मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — पुरुषोत्तमजगन्नाथमाहात्म्यम्, अध्याय ४६

3
वैष्णवखण्डः · पुरुषोत्तमजगन्नाथमाहात्म्यम् · 46

अतः परं प्रवक्ष्यामि यात्रामक्षयमोक्षदाम्

जैमिनिरुवाच

अतः परं प्रवक्ष्यामि यात्रामक्षयमोक्षदाम् ॥

अनायासेन मूढानां वासनाबद्धचेतसाम्

॥१॥

वैशाखस्यामले पक्षे द्वितीयारात्रिमध्यतः ॥

मण्डपं च चतुष्कोणं सुधालिप्तं सवेदिकम्

॥२॥

सुधौतवाससा कुर्यात्प्रतिसीरासमं ततः ॥

साधुसोपानसंयुक्तं चारुचंद्रातपान्वितम्

॥३॥

तन्मध्ये विन्यसेन्नूनं साधु भद्रासनोत्तमम् ॥

तस्मिन्निचोलसंछन्ने विन्यसेत्स्वर्णभाजनम्

॥४॥

तस्य पश्चिमभागे वै स्वासीनो ब्राह्मणः शुचिः ॥

पात्रांतरे तु गृह्णीयाच्चंदनं पचविंशतिम्

॥५॥

सुपिष्टं कृष्णस्नेहस्य गृह्णीयाच्च पलाधिकम् ॥

अगुर्वर्द्धं कुंकुमं स्यात्कुंकुमार्द्धं च सिह्लकम्

॥६॥

कस्तूरिकाकर्पुरयोः प्रमाणं सिह्लसंमितम् ॥

सर्वमेकत्र संपिष्यात्पाटलोद्भववारिणा

॥७॥

पलद्वयं ततो दद्यादगुरुस्नेहमुत्तमम् ॥

एकत्र लोडितां कृत्वा पूर्वपात्रे निधापयेत्

॥८॥

आच्छाद्य केतकीपत्रैर्वेष्टयेच्चीनवाससा ॥

गन्धस्ते सोममंत्रेण रक्षेद्गरुडमुद्रया

॥९॥

एवं तु मण्डपे तस्मिन्साधिवासं निधापयेत् ॥

अरुणोदयकालेऽथ नयेत्कृष्णस्य सन्निधिम्

॥१०॥

शंखचामरछत्राद्यैर्भ्रामयित्वा सुरालयम् ॥

देवाग्रे स्थापयित्वा च पूजयेत्पुरुषोत्तमम्

॥११॥

उद्धाटयेत्ततो वस्त्रे दिव्यदृष्ट्यावलोकयेत् ॥

प्रोक्षितं मंत्रराजेन संकुर्यात्ताडनादिभिः

॥१२॥

गंधपुष्पाक्षतैः पूज्यः श्रियः सूक्तेन लेपयेत् ॥

श्रीशस्य सर्वगात्रेषु मृदुस्पर्शं शनैः शनैः

॥१३॥

वैष्णवा जयशब्दैस्तं वर्द्धयंति तदा हरिम् ॥

नानासूक्तोपनिषदैर्विद्वांसस्तं स्तुवंति वै

॥१४॥

वेणुवीणादिकैर्नृत्यगीतवाद्यैरनेकशः ॥

व्यजनैश्चामरैच्छत्रैरन्यैर्नानोपहारकैः

॥१५॥

संतोषयञ्जगन्नाथं तृतीयादौ विलेपयेत् ॥

यस्य चिंतनमात्रेण तापा नश्यंति देहिनाम्

॥१६॥

सोऽसौ संदर्शनात्तापान्नृणां हंति तदा द्विजाः ॥

अचिन्त्यो महिमा विष्णोरीदृक्तादृक्तया सदा

॥१७॥

ततः सूक्ष्मांबरैर्माल्यैर्भक्ष्यभोज्यादिपानकैः ॥

द्रव्यैर्नानाविधैर्हृद्यैर्गव्यैरावर्तितैः शुभैः

॥१८॥

ततः संपूजयेद्देवं तांबूलैश्च सुसंस्कृतैः ॥

तस्मिन्काले तु ये कृष्णं भक्त्या पश्यंति मानवाः

॥१९॥

न तेषां पुनरावृत्तिः कल्पकोटिशतैरपि ॥

विष्णोः स्वरूपमासाद्य विष्णुलोके वसंति वै

॥२०॥

पुरा कलियुगे विप्रा दक्षो नाम प्रजापतिः ॥

आध्यात्मिकादिसंतापैः सुदीनान्वीक्ष्य मानवान्

॥२१॥

तत्र गत्वा कृपायुक्तो महिमानं चकार वै ॥

यथाविधि मया प्रोक्तं स एव प्रथमं द्विजाः

॥२२॥

प्रलिप्य चन्दनेनांगे माधवामलपक्षके ॥

तृतीयायां जगन्नाथं स्तुतिमेतां मुदा जगौ

॥२३॥

दक्ष उवाच

देवदेव जगन्नाथ सहजानंदनिर्मल ॥

संसारार्णवसंमग्नांस्त्राहि नः परमेश्वर

॥२४॥

नानाविधैश्च संतापैः संतप्तान्मानवानिमान् ॥

ममानुक्रोशबुद्ध्या वै शुभदृष्ट्याऽमृतेन च

॥२५॥

संतर्पय तृणाञ्छुष्कान्कृष्ण मेऽघ नमोऽस्तुते ॥

कलिकल्मषसंमूढानुद्धर्तुं जगतां पते

॥२६॥

अवतारोऽयमेतस्मिन्नीलाचलगुहांतरे ॥

चिरकालप्ररूढानां दुस्त्यजानां महांहसाम्

॥२७॥

राशिं दग्धुं त्वमेवेशो दीनानाथकृपाकर ॥

त्वद्दर्शनमहायोगे यमाद्यष्टांगवर्जिते

॥२८॥

येषां मतिः समुत्पन्ना चतुर्वर्गैकसाधने ॥

न ते शोचंति दुष्पारे भवारण्ये महाभये

॥२९॥

कर्मानपेक्षं देवेश नात्मज्ञानं विमोचकम् ॥

इदं ते दर्शनं नाथ विना कर्मापि मोचयेत्

॥३०॥

जय कृष्ण जयेशान जयाक्षर जयाव्यय ॥

प्रसीदानुगृहाणेमान्दीनान्मूढान्विचेतसः

॥३१॥

इति स्तुत्वा दंडपातं पपात चरणांबुजे ॥

प्रसीदेश प्रसीदेश प्रसीदेशेति घोषयन्

॥३२॥

ततो जगाद भगवान्सुस्वरेण प्रजापतिम् ॥

उत्तिष्ठ वत्स ते दत्तं दुर्लभं यद्वरं त्वया

॥३३॥

कांक्षितं मत्प्रसादेन भविष्यति न संशयः ॥

मदनुग्रहोऽल्पपुण्यानां दुर्लभो विदितस्तव

॥३४॥

मदंगजातोऽस्ति भवान्मां त्वं प्रार्थितवानसि ॥

ममोत्सवेन सन्तोष्य ततस्ते प्रददाम्यहम्

॥३५॥

इमामक्षययात्रां ये भक्त्या पश्यंति हर्षिताः ॥

तस्मिन्काले यदिच्छंति मनसा तदवाप्नुयुः

॥३६॥

यथा संतापहरणं चन्दनेनानुलेपनम् ॥

तथोत्सवोऽयं मे दक्ष संतापत्रयनाशनः

॥३७॥

मत्प्रेरितमतिस्त्वं हि उत्सवं कृतवानसि ॥

संकल्पितोऽयं मनसा दीनोद्धृत्यै मया ध्रुवम्

॥३८॥

त्वयाभिकाक्षितं सर्वं दास्याम्येव प्रजापते ॥

द्वादशैता महायात्रा गुण्डिचाद्यास्तु पावनाः

॥३९॥

एकैका मुक्तिदा सर्वा धर्मकामार्थवर्द्धनाः

॥४०॥

तासामेकतमां वापि यो भक्त्या चावलोकयेत् ॥

एकयापि भवाब्धिं स तीर्त्वा विष्णुपदं व्रजेत्

॥४१॥

जैमिनिरुवाच

इत्युदीर्य प्रजानाथं भगवान्स तिरोदधे

॥४२॥

दक्षः प्रजापतिः सोऽपि श्रद्दधानस्तदाज्ञया ॥

संवत्सरं गिरौ स्थित्वा संददर्श महोत्सवान्

॥४३॥

सर्वज्ञो ब्राह्मणो भूत्वा कौशिकस्य कुलोत्तमे ॥

लोकान्प्रवर्तयामास यथाविधि महेषु सः

॥४४॥

विश्वासायाल्पबुद्धीनां यात्रा वै परिकीर्तिताः ॥

अयं च साक्षात्परमब्रह्मरूपी जगद्गुरुः ॥

प्रसादितः सुरेशेन लोकानुग्रहणाय वै

॥४५॥

यथा तथा दृष्टिपथं यातो मुक्तिप्रदो धुवम् ॥

सर्वान्कामान्ददात्येव नारीणां नात्र संशयः

॥४६॥

सत्यप्रतिज्ञो भगवांस्तत्रास्ते मधुसूदनः ॥

शोकं तरति यं दृष्ट्वा भवपाथोधिसंभवम् ॥

किं व्रतैः किं तपोदानैः किं कृच्छ्रैः क्रतुभिस्तथा

॥४७॥

किमष्टांगेन योगेन किं सांख्येन परेण च

॥४८॥

तीर्थराजजले स्नात्वा क्षेत्रे श्रीपुरुषोत्तमे ॥

न्यग्रोधमूलवसतौ वसन्तं चर्मचक्षुषा ॥

दृष्ट्वा दारुमयं ब्रह्म देहबंधात्प्रमुच्यते

॥४९॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये षट्चत्वारिंशोऽध्यायः ॥ ४६ ॥