मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — पुरुषोत्तमजगन्नाथमाहात्म्यम्, अध्याय ३

3
वैष्णवखण्डः · पुरुषोत्तमजगन्नाथमाहात्म्यम् · 3

साधु ते बुद्धिरुत्पन्ना विष्णोः संनिधिमाश्रिता

श्रीरुवाच

साधु ते बुद्धिरुत्पन्ना विष्णोः संनिधिमाश्रिता ॥

अद्भुतं कथयाम्येतत्क्षेत्रस्य रविनंदन

॥१॥

यथाहं भगवद्वक्षः स्थलस्था ददृशे पुरा ॥

चराचरे जगत्यस्मिन्प्रलीने प्रलये यम

॥२॥

एतत्क्षेत्रमहं चैव द्वे एवोपस्थिते तदा ॥

स तदा सप्तकल्पायुर्मृकंडोरात्मजो मुनिः

॥३॥

प्रणष्टे स्थावरचरे निमग्नः प्रलयार्णवे ॥

नावस्थानमवाप्यैव शर्म लेभे न कुत्रचित्

॥४॥

जलार्णवे भ्राम्यमाणः प्रलये स इतस्ततः ॥

पुरुषोत्तमसादृश्ये क्षेत्रे स वटमैक्षत

॥५॥

उत्प्लुत्योत्प्लुत्य मूलं तु न्यग्रोधस्य समीपतः ॥

शुश्राव बाल वचनं मार्कण्डेय ममांतिकम्

॥६॥

प्रविश्य दुःखमतुलं जहीहि खलु मा शुचः ॥

तच्छ्रुत्वा चित्रवचनमप्रतर्क्यं तदा मुनिः

॥७॥

विस्मयं परमं लेभे स्वदुःखं नाप्यचिन्तयत् ॥

वारिभिः शीर्यते नैतद्दह्यते कालवह्निना

॥८॥

संवर्तकादिभिर्नैतच्छोष्यते नापि चाल्यते ॥

एकार्णवे महाघोरे नौरिव क्षेत्रमीक्ष्यते

॥९॥

तत्रायं यूपसदृशो न्यग्रोधस्तिष्ठते महान् ॥

यं गृहीत्वा क्षेत्रमिदं न्यग्रोध ईशितुस्तनुः

॥१०॥

महाप्रलय वातेन शाखा नास्य हि कम्पते ॥

तस्याधस्तात्स हि मुनिः स्थित्वा चैतदचिंतयत्

॥११॥

एकार्णवेऽस्मिन्प्रलये नष्टे स्थावरजंगमे ॥

भूप्रदेशः स्थिरतरः कथमेष विभाव्यते

॥१२॥

यत्रायं शाखिप्रवरः कोमलः परिदृश्यते ॥

मार्कंडेयागच्छ मुहुरिति सप्रश्रयं वचः

॥१३॥

कुतो निराश्रमियदं चिन्तयन्निति स प्लवन् ॥

शंखचक्रगदापाणिं नारायणमलोकयत्

॥१४॥

तदंगपद्मासनगां मां च वैवस्वतैक्षत ॥

विवशो जलवाताभ्यां तदा सुस्थो व्यवस्थितः

॥१५॥

हृष्टांतरात्मा स मुनिरावां साष्टांगमानतः ॥

प्रसादनाय देवस्य स्तोत्रमेतदुदाहरत्

॥१६॥

मार्कंडेय उवाच

त्वत्पादपद्मानुसरानुषंगं रुद्रेंद्रपद्मासनसम्पदाढ्यम् ॥

त्वद्भक्तिहीनं परितः प्रतप्तं दीनं परित्राहि कृपांबुधे माम्

॥१७॥

ब्रह्मादिभिर्यत्परिचर्यमाणं पदाम्बुजद्वन्द्वमचिंत्यशक्ति ॥

श्वः श्रेयसप्राप्तिनिदानतत्त्वं दीनं परित्राहि कृपाम्बुधे माम्

॥१८॥

यदंगभूतं जगदण्डमेतदनेककोटि प्रगुणं विभाति ॥

लीलाविलासस्थितिसृष्टिलीनं तन्मां सुदीनं परिरक्ष विष्णो

॥१९॥

एकं सुवर्णं कटकादिभेदैर्नाना यथा वा नभसोदितोऽर्कः ॥

आधारवैषम्यजलेषु तादृग्विभाव्यसे निर्गुण एक एव

॥२०॥

अशेषसंपूर्णरुचिप्रहीणोपादानसंकल्पविवर्जितोऽपि ॥

दीनानुकंपानुगुणं बिभर्षि युगे युगे देहमपारशक्ते

॥२१॥

त्वत्पादपद्मं जगदीश पूर्वमसेव्यतानात्मधिया मया यत् ॥

तत्कर्मणा दारुणपाकभाजं दीनं परित्राहि कृपांबुधे माम्

॥२२॥

अशेषलोकस्थितिसृष्टिलीनविलासि यत्ते त्रिगुणं विभाति ॥

वपुर्महात्मन्महदादिहेतुर्हेतोर्नमस्ते प्रकृतेः परस्य

॥२३॥

सर्वत्र गत्वा बृहदप्रमेयं प्रवर्द्धमानं त्वयि बृंहितं च ॥

तद्बह्मरूपं परिणामहेतुं स्वाध्यात्मविश्वात्मकमाश्रयामि

॥२४॥

एकार्णवे महाघोरे नावस्थातुं प्रदेशभूः ॥

अस्ति लक्ष्मीपते मेघवारिवातप्रकंपनात्

॥२५॥

त्राहि विष्णो जगन्नाथ मग्नं संसारसागरे ॥

मामुद्धरास्माद्गोविंद कृपापांगविलोकनात

॥२६॥

श्रीरुवाच

स्तुवंतमेवं ब्रह्मर्षि साक्षान्नारायणो विभुः ॥

विलोक्यानुग्रहदृशा वाक्यं चेदमुवाच ह

॥२७॥

श्रीभगवानुवाच

मार्कंडेय सुदीनोऽसि मामज्ञाय द्विजोत्तम ॥

दुश्चरं तु तपस्तप्तं दीर्घायुस्तेन केवलम्

॥२८॥

शयानं पत्रपुटके पश्य कल्पवटोर्ध्वगम ॥

बालस्वरूपं सर्वेषां कालात्मानं महामुने ॥

प्रविश्य विस्तृतं वक्त्रं तत्रावस्थातुमर्हसि

॥२९॥

श्रीरुवाच

एवमुक्तो भगवता स मुनिर्विस्मिताननः

॥३०॥

आरुह्य ददृशे बालरूपं तस्याविशन्मुखे ॥

प्रविष्टः कंठमार्गेण महायामं महोदरम्

॥३१॥

तत्रासौ ददृशे विप्रो भुवनानि चतुर्दश ॥

ब्रह्मादिदिक्पालसुरान्सिद्धगंधर्वराक्षसान्

॥३२॥

ऋषीन्दिव्यऋषींश्चैव भूतलं सागरांकितम् ॥

नानातीर्थैर्नदीभिश्च पर्वतैः काननैस्तथा

॥३३॥

लक्षितं पत्तनपुरं ग्रामखर्वटकैर्युतम् ॥

पातालानि तथा सप्त नागकन्याः सहस्रशः

॥३४॥

महार्घ्यमणिसौधैश्च सुधापात्रैः समुज्ज्वलैः ॥

अनर्घ्यमणिभिर्नागैः सेवितं परमाद्भुतम्

॥३५॥

जगतां धारिणं शेषं सहस्रफणमंडितम् ॥

व्याकर्तारमशेषाणां शास्त्राणां शिष्यमध्यगम्

॥३६॥

ब्रह्मांडोदरगं वस्तु यत्किंचित्परमेष्ठिना ॥

सृष्टं सर्वं ददृशेऽसौ तत्कुक्षौ स महामुनिः

॥३७॥

नापश्यदंतं कुक्षेस्तु भ्रममाण इतस्ततः ॥

ततो विनिष्क्रम्य पुनर्ददृशे च मया सह

॥३८॥

पूर्वमालक्षितं यद्वदास्थितं पुरुषोत्तमम् ॥

विस्मयोत्फुल्लनयनः प्रणिपत्येदमब्रवीत्

॥३९॥

मार्कंडेय उवाच

भगवन्देवदेवेश किमद्भुतमिदं प्रभो ॥

महाप्रलयसंरोधे सृष्टिरत्र विभाव्यते

॥४०॥

त्वन्माया दुरवच्छेद्या कथं वै ज्ञायते मया

॥४१॥

श्रीभगवानुवाच

मुने क्षेत्रमिदं चित्रं शाश्वतं मे विभावय ॥

न सृष्टिप्रलयावत्र विद्येते न च संसृतिः

॥४२॥

सदैकरूपं पुरुषोत्तमाख्यं मुक्तिप्रदं मामिह संप्रबुध्य ॥

अत्र प्रविष्टो न पुनः प्रयाति गर्भस्थितिं सांद्रसुखस्वरूपः

॥४३॥

इत्याज्ञप्तो भगवता मार्कंडेयो महामुनिः ॥

अत्र वासं करिष्यामीत्यन्यतीर्थपराङ्मुखः ॥

प्रहृष्टवदनः प्राह प्रणिपत्य जगद्गुरुम्

॥४४॥

मार्कण्डेय उवाच

उवाच स तथा विष्णुं भक्तिश्रद्धासमन्वितः ॥

अनुगृह्णीष्व भगवन्क्षेत्रेस्मिन्पुरुषोत्तमे ॥

यथा स्थितो मृत्युवशं न व्रजे पुरुषोत्तम

॥४५॥

श्रीभगवानुवाच

अत्र स्थितिं मे विप्रर्षे क्षेत्रे मोक्षप्रसाधके

॥४६॥

करिष्यामि न संदेहो यावदाभूतसंप्लवम् ॥

प्रलयावसाने तीर्थं ते रचयिष्यामि शाश्वतम्

॥४७॥

यत्तीरे तप आस्थाय मद्द्वितीयतनुं शिवम् ॥

आराध्य मदनुक्रोशान्मृत्युं जेष्यसि निश्चितम्

॥४८॥

जैमिनिरुवाच

एवं पुरा दत्तवरो मार्कंडेयो महामुनिः ॥

न्यग्रोधवायव्यकोणे खातं चक्रेण वै हरेः

॥४९॥

पावनं गर्तमास्थाय पूजयित्वा महेश्वरम् ॥

महता तपसा विप्रो जितवान्मृत्युमंजसा

॥५०॥

मुनेस्तस्यैव नाम्नायं प्रख्यातो गर्त उत्तमः ॥

यत्र स्नात्वा शिवं दृष्ट्वा वाजिमेधफलं लभेत्

॥५१॥

श्रीरुवाच

पञ्चक्रोशमिदं क्षेत्रं समुद्रांतर्व्यवस्थितम् ॥

द्विक्रोशं तीर्थराजस्य तटभूमौ सुनिर्मलम्

॥५२॥

सुवर्णवालुकाकीर्णं नीलपर्वतशोभितम् ॥

योऽसौ विश्वेश्वरो देवः साक्षान्नारायणात्मकः

॥५३॥

संयम्य विषयग्रामं समुद्रतटमास्थितः ॥

उपासितुं जगन्नाथं चतुःषष्टितमः प्रभुः

॥५४॥

यमेश्वर इति ख्यातो यमसंयमनाशनः ॥

यं दृष्ट्वा पूजयित्वा तु कोटिलिंगफलं लभेत्

॥५५॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये जैमिनिऋषिसंवादे तृतीयोऽध्यायः ॥ ३ ॥