कपोतेशस्थली चापि कथं ख्याता महामुने
मुनय ऊचुः
कपोतेशस्थली चापि कथं ख्याता महामुने ॥
को वा कपोतः कश्चेश एतन्नो वक्तुमर्हसि
॥१॥जैमिनिरुवाच
पुरा कुशस्थली सा वै असेव्या सर्वजंतुभिः ॥
तीक्ष्णधारैः कुशाग्रैस्तु परितः कंटकैश्चिता
॥२॥निस्तरुर्निर्जलाधारा पिशाचवसतिर्यथा ॥
यदा पूर्वं भगवतो नान्यो देवोऽपि पूज्यते
॥३॥पूज्यः स्यामहमप्येवं स्पर्धासीद्धूर्जटेस्तदा ॥
चिंतयन्निति तस्यैव विष्णोर्भक्तौ मनोऽदधत्
॥४॥सर्वनिर्विषये देशे स्थित्वाऽहं निष्परिग्रहः ॥
सुमहत्तप आस्थाय तोषयिष्यामि तं हरिम्
॥५॥किं वदेयं रमेशाय का स्तुतिः शारदापतेः ॥
सर्वब्रह्मांडनाथस्य किं वान्यत्तुष्टिकारकम्
॥६॥तस्मान्न बाह्यं वस्त्वन्यदुपयोगाय तस्य वै ॥
अंतर्यागं समास्थाय निर्व्यलीकेन चेतसा
॥७॥भक्तेभ्य आत्मप्रददं चराचरगुरुं हरिम् ॥
आराधयिष्ये सर्वेषां पूज्यः स्यां तत्प्रसादतः
॥८॥तत इत्यभिसंधाय ययौ पुण्यां कुशस्थलीम् ॥
समीपे नीलगोत्रस्य सर्वद्वंद्वविवर्जितः
॥९॥ततस्तेपे तपस्तीव्रं वायुभक्षो महेश्वरः ॥
कपोत इव सूक्ष्मोऽभूदष्टमूर्तिरपि प्रभुः
॥१०॥ततः प्रसन्नो भगवानैश्वर्यं प्रददौ तदा ॥
येनात्मतुल्यः संजातः पूजासंमाननादिषु
॥११॥तपःप्रभावात्तस्यासीत्स्थली वृन्दावनोपमा ॥
सरस्तडागसरसी नदीभिः शोभितांतरा
॥१२॥नानाद्रुमैर्लताभिश्च सर्वर्तुफलपुष्पकैः ॥
मधुमत्तद्विरेफाणां झंकारैर्मुखराशया ॥
नानापक्षिगणाकीर्णा सर्वजंतुसुखाश्रया ॥
कपोतसदृशो जातो यतः स तपसा शिवः
॥१४॥मुरारेराज्ञया सोऽत्र कपोतेश्वरतां गतः ॥
तदाज्ञयाऽत्र वसति मृडान्या त्र्यंबकः सदा
॥१५॥येऽर्चयन्ति कपोतेशं स्तुवन्ति प्रणमंति वा ॥
निर्धूतकल्मषास्ते वै प्रयांति पुरुषोत्तमम्
॥१६॥अतः परं प्रवक्ष्यामि बिल्वेशमहिमां द्विजाः ॥
पातालवासिनः पूर्वं दैत्या भित्त्वा महीतलम्
॥१७॥उपद्रवंति भूर्लोकं भक्षयन्ति जनांस्तथा ॥
भारावतरणार्थाय देवकीगर्भसंभवः
॥१८॥पालयामास पृथिवीं यदा स भगवान्प्रभुः ॥
यादवैः पांडवैः सार्द्धं तदा तत्स्थानमागतः
॥१९॥तीर्थराजस्य सलिले स्नात्वा तं नीलमाधवम् ॥
दूरात्प्रणम्य मनसा दैत्यद्वारमुपागतः
॥२०॥दृष्ट्वा तद्विवरं घोरमप्रवेश्यं तु मानवैः ॥
भ्रांत्या संमोहयँल्लोकान्प्रथयञ्छिवपूज्यताम्
॥२१॥बैल्वं फलं समादाय तत्रावाह्य त्रिलोचनम् ॥
पूजयित्वा पुरारातिं तुष्टावासुरसूदनः
॥२२॥श्री भगवानुवाच
नमस्ते त्रिगुणातीत गुणत्रयविभागकृत् ॥
त्रयीमय त्रयातीत त्रिकालज्ञानिने नमः
॥२३॥शशिसूर्याग्निनेत्राय ब्रह्मण्याय वरात्मने ॥
अष्टैश्वर्यनिधानाय तुभ्यमष्टात्मने नमः
॥२४॥यस्य रूपं तमःपारे तमोनाशनमव्ययम् ॥
अज्ञानानां तमश्छिन्नं तस्मै वितमसे नमः
॥२५॥एवं स्वमात्मनात्मानं स्तुत्वा स भगवान्प्रभुः ॥
तस्य प्रसादाद्विवरं सुप्रवेशमपश्यत
॥२६॥तेन मार्गेण पातालं ससैन्योऽभ्यगमत्प्रभुः ॥
हत्वा तत्र बलोदग्रान्दैत्यान्भारावतारणः
॥२७॥पुनरागम्य तत्रैव स्थित्वा स वृषभध्वजम् ॥
संपूज्य भगवान्द्वाररोधाय स्थापयञ्छिवम्
॥२८॥इदमाह महाबुद्धिर्भक्तिवश्यो गदाधरः ॥
धूर्जटे तिष्ठ प्रासादे रुन्धानोऽसुर निर्गमम्
॥२९॥त्वदन्यः कः क्षमः शंभो कर्बूरबलनाशने ॥
स्थापयित्वा महादेवं ततो द्वारावतीं ययौ
॥३०॥ततःप्रभृति बिल्वेशः पृथिव्यां ख्यातिमागतः ॥
पूर्वविधिः स बिल्वेशः क्षेत्रराजस्य भो द्विजाः
॥३१॥तं दृष्ट्वा पापहंतारं मृड्रानीपतिमव्ययम् ॥
सर्वान्कामानवाप्नोति विपत्तिं दुस्तरां जयेत्
॥३२॥कपोतबिल्वेश्वरयोर्माहात्म्यं कथितं तु वः ॥
अतः परं भो मुनयः किमन्यच्छ्रोतुमिच्छथ
॥३३॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये जैमिनिऋषिसंवादे त्रयोदशोऽध्यायः ॥ १३ ॥