मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — पुरुषोत्तमजगन्नाथमाहात्म्यम्, अध्याय २७

3
वैष्णवखण्डः · पुरुषोत्तमजगन्नाथमाहात्म्यम् · 27

अथांतरिक्षान्निःश्रेणी रत्नकांचननिर्मिता

जैमिनिरुवाच

अथांतरिक्षान्निःश्रेणी रत्नकांचननिर्मिता ॥

संलग्ना पादसंपीठे पद्मयोनेर्विमानगा

॥१॥

सा क्षितिस्पृष्टमूला वै विधातुरवरोहणे ॥

चतुर्व्यायामतापीन सोपानश्रेणिसंयुता

॥२॥

रथप्रासादयोर्मध्ये शक्रचाप इवांशुमान् ॥

आविर्बभूव सहसा साद्भुतं वीक्षितो जनैः

॥३॥

ततो गंधर्वराजैस्तु रत्नवेत्रकरैर्द्विजाः ॥

एष पंथाः प्रभो ह्येहि इत्यादेशितमार्गकैः

॥४॥

दुर्वाससो नारदस्य करयोर्दत्तहस्तकः ॥

सोपानैरवतीर्णोऽथ पुनानश्चक्षुषा जगत्

॥५॥

स्मयमानो रथान्दृष्ट्वा प्रासादं समलंकृतम् ॥

दिगंतव्यापिनीं शालां रत्नस्तंभोपशोभिताम्

॥६॥

शक्रस्याप्यद्भुतकरी सर्वसंभारसंभृताम् ॥

अवातरद्विमानात्स देवब्रह्मर्षिराजभिः

॥७॥

किरीटदत्तांजलिभिः स्तूयमानः समंततः ॥

कटाक्षेणानुगृह्णाति यां दिशं स पितामहः

॥८॥

तत्रांजलीनां संमर्दाः कोटयः शिरसा धृताः ॥

पादाब्ज प्रणतं दृष्ट्वा इंद्रद्युम्नं प्रजापतिः

॥९॥

उवाच प्रश्रयगिरा स्मितभिन्नोष्ठसंपुटः ॥

अंगुल्या निर्दिशन्देवान्पितॄन्ब्रह्मर्षितापसान्

॥१०॥

सिद्धविद्याधरान्यक्षगंधर्वाप्सरसस्तथा ॥

एकत्र मिलितान्सर्वान्युगपन्मोदनिर्भरान्

॥११॥

पश्येंद्रद्युम्न भाग्यं ते सर्वलोकवशीकरम् ॥

त्वदर्थमेकदा सर्वे मां पुरस्कृत्य संगताः

॥१२॥

इत्युक्त्वा प्रययौ शीघ्रं नारायणरथं ततः ॥

प्रणिपत्य जगन्नाथं त्रिः परीत्य पितामहः

॥१३॥

आनंदसिंधुसंमग्नः सरोमांचवपुः स्वयम् ॥

स्वमात्मानं नुनावाथ प्रत्यक्षं स्वरगद्गदम्

॥१४॥

ब्रह्मोवाच

नमस्तुभ्यं नमो मह्यं तुभ्यं मह्यं नमोनमः ॥

अहं त्वं त्वमहं सर्वं जगदेतच्चराचरम्

॥१५॥

महदादि जगत्सर्वं मायाविलसितं तव ॥

अध्यस्तं त्वयि विश्वात्मंस्त्वयैव परिणामितम्

॥१६॥

यदेतदखिलाभासं तत्त्वदज्ञानसंभवम् ॥

ज्ञाते त्वयि विलीयेत रज्जुसर्पादिबोधवत्

॥१७॥

अनिर्वक्तव्यमेवेदं सत्त्वात्सत्त्वविवेकतः ॥

अद्वितीय जगद्भास स्वप्रकाश नमोऽस्तु ते

॥१८॥

विषयानंदमखिलं सहजानंदरूपिणः ।

अंशं तवोपजीवंति येन जीवंति जंतवः

॥१९॥

निष्प्रपंच निराकार निर्विकार निराश्रय ॥

स्थूलसूक्ष्माणुमहिमन्स्थौल्यसूक्ष्मविवर्जित

॥२०॥

गुणातीत गुणाधार त्रिगुणात्मन्नमोऽस्तु ते

॥२१॥

त्वन्मायया मोहितोऽहं सृष्टिमात्रपरायणः ॥

अद्यापि न लभे शर्म अंतर्य्यामिन्नमोस्तु ते

॥२२॥

त्वन्नाभिपंकजाज्जातो नित्यं तत्रैव संस्तुवन् ॥

नातिक्रमितुमीशोऽस्मि मायां ते कोऽन्य ईश्वरः

॥२३॥

अहं यथांडमध्येऽस्मिन्रचितः सृष्टिकर्मणि ॥

तथानुलोमकलिता ब्रह्मांडे ब्रह्मकोटयः

॥२४॥

सार्द्धत्रिकोटिसंख्यानां विरिंचीनामपि प्रभो ॥

नैकोऽपि तत्त्वतो वेत्ति यथाहं त्वत्पुरः स्थितः

॥२५॥

नमोचिंत्यमहिम्ने ते चिद्रूपाय नमोनमः ॥

नमो देवाधिदेवाय देवदेवाय ते नमः

॥२६॥

दिव्यादिव्यस्वरूपाय दिव्यरूपाय ते नमः ॥

जरामृत्युविहीनाय मृत्युरूपाय ते नमः

॥२७॥

ज्वलदग्निस्वरूपाय मृत्योरपि च मृत्यवे ॥

प्रपन्नमृत्युन(?)शाय सहजानंदरूपिणे ॥

भक्तिप्रियाय जगतां मात्रे पित्रे नमो नमः

॥२८॥

प्रणतार्तिविनाशाय नित्योद्योगिन्नमोऽस्तु ते ॥

नमोनमस्ते दीनानां कृपासहजसिंधवे

॥२९॥

पराय पररूपाय परंपाराय ते नमः ॥

अपारपारभूताय ब्रह्मरूपाय ते नमः

॥३०॥

परमार्थस्वरूपाय नमस्ते परहेतवे ॥

परंपरा परिव्याप्त परतत्त्वपराय ते

॥३१॥

प्रणतार्तिविनाशाय नमः स्वात्मैकभानवे ॥

पुरा यत्प्रार्थितं स्वास्मिन्सृष्टिभारावतारणे

॥३२॥

तत्कुरुष्व जगन्नाथ सहजाक्तदरूपभाक् ॥

त्वयि प्रसन्ने किं नाथ दुर्लभं मयि विद्यते

॥३३॥

त्वयैवाहं पृथग्लीलाभेदाद्भिन्नः कृपांबुधे ॥

अज्ञानतिमिरच्छन्ने जगत्कारागृहांतरे

॥३४॥

भ्राम्यन्न द्वारमाप्नोति त्वामृते मुक्तिहेतवे

॥३५॥

नमोनमस्ते जगदेकवन्द्य सुरासुराभ्यर्चितपादपद्म ॥

नमोनमस्तापहरैकचंद्र नमोनमः शर्मसुबोधसांद्र

॥३६॥

नमो नमः कल्पकदूरभूत दुष्प्राप्यकामप्रद कल्पवृक्ष ॥

दीनाशरण्यप्रणतैकदुःखसंघोद्धृतौ नित्यसुबद्धपक्ष

॥३७॥

प्रसीद जगतां नाथ मग्नानां दुःखसागरे ॥

कटाक्षलीलापातेन त्रायस्व करुणाकर

॥३८॥

स्तुत्वेत्थं श्रीजगन्नाथं वेदार्थः स पितामहः ॥

जगाम सीरिणं द्रष्टुमवतीर्णं धराधरम्

॥३९॥

प्रणम्य परया भक्त्या तुष्टाव बलिनं मुदा ॥

नभः शिरस्ते देवेश आपस्ते विग्रहः प्रभो

॥४०॥

पादौ क्षितिर्मुखं वह्निः श्वसितानि समीरणः ॥

मनस्ते ह्योषधीनाथश्चक्षुषी ते दिवाकरः

॥४१॥

बाहवः ककुभो नाथ नमस्ते ज्ञानदर्पण ॥

चतुर्दशानां लोकानां मूलस्तंभाय सीरिणे

॥४२॥

पदांभोजप्रपन्नानां नमः पापौघदारिणे ॥

अनन्तवक्त्रनयनश्रोत्रपादाक्षिबाहवे

॥४३॥

नमो नादिमहामूलतमःस्तोमौघभानवे ॥

त्रयीमय त्रिधादोषनाशाय त्र्यवतारिणे

॥४४॥

फणामणिफणाकार क्षितिमण्डलधारिणे ॥

नमः कालाग्निरुद्राय महारुद्राय ते नमः

॥४५॥

भोगतल्पफणाच्छत्रमध्यसुप्ताय ते नमः ॥

महार्णवजले वृद्ध एकीभूते जगत्त्रये

॥४६॥

त्वमेव शेषो भगवन्सहस्रफणमंडितः ॥

फणामणिगणव्याजसंभृताखिलभौतिकः

॥४७॥

त्वमेव नाथः सर्वेषां स्रष्टा पालयिता विभो ॥

अत्ता धारयिता नित्यं मदाद्यास्त्वन्निमित्तकाः

॥४८॥

एष नारायणो देवो वेदांतेषूपगीयते ॥

त्वत्तो न भिन्नो भगवन्कारणाद्भेदभागसि

॥४९॥

शय्या त्वं शयिता ह्येष छाद्यः संछादको भवान् ॥

यो वै विष्णुः स वै रामो यो रामः कृष्ण एव सः

॥५०॥

युवयोरंतरं नास्ति प्रसीद त्वं जगन्मय ॥

इति स्तवांते बलिनं प्रणम्य परमेश्वरम्

॥५१॥

ईश्वरीं जगतां द्रष्टुं सुभद्रास्यन्दनं ययौ ॥

जय देवि जगन्मातः प्रसीद परमेश्वरि

॥५२॥

कार्यकारणकर्त्री त्वं सर्वशक्त्यै नमोऽस्तु ते ॥

सर्वस्य हृदि संविष्टे ज्ञानमोहात्मिके सदा

॥५३॥

कैवल्यमुक्तिदे भद्रे त्वां नमामि सुरारणिम् ॥

देवि त्वं विष्णुमायासि मोहयन्ती चराचरम्

॥५४॥

हृत्पद्मासनसंस्थासि विष्णुभावानुसारिणी ॥

त्वमेव लक्ष्मीर्गौरी च शची कात्यायनी तथा

॥५५॥

यच्च किंचित्क्वचिद्वस्तु सदसद्वाखिलात्मिके ॥

तस्य सर्वस्य शक्तिस्त्वं स्तोतुं त्वां कस्तु शक्तिमान्

॥५६॥

जय भद्रे सुभद्रे त्वं सर्वेषां भद्रदायिनि ॥

भद्राभद्रस्वरूपे त्वं भद्रकालि नमोऽस्तु ते

॥५७॥

त्वं माता जगतां देवि पिता नारायणो हि सः ॥

स्त्रीरूपं त्वं सर्वमेव पुंरूपो जगदीश्वरः

॥५८॥

युवयोर्न हि भेदोऽस्ति नास्त्यन्यत्परमेव हि ॥

यथा वयं नियुक्ता हि त्वया वै विष्णुमायया

॥५९॥

निदेशकारिणो नित्यं भ्रमामः परमेश्वरि ॥

वृत्तिः प्रवृत्तिः परमा क्षुधा निद्रा त्वमेव च

॥६०॥

आशा त्वमाशापूर्णा च सर्वाशा परिपूरिका ॥

मुक्तिहेतुस्त्वमेवेशि बंधहेतुस्त्वमेह हि

॥६१॥

सर्वज्ञानप्रदे नित्ये भक्तानां कल्पवल्लरी ॥

त्राहि पादाब्जनम्रं मां कृपापांगविलोकनैः

॥६२॥

स्तुत्वेत्थं भद्ररूपां तां तत्समीपस्थितं रथे ॥

चक्रं सुदर्शनं विष्णोश्चतुर्थं वपुरास्थितम्

॥६३॥

प्रणम्य परया भक्त्या इमां स्तुतिमुदाहरत् ॥

सुदर्शन महाज्वाल कोटिसूर्यसमप्रभ

॥६४॥

अज्ञानतिमिरांधानां वैकुण्ठाध्वप्रदर्शकः ॥

नमस्ते नित्यविलसद्वैष्णवस्वनिकेतन

॥६५॥

अवार्यवीर्यं यद्रूपं विष्णोस्तत्प्रणमाम्यहम् ॥

प्रणम्य स्तुत्वा देवान्स रथेभ्यः परिवृत्य च

॥६६॥

इन्द्रद्युम्ननारदाभ्यामादिष्टपदपद्धतिः ॥

नीलाचलमथारोहत्प्रासादं द्रष्टुमुत्सुकः

॥६७॥

ततः स गत्वा प्रासादसमीपं दैवतैः सह ॥

ददर्श शालां-रुचिरां स्वचित्ताभिमता द्विजाः

॥६८॥

तन्मध्ये स्थापयामास दैवतोरगभूपतीन् ॥

ब्रह्मर्षीन्योगिनो विप्रान्वैष्णवांश्च तपस्विनः

॥६९॥

दिव्यसिंहासनवरे नृपेण प्रतिपादिते ॥

स पादपीठे भगवानुपविष्टः स्वयं विभुः

॥७०॥

शांतिकं पौष्टिकं कर्तुं भारद्वाजं महामुनिम् ॥

पितामहाज्ञया भूपो वरयामास ऋद्धिमत्

॥७१॥

प्रतिष्ठायां तु ये देवा बलिपूजाविधौ मताः ॥

होमेषु च तथा ते वै ध्यानरूपमुपाश्रिताः

॥७२॥

आज्ञया पद्मयोनेस्तु चतुर्दिग्भागमाश्रिताः ॥

सुपूजिता गंधपुष्पमालालंकारभूषणैः

॥७३॥

ततः कर्म प्रववृते भारद्वाजेन धीमता ॥

प्रत्यक्षं देवदेवस्य सर्वेषां च दिवौकसाम्

॥७४॥

त्रैलोक्यवासिनां पूजां चकार नृपतिर्मुदा ॥

सांगोपांगं समभ्यर्च्य जगत्स्रष्टारमग्रतः

॥७५॥

ततः संपूजिताः सर्वे तेन त्रैलोक्यवासिनः ॥

पश्यन्तोऽवस्थितं मध्ये साक्षाद्ब्रह्माणमव्ययम्

॥७६॥

वपुष्मंतं जगन्नाथं प्रत्यक्षं ब्रह्मरूपिणम् ॥

इन्द्रद्युम्नप्रसादेन जीवन्मुक्तत्वमाप्नुवन्

॥७७॥

कलेवरं भगवतः प्रासादं सुमनोहरम् ॥

प्रतिष्ठाय भरद्वाजः समुच्छ्रितमहाध्वजम्

॥७८॥

व्यज्ञापयतत्प्रतिष्ठायै जीवस्याथ पितामहम् ॥

समुत्तस्थौ ततो ब्रह्मा कृतस्वस्त्ययनः स्वयम्

॥७९॥

ऋषिभिर्नारदाद्यैश्च विद्वद्भिर्ब्राह्मणैस्तथा ॥

राजभिः क्षत्रियैर्नागैः सहितः परमर्षिभिः

॥८०॥

गन्धर्वैर्गायमानेषु दिव्यगानेषु सुस्वरम् ॥

मांगल्योचितरागेषु नृत्यन्तीष्वप्सरःसु च

॥८१॥

शाकुनेषु च सूक्तेषु पठ्यमानेषु च द्विजैः ॥

शंखकाहालमुरजभेरीवादित्रवैणवे

॥८२॥

शब्दे प्रमूर्च्छति ततः सर्वे ते स्यन्दनोपरि ॥

गत्वावतारयामासू रथात्सोपानवर्त्मनि

॥८३॥

सावधानाः समाधिस्था भक्त्या संयमितात्मकाः ॥

पार्श्वयोर्भुजयोर्मूर्ध्नि पादयोर्न्यस्तपाणयः

॥८४॥

शनैः शनैः सलीलं ते नारायणमनामयम् ॥

वासं वासं तूलिकासु निन्युः प्रासादसन्निधिम्

॥८५॥

उपर्युपरि संतानवृष्टिपूत्पतितासु च ॥

जय कृष्ण जगन्नाथ जय सर्वाऽघनाशन

॥८६॥

जय लीलादारुतनो जय वांछाफलप्रद ॥

जय संसारसंमग्नलीलोद्धार जयाव्यय

॥८७॥

जयानुकंपापाथोधे जय दीनपरायण ॥

जयाच्युत जयानन्त जयेशान नमोऽस्तु ते

॥८८॥

एभिः स्तवैः स्तूयमानो ब्रह्मणा च स्वयंभुवा ॥

तुष्टाव स मुदा युक्तो नारदश्चोपवीणयन्

॥८९॥

रत्नच्छत्रयुगे मूर्ध्नि धार्यमाणेऽथ पृष्ठतः ॥

शशिना भास्वता भक्त्या दिव्यधूपेन धूपिता

॥९०॥

श्रेणीकृता ह्युभयतः पार्श्वयोश्चामरग्रहाः ॥

सलीलांदोलनव्यग्रा यौवनालंकृतास्तथा

॥९१॥

एवं च सहिताः सर्वे कौतूहलसमन्विताः ॥

सुदर्शनं सुभद्रां च बलभद्रमनैषिषुः

॥९२॥

प्रासादद्वारि रचिते रत्नस्तंभेऽथ मण्डपे ॥

वासयित्वाभिषेकाय संमुखादर्शमण्डले

॥९३॥

अधिवासितै रत्नकुंभैस्तीर्थवार्युपसंभृतैः ॥

सूक्ताभ्यां श्रीपुरुषयोरभिषेकं पितामहः ॥

चकार भगवाँल्लोकसंग्रहार्थं द्विजोत्तमाः

॥९४॥

ततो ह्यलंकृतान्देवान्गंधमाल्योपशोभितान् ॥

नीराजयित्वा भगवान्स स्वयं लोकभावनः ॥

रत्नसिंहासने रम्ये स्थापयामास मन्त्रतः

॥९५॥

ब्रह्मोवाच

अशेषजगदाधार सर्वलोकप्रतिष्ठित ॥

सुप्रतिष्ठाखिलव्यापिन्प्रासादे सुस्थिरो भव

॥९६॥

त्वयि प्रतिष्ठिते नाथ वयं सर्वे प्रतिष्ठिताः ॥

त्वदाज्ञया प्रतिष्ठेयं पूर्णाऽऽस्तां त्वत्प्रसादतः

॥९७॥

स्थापयित्वा जगन्नाथं स्पृष्ट्वा तस्य हृदंबुजम् ॥

आनुष्टुभं मंत्रराजं सहस्रं स जजाप ह

॥९८॥

वैशाखस्यामले पक्षे अष्टम्यां पुष्ययोगतः ॥

कृता प्रतिष्ठा भो विप्राः शोभने गुरुवासरे

॥९९॥

तद्दिनं सुमहत्पुण्यं सर्वपापप्रणाशनम् ॥

स्नानं दानं तपो होमः सर्वमक्षय्यमश्नुते

॥१००॥

तस्मिन्दिने ये पश्यंति मानवा भक्तिभाविताः ॥

कृष्णं रामं सुभद्रां च मुक्तिभाजो न संशयः

॥१०१॥

शुक्लाष्टमी या वैशाखे गुरुपुष्ययुता यदा ॥

तस्यामभ्यर्चनं विष्णोः कोटिजन्माघनाशनम्

॥१०२॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये सप्तविंशोऽध्यायः ॥ २७ ॥