आगत्य च जगन्नाथं चिरादुत्कंठमानसः
जैमिनिरुवाच
आगत्य च जगन्नाथं चिरादुत्कंठमानसः ॥
दंडवत्प्रणनामासौ घनरोमांचकंचुकः
॥१॥नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च ॥
प्रणतार्तिविनाशाय चतुर्वर्गैकहेतवे
॥२॥हिरण्यगर्भपुरुषप्रधानव्यक्तरूपिणे ॥
ॐ नमो वासुदेवाय शुद्धज्ञानस्वरूपिणे
॥३॥इत्युच्चरन्स्तुतिं भूपः सानंदाश्रुविलोचनः ॥
प्रदक्षिणं पुनः कुर्वन्ननाम च पुनःपुनः
॥४॥ततोऽन्या देवता या वै तत्रागच्छन्मुदान्विताः ॥
तुष्टुवुः प्रणता देवं कृतांजलिपुटा मुदा
॥५॥देवा ऊचुः
सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ॥
स भूमिं सर्वतो व्याप्य अध्यतिष्ठद्दशांगुलम्
॥६॥यः पुमान्परमं ब्रह्म परमात्मेति गीयते ॥
भूतं भव्यं भविष्यं च सर्वं पुरुष एव तत्
॥७॥एतावानस्य महिमा ज्यायानेष पुमान्प्रभुः ॥
पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि
॥८॥छन्दांसि जज्ञिरे त्वत्तस्त्वत्तो यज्ञपुमानपि ॥
त्वत्तोऽश्वाश्च व्यजायंत गावो मेषादयस्तथा
॥९॥ब्राह्मणा मुखतो जाता बाहुजाः क्षत्रियास्तव ॥
विशस्तवोरुजा पद्भ्यां तथा शूद्राः समागताः
॥१०॥मनसश्चंद्रमा जातश्चक्षुषस्ते दिवाकरः ॥
कर्णाभ्यां श्वसनः प्राणैर्जिह्वाया हव्यवाडपि
॥११॥नाभितो गगनं द्यौश्च मूर्ध्नस्ते समवर्त्तत ॥
पादाभ्यां ते धरा जाता दिशश्चाष्टौ श्रुतेर्गताः
॥१२॥सप्तासन्परिधयस्त्वत्त एकविंशत्समिच्च वै ॥
चराचराः सर्वभावास्त्वत्त एव हि जज्ञिरे
॥१३॥त्वमेव जगतां नाथस्त्वमेव परिपालकः ॥
उग्ररूपश्च संहर्ता त्वमेव परमेश्वर
॥१४॥त्वमेव यज्ञो यज्ञांशस्त्वं यज्ञेशः परात्परः ॥
शब्दब्रह्मपरं त्वं हि शब्दब्रह्मासि विश्वराट्
॥१५॥स्वराट् सम्राड्जगन्नाथ विराडसि जगत्पते ॥
अधश्चोर्ध्वं च तिर्यक्त्वं त्वया व्याप्तं जगन्मय
॥१६॥प्राप्नुवंति परं स्थानं त्वां यजंतश्च याज्ञिकाः ॥
भोज्यं भोक्ता हविर्होता हवनं त्वं फलप्रदः
॥१७॥समस्तकर्मभोक्ता त्वं सर्वकर्मात्मकः प्रभो ॥
सर्वकर्मोपकरणं सर्वकर्मफलप्रदः
॥१८॥कर्मप्रेरयिता त्वं हि धर्मकामार्थसिद्धिदः ॥
त्वामृते मुक्तिदः कोऽन्यो हृषीकेश नमोऽस्तु ते
॥१९॥नमोऽस्त्वनन्ताय सहस्रमूर्त्तये सहस्रपादाक्षिशिरोरुबाहवे ॥
सहस्रनाम्ने पुरुषाय शाश्वते सहस्रकोटीयुगधारिणे नमः
॥२०॥वयं च्युताधिकारास्त्वां प्रपन्नाः शरणं प्रभो ॥
त्राहि नः पुंडरीकाक्ष अगतीनां गतिर्भव
॥२१॥संसारपतितस्यैको जन्तोस्त्वं शरणं प्रभो ॥
त्वत्सृष्टौ त्वादृशो नास्ति यो दीनपरिपालकः
॥२२॥दीनानाथैकशरणं पिता त्वं जगतः प्रभो ॥
पाता पोष्टा त्वमेवेश सर्वापद्विनिवारकः
॥२३॥त्राहि विष्णो जगन्नाथ त्राहि नः परमेश्वर ॥
त्वामृते कमलाकांत कः शक्तः परिरक्षणे
॥२४॥अन्तर्यामिन्नमस्तेऽस्तु सर्वतेजोनिधे नमः
॥२५॥इति स्तुवंतस्ते देवाः प्रणिपत्य पुनःपुनः ॥
इंद्रद्युम्नेन सहिता बहिर्भूय द्विजोत्तमाः
॥२६॥क्षेत्रं श्रीनरसिंहस्य गत्वा तं प्रणिपत्य च ॥
नमस्कृत्य परां भक्तिं कृत्वाभ्यर्च्य नृकेसरिम्
॥२७॥नीलाचलाद्रेः शिखरं यत्र प्रासाद उत्तमः ॥
ययुस्ते पद्मनिधिना सार्द्धं संभारकारणात्
॥२८॥ददृशुस्ते महाप्रांशुं व्याप्तं गगनमण्डले ॥
उत्तिष्ठंतं विंध्यगिरिं रोद्धुं भानोर्गतिं किमु
॥२९॥व्यश्नुवानं दिशः सर्वा विचित्रघटनोज्ज्वलम् ॥
बहुकालव्यतिक्रांतस्वस्तिभंगिविचित्रकम्
॥३०॥ततश्च चिंतयामास इन्द्रद्युम्नः स वैष्णवः ॥
घटनार्थे मया यातः सत्यलोकमितः पुरा
॥३१॥सुचिराद्दृष्टिपथगः पूर्णः प्रासाद उत्तमः ॥
अनुग्रहाद्वै देवस्य नात्र मानुषपौरुषम्
॥३२॥मन्वंतरसमाप्तिः क्व सूर्यचन्द्रेंद्ररोधिका ॥
तथापि तिष्ठते चायं प्रासादो ह्येष दुर्लभः
॥३३॥वल्मीकसदृशा ह्येते प्रासादा मानुषैः कृताः ॥
शीर्यंति रोहणैर्वृक्षैः स्वल्पकालगतायुषः
॥३४॥मदनुक्रोशबुद्ध्या तु रक्षितं भवनं हरेः ॥
ततस्तान्स सहायान्वै जगाद प्रश्रयं वचः
॥३५॥जानीत जगदीशस्य प्रासादं कारितं मया ॥
आविर्बभूव भगवान्दारुरूपवपुः स्वयम् ॥
तदांतरिक्षगा वाणी मामुवाचाशरीरिणी
॥३६॥सहस्रपाणिसंमितं नीलाद्रेः शिखरोपरि ॥
प्रासादं कारयस्वेति स्थितये जगदीशितुः
॥३७॥एतत्प्रतिष्ठानविधौ स्वयमत्रागमिष्यति ॥
पद्मयोनिः स्वयं सार्द्धं सिद्धब्रह्मर्षिदैवतैः
॥३८॥तदत्र क्रियते को वा संभारो ज्ञायते कथम् ॥
इत्युक्तवंतं ते प्रोचुर्देवा भग्नाधिकारिणः
॥३९॥देवा ऊचुः
न जानीमो वयमपि तदस्माकं गुरुर्गुरुः ॥
इदानीं न वशेऽस्माकं स हि स्वर्गपरो हितः
॥४०॥पद्मनिधिरुवाच
स्वामिन्विधेरनुज्ञानादागतोऽस्मि त्वया सह ॥
कर्तव्यं किं मया चात्र किं वा वस्तु प्रतीक्ष्यते
॥४१॥जैमिनिरुवाच
इति ह्यालप्यमानानां नारदः पुरतः स्थितः ॥
ब्रह्मणा प्रेषितः पूर्वं सर्वशास्त्रविशारदः
॥४२॥सर्वसंभारवस्तूनि यथाशास्त्रं मुने कुरु ॥
संपादयिष्यति तव शासनात्पद्मको निधिः
॥४३॥तं दृष्ट्वा ते मुदा युक्ता उत्तस्थुर्ब्रह्मणः सुतम् ॥
षडर्घ्यपूजया तस्य पूजां चक्रे नृपोत्तमः
॥४४॥प्रणेमुस्तेऽपि तं देवा मनुष्याकारधारिणः ॥
ऊचे तमिंद्रद्युम्नोऽपि प्रतिष्ठाविधिवस्तुनि
॥४५॥नाहं वेद्मि मुनिश्रेष्ठ चिरात्त्यक्तः पुरोधसा ॥
आदेशय क्रमाद्ब्रह्मन्संपाद्यं यद्यदेव हि
॥४६॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये जैमिनिऋषिसंवादे चतुर्विंशोऽध्यायः ॥ २४ ॥