पुष्यस्नानोत्सवं वक्ष्ये यथोक्तं ब्रह्मणा पुरा
जैमिनिरुवाच
पुष्यस्नानोत्सवं वक्ष्ये यथोक्तं ब्रह्मणा पुरा ॥
पुष्यर्क्षेण च संयुक्ता पौर्णमासी यदा भवेत्
॥१॥पौषे मासि तथा कुर्यात्पुष्यस्नानोत्सवं हरेः ॥
एकादश्यां प्रकुर्वीत ऐशान्यामंकुरार्पणम्
॥२॥ततः प्रतिदिनं कुर्यात्प्रतिमायां हरेर्गृहे ॥
नृत्यगीतोपहारैश्च प्रतिरात्रं वलिं हरेत्
॥३॥चतुर्दशीनिशायां तु कुंभानामधिवासनम् ॥
एकाशीतिप्रमाणानां तथा स्वर्णमयाञ्च्छुभान्
॥४॥गव्यसर्पिःप्रपूर्णांश्च स्थापयेदेकविंशतिम् ॥
कारयेत्सर्वतोभद्रं मंडलं पुरतो हरेः
॥५॥तन्मध्ये बृहदाधारं स्थापयेद्दर्पणं शुभम् ॥
रात्रौ जागरणं कुर्याद्गीतनृत्यादिविस्तरैः
॥६॥प्रभाते वह्निकार्यं च कुर्यात्तद्दैवतं द्विजाः ॥
पालाशीभिः समिद्भिस्तु चरुणा सर्पिषा तथा
॥७॥ब्रह्मविष्णुशिवेभ्यस्तु प्रत्येकं तु सहस्रकम् ॥
स्वलिंगमन्त्रैर्जुहुयात्तदंते पुरुषोत्तमम्
॥८॥पूजयेदुपचारैस्तैरादर्शं प्रतिबिंबितम् ॥
ततः पुरुषसूक्तेन कुम्भांस्तानभिमन्त्रयेत्
॥९॥तेनैवाच्छिद्रधारेण स्नापयेत्पुरुषोत्तमम् ॥
पावमानीयकैर्देवाञ्छ्रीसूक्तेन ततः परम्
॥१०॥सर्पिः कुंभैः स्नापयेच्च गायत्र्या च ततः परम् . ॥
वैष्णव्या गन्धतोयेन श्रीसूक्तेन समर्चयेत्
॥११॥सहस्रधारया देवं ततो निर्माल्यमुत्सृजेत् ॥
देवांगं लेपयेद्गन्धैश्चंदनेन च विग्रहे
॥१२॥यथास्थानं यथाशोभमलंकारांश्च योजयेत् ॥
सुगन्धसुमनोमाल्यैर्भूषयेत्तदनंतरम्
॥१३॥अष्टायुधानि देवस्य चक्रादीनि न्यसेत्पुरः ॥
रत्नच्छत्रं समुच्छ्रित्य पूजयेत्पुरुषोत्तमम्
॥१४॥लक्ष्म्या युक्तं पुनर्विप्रा उपहारैः समृद्धिमत् ॥
शंखेषु पूर्यमाणेषु स्निग्धगंभीरनादिषु
॥१५॥चामरांदोलव्यग्रासु वेश्यासु रुचिरासु च ॥
मांगल्यगीतनृत्याद्यैः स्तुतिपाठेषु बन्दिनाम्
॥१६॥जयशब्दं प्रकुर्वत्सु द्विजातिषु मुहुर्मुहुः ॥
दूर्वाक्षतांजलिभिस्त्रिभिः संपूज्य केशवम्
॥१७॥गोसर्पिर्दीपकैः स्वर्णपात्रकैरतिनिर्मलैः ॥
नीराजयेज्जगन्नाथं कर्पूरयुतवर्तिभिः
॥१८॥स्वर्णपात्रस्थितं चारु तांबूलं सुपरिष्कृतम् ॥
शनैःशनैर्मुखाभ्याशे प्रत्येकं विनिवेदयेत्
॥१९॥आचार्ये दक्षिणां दद्याद्ब्राह्मणांश्चैव पूजयेत्
॥२०॥पुष्यस्नानोत्सवं पुण्यं ये पश्यंति मुदान्विताः ॥
संपूर्णसर्वकामास्ते व्रजेयुर्वैष्णवं पदम्
॥२१॥राज्यभ्रष्टो लभेद्राज्यं सार्वभौमं च विंदति ॥
अपुत्रा मृतवत्सा वा पुत्रं दीर्घायुषं लभेत्
॥२२॥दारिद्र्यनाशनं धन्यं ब्रह्मवर्चसकारणम् ॥
पुष्यस्नानं कीर्तितं वः शृणुध्वं चोत्तरायणम्
॥२३॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये पुष्याभिषेकविधिवर्णनं नामैकचत्वारिंशोऽध्यायः ॥ ४१ ॥