उक्ते ब्रह्मसुतेनेत्थमिंद्रद्युम्नो महीपतिः
जैमिनिरुवाच
उक्ते ब्रह्मसुतेनेत्थमिंद्रद्युम्नो महीपतिः ॥
मुनेस्तुवचनं श्रुत्वा प्रहृष्टेनांतरात्मना ॥
विचार्य परया बुद्ध्या श्रमं मेने फलावहम्
॥१॥अहो मे परमं भाग्यं बहुजन्मांतरार्जितम् ॥
व्यवसाये ममोद्युक्तः सर्वलोकपितामहः
॥२॥जीवन्मुक्तं स्वतनुजं मत्सहायमकारयत् ॥
सहायो यादृशः पुंसां भवेत्कार्यं हि तादृशम्
॥३॥श्रुतं सभासु सर्वासु इति वृद्धानुशासनम् ॥
स इत्थं चिंतयन्राजा विसृज्य च सभासदः
॥४॥ततो मुनिं करे धृत्वा विवेशांतःपुरे द्विजाः ॥
तमर्चयित्वा विधिवत्पल्यंके सह तेन वै
॥५॥निशावशेषं नृपतिर्निनाय संलपन्मिथः ॥
ततः प्रभाते विमले नित्यं कर्म समाप्य वै
॥६॥पूजयित्वा जगन्नाथं संततार महानदीम् ॥
ओढ्रदेशाधिपेनाग्रे गच्छतादिष्टपद्धतिः
॥७॥एकाम्र वनकं क्षेत्रमभियातो बलान्वितः ॥
स गत्वा किंचिदध्वानं प्राप्य गंधवहाभिधाम्
॥८॥नदीं वेगवतीं शीततोयामाक्रम्य वेगवान् ॥
पूर्वाह्नपूजासमये कोटिलिंगेश्वरस्य वै
॥९॥चर्चरीशंखकाहालमृदंगमुरजध्वनिम् ॥
व्यश्नुवानं महारण्यं दूराच्छुश्राव भूपतिः
॥१०॥मन्यमानो भगवतो नीलाचल निवासिनः ॥
उवाच नारदं प्रीतो ध्वनिः कुत्र महामुने
॥११॥नीलाद्रिशिखरावासः प्राप्तः किं परमेश्वरः ॥
यदर्चासमये ह्येष श्रूयते संकुलध्वनिः
॥१२॥उताहोप्यन्यदेवो वा निकटे वर्त्तते मुने ।
इति पृष्टस्तदा राज्ञा प्रोवाच मुनिपुंगवः
॥१३॥राजन्सुदुर्लभं क्षेत्रं गोपितं मुरवैरिणा ॥
न तत्रास्तीति भगवान्कैरपि ज्ञायते नृभिः
॥१४॥त्वं हि भाग्यवतां श्रेष्ठस्त्वद्भाग्यात्ते पुरोधसा ॥
दृष्टः कथंचिद्भगवान्संयतेंद्रियवर्त्मना
॥१५॥त्वं हि तावद्बलैर्युक्तः षडंगैनृपसत्तम ॥
साहसेऽतिप्रवृत्तोऽसि संशयो मे महीपते
॥१६॥संवर्त्तते नीलगिरिर्योजने तु तृतीयके ॥
इदं त्वेकाम्रकवनं क्षेत्रं गौरीपतेर्विभोः ॥
नातिदूरे महीपाल भीतः स शरणागतः
॥१७॥इंद्रद्युम्न उवाच
कथं स भीतो गौरीशः कं वा शरणमागतः
॥१८॥ददाह त्रिपुरं घोरं शरेणैकेन यः पुरा ॥
अत्र मे विस्मयो जातः श्रोतुमिच्छामि दुर्लभम्
॥१९॥रक्षिता भवभीतानां भवः परमपावनः ॥
किमर्थं भयभीतोऽसौ कः समर्थोऽस्य वै जये
॥२०॥नारद उवाच
अत्र ते कथयिष्यामि पुरावृत्तं महीपते ॥
उपयेमे पुरा गौरीं तपसा वशमागतः
॥२१॥ब्रह्मचारी हिमगिरौ भगवान्नीललोहितः ॥
उत्सृज्य ब्रह्मचर्यं तु सोऽनंगशरपीडितः
॥२२॥तया रेमे रुचिरया यौवनोन्मत्तया नृप ॥
तत्पितुर्विषये भोगान्बुभुजे देवकांक्षितान्
॥२३॥कदाचिदथ निर्याती स्ववासभवनात्सती ॥
सामपूर्वं कुलस्त्रीभिर्मात्रोक्ता सस्मितं वचः
॥२४॥आर्ये महत्तपस्तप्तं वरार्थं गहने वने ॥
निष्कुलो निर्गुणो वृद्धो वरः प्राप्तो वरानने
॥२५॥दिवारात्रिं न त्यजसि सन्निधिं तादृशस्य वै ॥
को गुणः कथ्यतां वत्से किं वा पत्युः प्रसादजम्
॥२६॥भूषणाच्छादनं प्राप्तं ममैव गृहवासिनी ॥
चिरं तिष्ठसि भद्रे त्वं पितृभोगोपलालिता
॥२७॥त्रैलोक्ये यास्तु कन्या वै परिणीताः पितुर्गृहात् ॥
प्रयात्यलंकृताभर्त्रा भर्तृवेश्मनि शुश्रुम
॥२८॥अहं तु मानसी कन्या पितृणां पितृलोकतः ॥
आगता तु महाभागे परिणीता हिमाद्रिणा
॥२९॥इत्थमुक्ता मया हास्यान्न क्रोधाच्चललोचने ॥
जामातुरग्रे नो वाच्यं स हि विष्णुसमो मतः
॥३०॥नारद उवाच
मातुरित्थं वचः श्रुत्वा भर्तृनिंदाप्रपीडिता ॥
कोपप्रस्फुरदोष्ठी सा वाचं नोचे मनागपि
॥३१॥प्रययावंतिकं भर्तुर्निह्नु(ह्रु?)वानांऽबिकावचः ॥
जगाद परुषं वाक्यं स्नेहगर्भं मिताक्षरम्
॥३२॥स्वामिन्न सांप्रतं चैतद्यद्वासः श्वशुरालये ॥
क्षौद्रीयसामपि गुरोस्त्रैलोक्यस्य कथं नु ते
॥३३॥तदावयोर्नात्र योग्या वसतिर्मे प्रिया विभो ॥
न संति किं ते वासाय योग्या वै भूमयः प्रभोः
॥३४॥इत्युक्तः शिवया सोऽथ भगवान्वृषभध्वजः ॥
तया सार्द्धं वृषारूढो मध्यदेशं ययौ त्वरन्
॥३५॥विलंघ्य सर्व तीर्थानि प्रयागं पावनं महत् ॥
पूर्वसागरगामिन्या गंगाया उत्तरे तटे
॥३६॥वाराणसीं नाम पुरीं गौर्या वासाय निर्ममे ॥
पंचक्रोशमितां रम्यां वरप्रासादशोभिताम्
॥३७॥अट्टालकशतैर्युक्तामसंख्योपवनैर्युताम् ॥
नानातीर्थसमायुक्तां नानाजनसमाकुलाम्
॥३८॥आज्ञया धूर्जटेः शुभ्रां निर्मितां विश्वकर्मणा ॥
पावनैः शीतलैर्गंगातरंगैः क्षपितांहसाम्
॥३९॥तत्र मध्ये पुरे स्वर्णप्राकाराट्टालशोभिते ॥
रत्नस्तंभैः सुघटिते सर्वाशापरिपूरके
॥४०॥तया रेमे पशुपतिः श्रियेव मधुसूदनः ॥
सा पुरी विश्वनाथेन कदाचिन्नैव मुच्यते
॥४१॥अविमुक्तेति सा ख्याता नृणां मुक्तिप्रदायिनी ॥
पुरासीन्मनुजाधीश सेविता भवभीरुभिः
॥४२॥तत्रोषिता तदा गौरी तेन भर्त्रा स्वलंकृता ॥
मातरं पितरं चापि न सस्मार महीपते
॥४३॥एवं बहुयुगेऽतीते कैलासाद्रिं स जग्मिवान् ॥
आत्मनः कोटिलिंगानि तत्र संस्थाप्य वै प्रभुः
॥४४॥राजानः पालयामासुस्तां पुरीं बहुशो नृप ॥
तत्रासीत्काशिराजाख्यः पुरा द्वापरके युगे
॥४५॥शंभुं संतोषयामास तपसोग्रेण वै प्रभुम् ॥
जरासन्धपुरोगाणां राज्ञां जेतारमच्युतम्
॥४६॥संग्रामे प्रभविष्यामीत्यभिसंधाय पार्थिवः ॥
प्रादात्तस्मै वरं सोऽपि पिनाकी पारितोषितः
॥४७॥जेतासि कंसहंतारं संग्रामे त्वमरिंदम ॥
तवार्थे प्रमथैः सार्द्धमहं योत्स्ये वृषे स्थितः
॥४८॥शंभोरिति वरं लब्ध्वा प्रमत्तः स नराधिपः ॥
शंखचक्रधरं संख्ये हरिमाह्वत वीर्यवान्
॥४९॥अन्तर्यामी स भगवाञ्ज्ञात्वा वृत्तांतमीदृशम् ॥
चक्रं प्रस्थापयामास काशिराजस्य सूदने
॥५०॥तदुग्रदर्शनं चक्रं सहस्रादित्यवर्चसम् ॥
काशिराजशिरश्छित्त्वा तद्बलं तां पुरीं ततः
॥५१॥ददाह कुपितं राजन्विष्णोराशयवीर्यवित् ॥
तद्दृष्ट्वा सुमहत्कर्म क्रुद्धः पशुपतिस्तदा
॥५२॥गणैर्वृतो वृषारूढः पिनाकी तदुपाद्रवत् ॥
ततः सुदर्शनं चक्रं दृष्ट्वा तं प्रथमं पुरः
॥५३॥शंभुः पाशुपतास्त्रं तच्चकारोत्पातसन्निभम् ॥
पुरा विष्णोर्वरं प्राप्तं शंभुना भक्तितोषितात्
॥५४॥बलेनाप्याययिष्यामि तवास्त्रं संस्मृतस्त्वया ॥
मयि चेत्प्रतिकूलस्त्वं भविष्यति च निष्प्रभम्
॥५५॥घोरे पाशुपते चास्मिन्नस्त्रे च विफलीकृते ॥
वाराणस्यां च दग्धायां भयत्रस्तो वृषध्वजः
॥५६॥तुष्टाव जगतामदिमनादिं पुरुषोत्तमम्
॥५७॥महादेव उवाच
नारायण परंधाम परमात्मन्परात्पर ॥
सच्चिदानन्दविभव निरञ्जन नमोऽस्तु ते
॥५८॥जगत्कारणसृष्ट्यादि कर्मकृद्गुणभेदतः ॥
मायया निजया गुप्त स्वप्रकाश नमोऽस्तु ते
॥५९॥नांतर्बहिर्बहिश्चांतर्दूरस्थो निकटाश्रयः ॥
गुरुर्लघुः स्थिरोऽणीयान्स्थवीयांश्च नमोऽस्तु ते
॥६०॥कोटयश्चतुरास्यस्य पलार्द्धं मम चातुल ॥
यदपांगविलासोत्थं तस्मै कालात्मने नमः
॥६१॥एकैकरोमाकलितब्रह्माण्डगणसंवृतम् ॥
मानातीतं वपुर्यस्य तस्मै विश्वात्मने नमः
॥६२॥स्वकालपरिमाणेन वेधसः प्रलयोद्भवौ ॥
मन्वंतरादिघटनाकलनाय नमोऽस्तु ते
॥६३॥सृष्टोऽहं तमसा नाथ त्वत्प्रभावानभिज्ञकः ॥
तत्क्षमस्वापराधं मे त्राहि मां शरणागतम्
॥६४॥स्तुतिमित्थं प्रकुर्वाणे तस्मिंस्त्रिपुरदाहिनि ॥
चक्ररूपं परित्यज्य आविरासीदधोक्षजः
॥६५॥प्रसन्नवदनः श्रीमाञ्छंखचक्रगदाधरः ॥
तार्क्ष्यपद्मासनगतो वनमालाविभूषणः
॥६६॥हारकुण्डलकेयूरमुकुटादिभिरुज्ज्वलः ॥
वामोत्संगगतां लक्ष्मीं सत्यां दक्षिणपार्श्वगाम्
॥६७॥बिभ्राणः कृष्णजीमूतकांतदेहं कृपाम्बुधिः ॥
क्रोधाविष्ट इवोवाच बिभ्यतं गिरिजापतिम्
॥६८॥श्रीभगवानुवाच
कालेनैतावता शंभो दुर्बुद्धिः कथमागता ॥
हेतोर्नृपतिकीटस्य मया योद्धुमुपस्थितः
॥६९॥कति वा मत्प्रभावास्ते नो ज्ञाता धूर्जटे त्वया ॥
सत्यं पाशुपतं तेऽस्त्रं दुर्जयं ससुरासुरैः
॥७०॥मत्क्रोधरूपं तच्चक्रं त्वामपि क्षमते न यत् ॥
मामवज्ञाय जगति भ्रमति त्वामृते हि कः
॥७१॥तपोभिर्बहुभिः पूर्वं मच्छरीरतयोर्जितः ॥
सांप्रतं चेच्चिरं रंतुं गौर्या सार्द्धमिहेच्छसि
॥७२॥पुरीं वाराणसीं चेमां यदीच्छसि चिरस्थिताम् ॥
मन्नाम्ना भुवि विख्यातं क्षेत्रं श्रीपुरुषोत्तमम्
॥७३॥दक्षिणस्योदधेस्तीरे नीलाचलविभूषितम् ॥
दशयोजनविस्तीर्णं यावद्विरजमण्डलम्
॥७४॥क्रमशः पावनं क्षेत्रं यावच्चित्रोत्पला नदी ॥
ततः प्रभृति यो देशो यावत्स्याद्दक्षिणार्णवः
॥७५॥पदात्पदाच्छ्रेष्ठतमो नीलाद्रिरपवर्गदः ॥
चतुर्देहस्थितोऽहं वै यत्र नीलमणीमयः
॥७६॥तस्योत्तरस्यां विख्यातं वनमेकाम्रकाह्वयम् ॥
पार्वत्या तत्र निवस निर्भयस्त्रिपुरांतक
॥७७॥सृजता सर्वलोकानां मन्निदेशात्स्वयंभुवा ॥
तत्रापि कोटिलिंगानां राजा त्वमभिषेक्ष्यसे
॥७८॥सर्वतीर्थमयं चेदं तीर्थं यन्मणिकर्णिकम् ॥
इहाहंकारमुत्सृज्य व्रज त्वं सपरिच्छदः
॥७९॥नारद उवाच
इत्युक्तो वासुदेवेन त्र्यंबको नतकन्धरः ॥
कृतांजलिपुटो भूत्वा प्रोवाच मधुसूदनम्
॥८०॥महादेव उवाच
देवदेव जगन्नाथ प्रणतार्तिहर प्रभो ॥
त्वदाज्ञापालनं श्रेयः कारणं मे जगत्पते
॥८१॥यत्तु मूढतया देव अवलेपः कृतो मया ॥
तवैवानुग्रहस्तत्र प्रभो चांचल्यकारणम्
॥८२॥यदादिशसि देवेश प्रयाणं पुरुषोत्तमम् ॥
तन्मूर्ध्नि कृत्वा यास्यामि क्षेत्रं मुक्तिप्रदं शिवम्
॥८३॥अभिसंधिं कुरुष्वाद्य ममानुग्रहकारणम् ॥
पुरुषोत्तमं मम क्षेत्रं त्वमेव परिपालय
॥८४॥यथा पुनर्नेदृशं तद्विनाशमुपयास्यति ॥
इत्थमेतत्पुरा क्षेत्रं महादेवेन निर्मितम्
॥८५॥बलश्रीसहितं देवमर्चयन्पुरुषोत्तमम् ॥
अत्र साक्षादुमाकांतः स्थापितः परमेष्ठिना
॥८६॥वयं तत्र व्रजिष्यामो द्रक्ष्यामः पुरनाशनम् ॥
सुदृढांतस्तमःस्तोमभास्वंतं गिरिजापतिम्
॥८७॥यदेतच्छांभवं क्षेत्रं तमसो नाशनं परम् ॥
रजःप्रक्षालनं श्रेयः ख्यातं विरजमण्डलम्
॥८८॥सत्त्वोद्रिक्ततया ख्यातं मुक्तिदं पुरुषोत्तमम् ॥
यावत्यन्यानि क्षेत्राणि मुक्तिदानि श्रुतानि ते
॥८९॥तानि सर्वाणि राजेंद्र ददते मुक्तिमत्र वै ॥
एतत्क्षेत्रं महाराज दुष्कृताविलचेतसाम्
॥९०॥न विश्वासपथं याति रहस्यं चक्रपाणिनः
॥९१॥जैमिनिरुवाच
नारदस्य वचः श्रुत्वा प्रहृष्टहृदयो नृपः ॥
उवाच मुनिशार्दूलं विस्मयोत्फुल्ललोचनः ॥
साधु मे कथितं ब्रह्मन्क्षेत्रं परमपावनम्
॥९२॥यत्रोमापतिरास्तेऽसौ पालकः पुरुषोत्तमः ॥
अवश्यं तत्र गच्छामः पन्था यद्यपि वक्रभूः ॥
उद्दिष्टेष्टपरिप्राप्तौ यदिदं कारणं महत्
॥९३॥जैमिनिरुवाच
ततस्तौ मुनिभूपालौ मध्याह्नसमये द्विजाः ॥
प्रापतुः सबलौ क्षेत्रमेकाम्रवनसंज्ञकम्
॥९४॥बिंदुतीर्थे नृपः स्नात्वा तीरस्थं पुरुषोत्तमम् ॥
संपूज्य विधिवद्यातः कोटीश्वरमहालयम्
॥९५॥तद्वारि सम्यगाचांतस्तत्प्रीत्यै सुबहूनि सः ॥
गजाश्वधनरत्नानि वस्त्रालंकरणानि च
॥९६॥द्विजेभ्यः प्रददौ राजा सात्त्विकं धर्ममास्थितः ॥
लिंगं त्रिभुवनेशं तं महास्नानेन पूजयन्
॥९७॥अतुलां प्रीतिमालेभे विष्णोरद्वैतदर्शनः ॥
स्तुत्वा प्रणम्य भक्त्यासौ वीणया चोपगाय्य च
॥९८॥कृतांजलिपुटो देवप्रसादनकृतोद्यमः ॥
अनन्यमनसा तस्थौ चिंतयन्वृषभध्वजम्
॥९९॥ततः प्रसन्नो भगवांस्त्र्यंबकः परमेश्वरः ॥
साक्षान्नृपमुवाचेदं स्पष्टाक्षरपदं द्विजाः
॥१००॥कोटिलिंगेश उवाच
इन्द्रद्युम्न महाराज वैष्णवस्त्वादृशो भुवि ॥
दुर्लभः खलु ते वांछा चिरात्सम्यग्भविष्यति
॥१॥इत्युक्त्वांतर्दधे शंभुः पश्यतस्तु महीक्षितः ॥
नारदं पुनराहेदं यदादिष्टं स्वयंभुवा
॥२॥तत्कल्पय महाभाग वाजिमेधपुरःसरम् ॥
विष्णोः कलेवरे तस्मिन्क्षेत्रे श्रीपुरुषोत्तमे
॥३॥अंतर्वेदी महापुण्या विष्णोर्हृदयसंनिभा ॥
तस्याः संरक्षणायाहं स्थापितो विष्णुनाष्टधा
॥४॥शंखाकृतेरग्रभागे नीलकण्ठोऽहमास्थितः ॥
दुर्गया सह विप्रेंद्र तत्रेमं भूपतिं नय
॥५॥अन्तर्हितः खल्विदानीं नीलरत्नतनुर्हरिः ॥
तत्र श्रीनरसिंहस्य क्षेत्रं कुरु मदाज्ञया
॥६॥तत्र नः सन्निधौ वाजिमेधेन यजतामयम् ॥
सहस्रेण नृपश्रेष्ठ तदन्ते तरुमद्भुतम्
॥७॥दर्शयैनं द्विजश्रेष्ठ ब्रह्मरूपमकल्मषम् ॥
चतस्रः प्रतिमास्तेन विश्वकर्मा घटिष्यति
॥८॥तासां प्रतिष्ठितौ ब्रह्मा स्वयमेवागमिष्यति ॥
यथायं क्षीणपापः स्याद्वाजिमेधैर्यजन्हरिम्
॥९॥तिष्ठत्वब्दसहस्रं वै तदंते लोकयिष्यति ॥
समस्तजगदाधारं सर्वकल्मषनाशनम्
॥११०॥दारवीं तनुमास्थाय दर्शनादपवर्गदम् ॥
न तस्य चरितं वेत्ति ब्रह्माऽहं त्वं च नारद
॥११॥आज्ञानुष्ठानतो भक्त्या प्रसीदति स केवलम् ॥
नारदोऽपि महादेवं प्रणिपत्य जगद्गुरुम् ॥
उवाच प्रांजलिर्भूत्वा यदादिष्टं त्वया विभो
॥१२॥पितामहोऽपि मामित्थं निर्दिदेशास्य कल्पनम् ॥
पितामहश्च त्वं नाथ नो भिन्नौ परमात्मनः
॥१३॥नृपतेरस्य भाग्यर्द्धिरीदृशी यत्कृते विभो।
अगोचरोऽसि मनसस्त्र्याणामप्यनुग्रहः
॥१४॥यत्प्रसंगेन तरणं भवाब्धेरपि दुष्कृताम् ॥
अचिंत्यमहिमा ह्येष भगवान्भूतभावनः
॥१५॥न बुद्धिगोचरे भक्तिर्यावत्या प्रीयते ह्यसौ ॥
चिरं यतंतस्तिष्ठंति वेदानुवचनादिभिः ॥
क्षुद्रोऽपि लभते मुक्तिमनायासेन कर्मणा
॥१६॥गव्योपजीव्या गोप्यस्तु वनचारगृहोषिताः ॥
अरण्यजीवनाः प्रापुर्मुक्तिं कामोपभोगतः
॥१७॥द्रुहन्निरंतरं प्राप शिशुपालः सभांतरे ॥
व्याधोः हृदयमाविध्य गतिं प्राप सुदुर्लभाम्
॥१८॥वस्त्राकर्षं गृहं नीत्वा कुब्जैनं बुभुजे पुरा ॥
यं ध्यानलयमापन्ना लभंते न सुरस्त्रियः
॥१९॥चंडालाय ददौ मुक्तिं दूरस्थायापि नो पुनः ॥
आसन्नायातिभक्ताय श्रोत्रियाय पुरा विभुः
॥१२०॥मायाभिर्वंचयेत्त्वां हि पितामहमपि प्रभुः ॥
तिष्ठंति दुःखबहुलास्तपोभिर्देहबंधनाः
॥२१॥गौतमाद्या ब्रह्मचर्यनिष्ठाः कल्पान्तवासिनः ॥
ईदृक्तादृक्परिच्छेदगोचरं नास्य चेष्टितम्
॥२२॥व्यवसायेन बहुना कालेन महता तथा ॥
निर्णेतुं शक्यते नास्य चरितं वा सुमेधसः
॥२३॥उपाया बहवः संति ये शास्त्रपरिनिष्ठिताः ॥
विदुषां मोचनायेह बहुशस्तैर्यजंति वै
॥२४॥सर्वेषामुत्तमोपायो वसतिः पुरुषोत्तमे ॥
याऽवश्यं स्वामिसायुज्यं प्रापयेत्सुसखा यथा
॥२५॥तदेनं मायिनं प्राप्तुमुपायो नांतरीयकः ॥
स्वयं निधाय हरिणा यत्र वासः सुरक्षितः
॥२६॥इंद्रद्युम्नप्रसंगेन जायते सार्वलौकिकः ॥
तदाज्ञापय देवेश गृहीत्वैनं बलान्वितम्
॥२७॥उपत्यकायां संस्थाप्य दीक्षयित्वा महाक्रतौ ॥
आगमिष्यामि पादाब्जसमीपं ते वृषध्वज
॥२८॥जैमिनिरुवाच
तथेत्युक्त्वा महादेवः क्षणादंतर्दधे मुनेः ॥
सोऽपि राज्ञो रथे तिष्ठन्प्रययौ क्षेत्रमुत्तमम्
॥२९॥द्वितीयेऽह्नि कपोतेशस्थलीमासेदिवान्नृपः ॥
दैर्घ्यायामसमायुक्तां जलाशयद्रुमाकुलाम्
॥१३०॥बिल्वेशः पूर्वसीमायां समुद्रतटमास्थितः ॥
सेनानिवेश योग्यां तां मत्रिणा संनिवेदिताम्
॥३१॥यथायोग्यं यथास्थानं स्थापयित्वा नृपोत्तमः ॥
बिल्वेश्वरकपोतेशं नमस्कृत्य प्रपूज्य च
॥३२॥रथमास्थाय मतिमान्सहितो ब्रह्मसूनुना ॥
मनसा वचसा विष्णुं नीलाचलनिवासिनम् ॥
चिंतयन्कीर्तयन्विप्रा जगाम संनिधिं हरेः
॥१३३॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये जैमिनिऋषिसंवादे द्वादशोऽध्यायः ॥ १२ ॥