मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — पुरुषोत्तमजगन्नाथमाहात्म्यम्, अध्याय ४०

3
वैष्णवखण्डः · पुरुषोत्तमजगन्नाथमाहात्म्यम् · 40

प्रावरणोत्सववर्णनम्

जैमिनिरुवाच

मार्गशीर्षे सिते पक्षे षष्ठ्यां प्रावरणोत्सवम् ॥

कृत्वा दृष्ट्वा नरो भक्त्या वैष्णवं लोकमाप्नुयात्

॥१॥

विधानं तस्य वक्ष्यामि शृणुध्वं मुनयोऽधुना ॥

वासोधिवासं कुर्वीत पंचम्यां निशि कर्मवित्

॥२॥

देवाग्रे मंडपे कुर्यात्पद्ममष्टदलान्वितम् ॥

दिक्पालान्पूजयेद्दिक्षु क्षेत्रपालं गणाधिपम्

॥३॥

चंडप्रचंडौ च बहिश्चतुर्दिक्षु प्रपूजयेत् ॥

मध्ये पात्रं समाधाय प्रोक्षयेद्वस्त्रवारिणा

॥४॥

द्युतानस्त्वेति मंत्रेणच्छादयेद्दिव्यवाससा ॥

सुधूपितं वस्त्रजातमेकविंशतिसंख्यकम्

॥५॥

तन्मध्ये स्थापयेन्मंत्रं वैष्णवं च समुच्चरन् ॥

अन्येन वाससा तद्धि समाच्छाद्य प्रयत्नतः

॥६॥

स्पृष्ट्वा जपेन्मंत्रमिमं संस्मरन्पुरुषोत्तमम् ॥

आच्छादको यो जगतां तेजसा विष्णुरव्ययः

॥७॥

वसनात्तस्य वस्त्र त्वं वस वासे जगत्पतेः ॥

इन्द्रघोषस्त्वेति रक्षां विदध्यात्तस्य सर्वतः

॥८॥

पूजयेद्गंधपुष्पाभ्यां ततो देवं प्रपूजयेत् ॥

सर्वलेपं प्रकुर्वीत नृत्यगीतैर्नयेन्निशाम्

॥९॥

ततोऽरुणोदये काले प्रातःसंध्यासमीपतः ॥

पुनः प्रपूजयेद्देवं पूर्ववत्सुसमाहितः

॥१०॥

ततस्तं पूजितं वस्त्रसमूहं बहिरानयेत् ॥

कार्पासपट्टक्षौमाढ्यं तथैवाच्छादितं द्विजाः

॥११॥

छत्रध्वजपताकाभिश्चामरांदोलनैस्तथा ॥

गीतवादित्रनृत्यैश्च प्रसूनोत्किरणेन च

॥१२॥

प्रासादं त्रिः परिभ्रम्य देवं त्रिर्भ्रामयेत्ततः ॥

आच्छादितं तदाकृष्य संस्कुयार्द्वीक्षणादिभिः

॥१३॥

सप्तभिः सप्तभिर्देवान्वासोभिः परिवेष्टयेत् ॥

मुखवर्जं तु सर्वांगं शीतप्रावरणैर्द्विजाः

॥१४॥

तांबूलं च निवेद्याथ कर्पूरलतिकां तथा ॥

दूर्वाक्षतैः प्रपूज्याथ कुर्यान्नीराजनं विभोः

॥१५॥

हिमागमे नृसिंहं ये प्रावृण्वंति सुचेलकैः ॥

पश्यंति प्रावृतिं ये वा न तेषां मोहसंवृतिः

॥१६॥

ते द्वंद्ववातशीतोत्थभयं नाप्नुवते क्वचित् ॥

विष्णोर्देवाधिदेवस्य इमं प्रावरणोत्सवम्

॥१७॥

भक्त्या ये वै प्रपश्यंति सर्वान्कामानवाप्नुयुः ॥

भगवंतं समुद्दिश्य ब्राह्मणेभ्यः प्रदापयेत्

॥१८॥

गुरुभ्यश्चान्यदेवेभ्यो दीनानाथेभ्य एव च ॥

शीतप्रावरणं दद्यात्सत्कृत्य परया मुदा ॥

ददाति भगवान्प्रीतस्तस्मै वरमनुत्तमम्

॥१९॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये प्रावरणोत्सववर्णनंनाम चत्वारिंशोऽध्यायः ॥ ४० ॥