प्रश्रयगिरा प्रस्तुतं प्रतिपादयन्
॥९०॥फलैः पाकेन वा विप्र प्राणयात्रा भवेत्तव ॥
यत्तुभ्यं रोचते तद्वै दीयतेऽत्र मया द्विज
॥९१॥भाग्यं ममाद्य भगवञ्जीवितं सफलं च मे ॥
प्राप्तोऽसि मद्गृहं विप्र साक्षाद्विष्णुरिवापरः
॥९२॥इति ब्रुवाणं शबरं प्रोवाच द्विजपुंगवः ॥
न मे फलैर्न पाकेन कार्यं वैष्णवपुंगव
॥९३॥यदर्थमागतं दूरात्साधो तत्सफलं कुरु ॥
इन्द्रद्युम्नस्य नृपतेरवंतिपुरवासिनः
॥९४॥पुरोहितोऽहं संप्राप्तो विष्णोर्दर्शनलालसः ॥
राज्ञाग्रे तैर्थिकानां हि समाजावसरे श्रुतम्
॥९५॥तीर्थक्षेत्रप्रसंगेन केनचित्प्रस्तुतं तदा ॥
तथा निवेदितं क्षेत्रं राजाग्रे जटिलेन वै
॥९६॥आनुपूर्व्याच्च तत्सर्वं कथयामास स द्विजः ॥
एतदर्थमहं साधो राज्ञा चोत्कण्ठितेन वै
॥९७॥प्रेषितोऽहं हरिं द्रष्टुमत्रस्थं नीलमाधवम् ॥
दृष्ट्वा यावन्नरपतेर्वार्त्तां नेष्यामि सोऽप्यहम्
॥९८॥निराहारो ध्रुवं साधो तन्मां विष्णुं प्रदर्शय
॥९९॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये जैमिनिऋषिसंवादे सप्तमोऽध्यायः ॥ ७ ॥