जगामांतर्हितो विप्राः प्रासादांतः स्थितो हरिः
जैमिनिरुवाच
इति दत्त्वा वरं तस्मै श्वेतराजाय वै पुरा ॥
जगामांतर्हितो विप्राः प्रासादांतः स्थितो हरिः
॥१॥समस्तजगतां या श्रीः सृष्टिस्थितिविनाशकृत् ॥
वैष्णवीशक्तिरतुला परिवेषणकारिणी
॥२॥सुधोपमं सुपक्वान्नं भुंक्ते नारायणः प्रभुः ॥
तदुच्छिष्टोपभोगो हि सर्वाघक्षयकारकः
॥३॥न तादृशसमं पुण्यं वस्त्वस्ति पृथिवीतले ॥
पापसंस्कारकर्तॄणां संपर्कात्तु न दुष्यति
॥४॥पद्मायाः सन्निधानेन सर्वे ते शुचयः स्मृताः ॥
विष्ण्वालयगतं तद्धि निर्माल्यं पतितादयः
॥५॥स्पृशंति चेन्न दुष्टं तद्यथा विष्णुस्तथैव तत् ॥
व्रतस्था विधवाश्चैव सर्वे वर्णाश्रमास्तथा
॥६॥तत्प्राशनेन पूयन्ते दीक्षिताश्चाग्निहोत्रिणः ॥
दरिद्रः कृपणो वापि गृहस्थः प्रभुरेव वा
॥७॥स्वदेश्याः परदेश्या वा सर्वे तत्र समागताः ॥
नाभिमानं प्रकुर्वीरन्विष्णोर्निर्माल्यभक्षणे
॥८॥भक्त्या लोभात्कौतुकाद्वा क्षुधासंशमनेन वा ॥
आकंठभक्षितं तद्धि पुनाति सकलांहसः
॥९॥सर्वरोगोपशमनं पुत्रपौत्रप्रवर्द्धनम् ॥
दारिद्र्यहरणं श्रेष्ठं विद्यायुःश्रीप्रदं शुभम्
॥१०॥पक्षपातो महांस्तत्र विष्णोरमिततेजसः ॥
निन्दन्ति ये तदमृतं मूढाः पंडितमानिनः
॥११॥स्वयं दंडधरस्तेषु सहते नापराधिनः ॥
येषामत्र स दण्डश्चेद्ध्रुवा तेषां हि दुर्गतिः
॥१२॥कुम्भीपाके महाघोरे पच्यन्ते तेऽतिदारुणे तं न विक्रयः क्रयो वापि प्रशस्तस्तस्य भो द्विजाः
॥१३॥निर्माल्यं जगदीशस्य नाशित्वाश्नामि किञ्चन ॥
इति सत्यप्रतिज्ञो यः प्रत्यहं तच्च भक्षयेत्
॥१४॥सर्वपापविनिर्मुक्तः शुद्धांतःकरणो नरः ॥
स शुद्धं वैष्णव स्थानं क्रमाद्याति न संशयः
॥१५॥चिरस्थमपि संशुष्कं नीतं वा दूरदेशतः ॥
यथातथोपयुक्तं तत्सर्वं पापापनोदनम्
॥१६॥कुक्कुरस्य मुखाद्भ्रष्टं तदन्नं पतितं यदि ॥
ब्राह्मणेनापि भोक्तव्यमितरेषां तु का कथा
॥१७॥उपोष्य तिष्ठता वापि नोपवासं च कुर्वता ॥
अशुचिर्वाप्यनाचारो मनसा पापमाचरन् ॥
प्राप्तमात्रेण भोक्तव्यं नात्र कार्या विचारणा
॥१८॥नैवेद्यान्नं जगद्भर्त्तुर्गांगं वारि समं द्वयम् ॥
दृष्टेः स्वर्गादि संप्राप्तिर्भक्षणाच्चाघनाशनम्
॥१९॥जगद्धात्र्या हि यत्पक्वं वैष्णवेऽग्नौ सुसंस्कृते ॥
भुक्तेऽन्वहं चक्रपाणिर्युगमन्वंतरादिषु
॥२०॥सप्तद्वीप धरामध्ये सान्निध्यं नेदृशं हरेः ॥
यादृशं नीलगोत्रेऽस्मिन्व्याजमानुषचेष्टितम्
॥२१॥दारुरूपं परं ब्रह्म सर्वचाक्षुषगोचरम् ॥
प्रकाशते भो मुनयो न दृष्टं न श्रुतं क्वचित्
॥२२॥तस्मै प्रवृत्तिरूपाय ब्रह्मणे परमात्मने ॥
प्रवृत्तिरूपा शक्तिः श्रीः प्रवर्तयति यद्धविः
॥२३॥तदश्नाति जगन्नाथस्तच्छेषं दुरितापहम् ॥
किमत्र चित्रं भो विप्रा यदुक्तं मुक्तिकारणम्
॥२४॥नाल्पपुण्यवतां तत्र विश्वासश्च प्रजायते ॥
वेदाचारप्रधानेषु युगे ह्येतत्प्रकीर्तितम्
॥२५॥महिमानं न वेदास्य विशेषाच्छ्रूयतां कलौ ॥
घोरे कलियुगे तस्मिंस्त्रिपादो धर्मविप्लवः
॥२६॥धर्मः स्यादेकपादस्तु क्वचित्तस्य भयाच्चरेत् ॥
सर्वेनृतप्रधाना हि दांभिकाः शब्दवृत्तयः
॥२७॥प्रायश्च धर्मविमुखा जिह्वोपस्थपरायणाः ॥
न ध्यायंति तपस्यन्ति व्रतयंति कदाचन
॥२८॥अधर्मबहुलाः सर्वे हिंसका लोलुपाः परम् ॥
परेषां परिवादेन तुष्यन्ति स्वकृतं विना
॥२९॥प्रसंगात्कौतुकाद्वापि निघ्नंति परकर्म वै ॥
क्षुद्रकार्याशयात्स्वस्य परकार्यप्रबाधकाः
॥३०॥धर्मलब्धां स्त्रियं रम्यामवज्ञाय स्ववेश्मनि ॥
परयोषिति निंद्यायां प्रसक्ताः पशुचेष्टिताः
॥३१॥अग्निहोत्रादिकं वापि व्रतं नान्यत्क्वचित्क्वचित् ॥
जीविका तद्द्विजातीनां येषां वा पारलौकिकम्
॥३२॥अव्रताधीतवेदेन अन्यायाप्तधनेन च ॥
वित्तशाठ्येन च कृतं न तथा फलदायि तत्
॥३३॥प्रायः कलियुगे भूपाः प्रजावनपराङ्मुखाः ॥
करादानपरा नित्यं पापिष्ठाश्चौर्यवृत्तयः
॥३४॥वर्णसंकरिणः सर्वे शूद्रप्रायाः कलौ युगे ॥
हर्तारः पार्थिवा एव शूद्राश्च नृपसेवकाः
॥३५॥श्रौतस्मार्तादिकं कर्म न तथा सदनुष्ठितम् ॥
युगे चतुर्थे भो विप्राः परलोकाय कल्पिते
॥३६॥दानधर्मः परो ह्येष नान्यो धर्मः प्रशस्यते ॥
कर्मणा मनसा वाचा हितमिच्छेद्द्विजन्मनाम्
॥३७॥इति होवाच भगवान्ब्राह्मणो मामकी तनुः ॥
ब्राह्मणा यस्य संतुष्टाः सन्तुष्टस्तस्य चाप्यहम्
॥३८॥उभयत्र समो भूयाद्ब्राह्मणे च जनार्दने ॥
यद्वदंति द्विजा वाक्यं तत्स्वयं भगवान्वदेत्
॥३९॥यथातथा वर्तमानो वर्णानां ब्राह्मणो गुरुः ॥
भगवानपि देवेशः स साक्षाद्ब्राह्मणप्रियः
॥४०॥सदावतारं कुरुते ब्राह्मणार्थं जनार्दनः ॥
तत्पालनार्थं दुष्टान्वै निगृह्णाति युगे युगे
॥४१॥ससर्ज ब्राह्मणानग्रे सृष्ट्यादौ स चतुर्मुखः ॥
सर्वे वर्णाः पृथक्पश्चात्तेषां वंशेषु जज्ञिरे
॥४२॥तस्मात्कलियुगे तस्मिन्ब्राह्मणो विष्णुरेव च ॥
उभौ गतिश्च सर्वेषां ब्राह्मणानां हरिर्गतिः
॥४३॥हरिरेवात्र सर्वेषां गतिः प्राप्ते कलौ युगे ॥
शालग्रामादिके क्षेत्रे स्मर्यते कीर्त्यतेऽपि च
॥४४॥तस्मिन्नीलाचले पुण्ये क्षेत्रे क्षेत्रज्ञवर्ष्मणि ॥
जीवभूतः स सर्वेषां दारुव्याजशरीरभृत्
॥४५॥कलिकल्मषनाशाय प्रायो दुष्कृतकर्मणाम् ॥
दर्शनस्तवनोच्छिष्टभोजनैर्मुक्तिदायकः
॥४६॥उच्छिष्टेन सुरेशस्य व्याप्तं यस्य कलेवरम् ॥
तदाहारस्तदात्मा हि लिप्यते न स पातकैः
॥४७॥निवेदनीयमन्यासु मूर्तिष्वीशस्य वर्तते ॥
पावनं तदपि प्रोक्तमुच्छिष्टं तु विमोचकम्
॥४८॥भुंक्ते त्वत्रैव भगवान्पश्यत्यन्यत्र चक्षुषा ॥
पुरायं प्रार्थितो देवो योगिभिः परिवेष्टितैः
॥४९॥निर्माल्योच्छिष्टभोगेन तव मायां जयेमहि ॥
अत्यंतस्तिमिताक्षाणामनायासेन मुक्तिदः
॥५०॥शयनासनभोगाद्यै रमते च श्रिया सह ॥
अत्र चेष्टा भगवतो वेदार्थ इति धार्यताम्
॥५१॥समतिक्रांतवेदो हि न कदाचित्प्रवर्तते ॥
वेदरक्षार्थमेवास्य संभवो हि युगे युगे
॥५२॥प्रमाणभूतो भगवान्विरुद्धं कथमाचरेत् ॥
तस्मिन्विरुद्धं चरति जगदेव तथा भवेत्
॥५३॥आचारेण हि वेदार्थो नियतो धामतां गतः ॥
मध्यदेशभवः पूर्वमत्रागच्छद्द्विजोत्तमः
॥५४॥शिष्टाचारैः सुविमलः शास्त्रार्थपरिनिष्ठितः ॥
सदा शांतः सदा दांतः कायवाङ्मनसैर्गृही
॥५५॥स तीर्थविधिना देवं समभ्यर्च्य च साग्निकः ॥
त्रिरात्रमत्रोषितवान्विष्ण्वर्चनपरः शुचिः
॥५६॥यज्ञशेषं गृहस्थानां भोक्तव्यमिति शास्त्रतः ॥
देवोच्छिष्टं न जग्राह अन्यपाकाभिशंकया
॥५७॥दैवतैरत्र संस्कार्यो देवयोग्यः कथं भवेत् ॥
अयोग्यत्वाच्च नैवेद्यमग्राह्यं च भवेद्ध्रुवम्
॥५८॥अगृहीते च नैवेद्ये श्रोत्रियेण तदा द्विजाः ॥
सर्वे च तस्यानुचरा नाभुंजंत निवेदितम्
॥५९॥ततः स व्याधिसंमग्नो विह्वलीभूतविग्रहः ॥
सकुटुंबोऽभवन्मूको भगवद्द्रोहसंयुतः
॥६०॥मनसा चिन्तयत्येवं निर्निमित्तं कथं नु मे ॥
कुटुम्बसहितस्याभूत्पीडा सर्वांगभंजिनी
॥६१॥एवं चिन्तयमानस्य त्रिरात्रांतेऽभवन्मतिः ॥
नेदृशी व्याधिपीडा च सर्वेषामेकदा भवेत्
॥६२॥को वा द्रोहः कृतोऽस्माभिरेतस्मिन्पुरुषोत्तमे ॥
न बुद्धिपूर्वकः किं स्यात्ततो मे व्याधिकारणम्
॥६३॥मुहुरित्थं चिन्तयित्वा दध्यौ नारायणं प्रभुम् ॥
ध्यानावसाने तुष्टाव शास्त्रतत्त्वार्थदर्शकः
॥६४॥शांडिल्य उवाच
चतुर्दशापि या विद्या धर्मनिर्णयहेतवः ॥
ताः सर्वास्तव वाक्यानि मुखपद्मविनिर्गताः
॥६५॥ताभिरेवाचरेद्धर्ममिति शास्त्रार्थनिश्चयः ॥
तस्य धर्मस्य रक्षार्थमवतारो युगे युगे
॥६६॥तमुल्लंघ्य वर्त्तमानो भवद्द्रोहकरो ध्रुवम् ॥
अहं ते देवदेवेश कर्मणा मनसा गिरा
॥६७॥धर्मशास्त्रमतिक्रम्य न वर्त्तेऽप्यर्थकामयोः ॥
अनेक जन्मसाहस्रैः संचितं पापसंचयम्
॥६८॥दग्धुमत्रागतो देव त्वद्दर्शनदवाग्निना ॥
कोऽपराधः कृतो देव त्वच्छास्त्रपथि वर्तिना ॥
सर्वांगं वाधते यस्मादुग्रो व्याधिरहेतुकः
॥६९॥ज्ञानतोऽज्ञानतो वापि त्वत्पादसरसीरुहे ॥
कृतोऽपराधो यो देव तं क्षमस्व कृपांबुधे ॥
भूमौ स्खलितपादानां भूमिरेवावलंबनम्
॥७०॥त्वयि जातापराधानां त्वमेव शरणं प्रभो ॥
तवापराधजं पापं त्वमेव च क्षमस्व मे
॥७१॥वह्निसंतापतो नश्येद्वह्निसंतापजो व्रण ॥
तदिमां दुर्दशां देव प्रारब्धां पापबीजजाम्
॥७२॥लीलापांगेन शमय अपवर्गैकहेतुना ॥
मामुद्धर जगन्नाथ पतितं शोकसागरे
॥७३॥त्वद्दर्शनपथं यातः किं नु शोच्यो भवेन्नरः ॥
निसर्गकरुणांभोधे यस्त्वद्दृष्टिपथं गतः
॥७४॥सदानन्दाब्धिसंमग्नो न शोचति न कांक्षति ॥
नाल्पभाग्यो ह्यहं देव त्वामद्राक्षं स्वचक्षुषा
॥७५॥अपवर्गांतरायो मे ध्रुवमेषा विभीषिका ॥
तत्प्रसीद जगन्नाथ सेवकं द्रोहिणं सदा
॥७६॥सेव्यसेवकसंबंधादपराधं क्षमस्व मे ॥
इति स्तवांते तस्याशु देहपीडागमत्तदा
॥७७॥ददर्श सोथ गोविन्दं नृसिंहं भक्तवत्सलम् ॥
दिव्यसिंहासनारूढं दिव्यालंकारभूषितम्
॥७८॥आददानं श्रिया दत्तं परमान्नं करांबुजे ॥
ग्रासावशेषं पात्रेषु क्षिपंतं च मुहुर्मुहुः
॥७९॥यावद्दत्तं वस्तुजातं तावदश्नंतमत्वरम् ॥
विलाससस्मितापांगं हस्ते लक्ष्म्यापवर्जितम्
॥८०॥तं दृष्ट्वा विस्मयाविष्टः शांडिल्यः स द्विजोत्तमः ॥
सस्मारात्मकृतं द्रोहं नैवेद्याग्रहणे स्थितम्
॥८१॥क्वाहं प्रादेशिकः प्राज्ञः सर्वज्ञाननिधिर्भवान् ॥
क्व त्वं महदहंकारभूततत्त्व विसर्जकः
॥८२॥त्वन्मायामूढमनसो जानीयुः कथमीश ते ॥
निरंकुशामनिर्वाच्यामिच्छां सृष्टिलयात्मिकाम्
॥८३॥इति स्तुवंतं नृहरिस्तेनैवोच्छिष्टपाणिना ॥
सिषेच ग्रासशिष्टांश्च सर्वांगे द्विजसत्तमम्
॥८४॥तैः सिक्तैर्ब्राह्मणः सद्यः सुधासेकोपमैर्मुदा ॥
बभौ दिव्यवपुः श्रीमांञ्जीवन्मुक्तो यथा मुनिः
॥८५॥महिमानं हि भक्तेस्तु भक्ता एव विजानते ॥
महतीं सूतिपीडां तु वन्ध्या नानुभवेत्क्वचित्
॥८६॥इत्युदीर्य स्वयं गात्रादुच्छिष्टं परमात्मनः ॥
भुक्त्वा कृतार्थमात्मानं मेने श्रोत्रियपुंगवः
॥८७॥साधारणं धर्मशास्त्रं क्षेत्रेऽस्मिन्न विचार्यते ॥
अयं तु परमो धर्मो यो देवेन प्रकीर्तितः
॥८८॥आचारप्रभवो धर्मो धर्मस्य प्रभुरच्युतः ॥
इत्थं संचितयन्विप्रः कुटुम्बार्थेऽवशेषितम्
॥८९॥आजहार स्वयं मुष्ट्या ध्यानभङ्गमवाप च ॥
प्रबुद्धश्चिंतयामास स्वप्नं तं विस्मिताशयः
॥९०॥अयमेव मम द्रोहो ह्यवज्ञासिषमीश्वरम् ॥
नैवेद्याशन माहात्म्यमजानन्परमाद्भुतम्
॥९१॥अष्टादश चतुर्दश ब्रह्मांडं यत्पदांबुजम् ॥
धर्मद्रवेण प्रक्षाल्य अपुनात्स्वं तदंबुना
॥९२॥यमर्चयंति शक्राद्या दिव्यभोगैरनुत्तमैः ॥
स मानुष्यकृतं भुंक्ते क्षेत्रेस्मिन्महदद्भुतम्
॥९३॥इत्याश्चर्यपरस्तेन स्वप्नलब्धेन वै द्विजाः ॥
नैवेद्येन कुटुम्बं स्वं मार्जयामास सादरम्
॥९४॥ततः सर्वे नीरुजास्ते सुवाक्याहृष्टमानसाः ॥
पुनर्जन्म मन्यमानाः शशंसुः क्षेत्रमुत्तमम्
॥९५॥नास्त्यस्य सदृशं क्षेत्रं सप्तद्वीपावनीतले ॥
यत्र स्वोच्छिष्टदानेन पापान्मोचयते नरान्
॥९६॥पुरुषोत्तममाहात्म्यं क्षेत्रं परमदुर्लभम् ॥
यतः स्वर्गश्च भोगश्च मुक्तिश्चैव करे स्थिता
॥९७॥आर्तानां भवकांतारे भाग्यादत्र समीयुषाम् ॥
नानाभोगोपतृप्तानां मुक्तिमार्गः सुखं भवेत्
॥९८॥इत्थं ते हर्षमापन्नाः प्रलपंतः परस्परम् ॥
यथेष्टं भोजयामासुरन्योन्यं च निवेदितम्
॥९९॥ततस्ते निर्मला विप्रास्तरुणादित्यवर्चसः ॥
देवा इव बभुः सर्वे निष्पापा निर्गतज्वराः
॥१००॥नैवेद्याशनमाहात्म्यं कथितं वो द्विजोत्तमाः ॥
श्रुत्वापि महतः पापान्मुच्यते पापकृत्तमः
॥१॥निर्माल्यग्रहणस्यास्य फलं वक्तुं न शक्नुमः ॥
साक्षाद्ब्रह्मस्वरूपेण ध्रियते वपुषा हि तत्
॥२॥पुष्पचंदनमाल्यादि यदंगैरुपधार्यते ॥
अपनीतं यथाकाले निर्माल्यं तत्प्रकीर्तितम्
॥३॥धारणं शिरसा तस्य तेनांगे चापि मार्जनम् ॥
सार्द्धानां कोटितीर्थानामभिषेकफलप्रदम् ॥
भक्षणं गुरुतल्पादि पातकौघविनाशनम्
॥४॥लेप्या मूर्त्तिरियं विष्णोरन्येभ्यो लेप उत्तमः ॥
श्रीखंडागुरुकर्पूरकस्तूरीकुंकुमादिभिः
॥५॥प्रपिष्टलेपस्नेहेन चंदनागुरुदारुणा ॥
शरीरे वासुदेवस्य इंद्रद्युम्नेन कारितः
॥६॥प्रत्यहं भो द्विजश्रेष्ठा वर्षांते चापनीयते ॥
लेप्यानां लेपनिर्मोके दर्शनं न प्रशस्यते
॥७॥अंतरा चेत्पतेल्लेपः पिष्टं लिंपेत्पुनश्च तम् ॥
नान्यलेपः प्रशस्यो हि स विष्णोरंगसंमतः
॥८॥चंदनार्द्रशरीरं च दृष्ट्वा विष्णुं पुरा किल ॥
सौगंध्याल्लोभयामास नृपपुत्रः स मूढधीः
॥९॥तस्य प्रीत्यै नियुक्तस्तु आकृष्यांगात्प्रलेपनम् ॥
ददौ नृपकुमाराय स लिलिंपे हृदि स्वके
॥११०॥तावत्प्रदेशं कुष्ठं वै श्वेतं तस्याभवत्क्षणात् ॥
स आसीत्कुष्ठपाणिस्तु तस्मै यो दत्तवान्किल
॥११॥ततो वर्षावधिष्ठायी लेपः पुण्यतमः स्मृतः ॥
निर्माल्यानां प्रधानं तद्घ्राणादंहोविनाशनम्
॥१२॥पुरा दमनकं दैत्यं समुद्रोदकचारिणम् ॥
बाधितारं जनानां वै मायाबलपराक्रमम्
॥१३॥भगवानपि मायावी पितामहनिदेशतः ॥
मत्स्यावतारेण विभुः प्रविश्य वरुणालयम्
॥१४॥अन्विष्याकृष्य वेलायां निष्पिपेष महीतले ॥
मधोः शुक्लचतुर्दश्यां पतितो दानवोत्तमः
॥१५॥भगवत्करसंपर्कात्सुगंधिरभवत्तृणम् ॥
तस्यैव नाम्ना त सम्यग्जग्राहाश्चर्यमानसः
॥१६॥मालां कृत्वा हृत्प्रदेश मिलितं वनमालया ॥
अचिंतयत्तस्य गंधं यावद्वस्तु चिरस्थितम्
॥१७॥तस्यापि गंधः सर्वेषां पुष्पाणां सौरभापहः ॥
वर्णस्तु भगवन्मूर्तेस्तुल्योऽभूत्स सुशोभनः
॥१८॥तस्य माला भगवतः परमप्रीतिकारिणी ॥
शुष्का पर्युषिता वापि न दुष्टा भवति क्वचित्
॥१९॥तस्य सुग्रथितां मालां दत्त्वा दमनकारये ॥
उत्पादयेन्महाप्रीतिं विष्णोर्या मुक्तिदायिनी
॥१२०॥अंगापकर्षितां मालां भक्त्या यो धारयेन्नरः ॥
हयमेधसहस्रस्य फलं प्राप्नोत्यसंशयम्
॥२१॥तुलसीकल्पितां मालां विष्णोरंगापकर्षिताम् ॥
धारयेन्मूर्ध्नि कंठे च भक्तो यो विन्यसेद्धदि ॥
तावत्संख्यं वाजिमेधफलमव्यग्रमश्नुते
॥२२॥निर्माल्यतुलसीपत्रं यावद्भक्षयते हरेः ॥
तावज्जन्मसहस्रं तु विष्णुलोके महीयते
॥२३॥हरेर्नैवेद्यमन्नं च तुलसीदलमिश्रितम् ॥
प्रतिग्रासं सोमपानं फलं तत्सममश्नुते
॥२४॥यावज्जीवं तु भुंजानो ध्रुवं मोक्षमवाप्नुयात्
॥२५॥अर्घ्यशेषादिकं विष्णोस्तथा चाचमनोदकम् ॥
पादोदकं स्नानवारि प्रत्येकं पापनाशनम्
॥२६॥सर्वतीर्थाभिषेकाणां फलदं ग्रहनाशनम् ॥
अलक्ष्मीपापरक्षोघ्नं भूतवेतालनाशनम्
॥२७॥शवाद्यमेध्यसंस्पर्शदोषनाशनमुत्तमम् ॥
सर्वदीक्षाव्रतफलप्रदमैश्वर्यवर्द्धनम्
॥२८॥अकालमृत्युहरणं व्याधिव्यूहनिबर्हणम् ॥
सुरोपमांसभक्ष्यादि पापसंघविनाशनम्
॥२९॥एतैराप्लुतदेहस्तु शृणुयाद्यदि सूतकम् ॥
नाशौचं विद्यते तस्य सर्वकर्माधिकारिणः
॥१३०॥यावज्जीवं प्रतिज्ञाय यस्त्वेतान्येकमेव वा ॥
गृह्णीयाद्भूरि वा स्वल्पं मुच्येद्विष्णोः प्रसादतः
॥३१॥एवं तत्र वसन्देवो लोकानुग्रहकांक्षया ॥
रममाणः श्रिया सार्द्धमनायासविमोचकः
॥३२॥निर्माल्यपादांबुनि वेदनीयदानैस्तदालोकनतत्प्रणामैः ॥
पूजोपहारैश्च विमुक्तिदाता क्षेत्रोत्तमेस्मिन्पुरुषोत्तमाख्ये
॥१३३॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये जैमिनिऋषिसंवादे दमनकचरितंनामाष्टत्रिंशोऽध्यायः ॥ ३८ ॥