प्रतिष्ठिते नारसिंहे क्षेत्रे तस्मिन्नराधिपः
मुनय ऊचुः
प्रतिष्ठिते नारसिंहे क्षेत्रे तस्मिन्नराधिपः ॥
किं चकार मुने ब्रूहि परं कौतूहलं तु तत्
॥१॥जैमिनिरुवाच
इन्द्रादींस्त्रिदशान्सर्वान्न्यमन्त्रयत पूर्वतः ॥
ततः स मन्त्रयामास ऋषीन्विप्रान्सहस्रशः
॥२॥अध्येतॄंश्चतुरो वेदान्सषडंगपदक्रमैः ॥
यज्ञविद्यासु कुशलान्मीमांसापरिनिष्ठितान्
॥३॥सभाष्यकल्पसूत्रैस्तु परिनिष्ठितकर्मिणः ॥
अष्टादशसु विद्यासु कुशलान्धर्मकोविदान्
॥४॥सदाचारावदातांश्च कुलीनान्सत्यवादिनः ॥
वैष्णवांश्च विशेषेण मंत्रयामास सादरम्
॥५॥त्रैलोक्ये ये च राजानः सिद्धाः सप्तर्षयो द्विजाः ॥
सच्छूद्रा वणिजो द्वीपपतयश्च निमंत्रिताः
॥६॥क्रोशद्वयमिता विप्राः सभासीत्तस्य भूपतेः ॥
पाषाणघटिता सोच्चा सुधया सानुलेपिता
॥७॥क्वचिद्रत्नमयी भूमिः क्वचित्कांचननिर्मिता ॥
स्फाटिकी राजती चैव यथायोग्यं कृतस्थली
॥८॥स्तंभै रत्नमयैः प्रोच्चैर्दुकूलपरिवेष्टितैः ॥
चारुचंद्रातपाढ्या तु गन्धमाल्यैः सचामरैः
॥९॥मुक्तादामांतरस्थैश्च चारुवातायना शुभा ॥
कृष्णागुरुस्नेहसिक्ता श्रीखण्डसलिलोक्षिता
॥१०॥सर्वर्त्तुकुसुमाकीर्णा प्रांतोपवनसंवृता ॥
वाप्यः स्फटिकसोपानाः पद्मकद्वारमंडिताः
॥११॥चक्रवाकैः प्लवैर्हंसैः सारसैर्मधुरस्वनैः ॥
व्याप्तांतराः स्वच्छशीतसुगंधमधुरांभसः
॥१२॥परितः शतशस्तस्याः सुखावतरणा द्विजाः ॥
उपच्छायाविरचनाः शोभमानाः समंततः
॥१३॥यज्ञशाला मरुत्तस्य यथासीद्भो द्विजोत्तमाः ॥
तथेंद्रद्युम्नभूपस्य रचिता विश्वकर्मणा
॥१४॥शुभेऽह्नि शुभनक्षत्रे वासयित्वा सभासदः ॥
राज्ञः सिंहासनासीनान्दृष्ट्वासीनानृषीनपि
॥१५॥ससिद्धान्ब्रह्मर्षिगणान्बहुमूल्यकुथस्थितान् ॥
देवान्कांचनपीठस्थान्यथायोग्यमथ द्विजान्
॥१६॥वरासनस्थानन्यांश्च यथादेशं सुखस्थितान् ॥
मध्ये नृपाणां देवानामृषीणां च शचीपतिम्
॥१७॥साम्राज्यलक्षणे स्वस्य रत्नसिंहासने स्थितम् ॥
दिव्यैर्माल्यैस्तथा गंधैर्वासोभिर्विष्टरादिभिः
॥१८॥पुरोधसा समं पूर्वमर्चयामास ऋद्धिमत् ॥
विनीतो दीनवत्तस्य चक्रे पूजां तथा नृपः
॥१९॥आश्चर्यं मन्यतेऽस्यासौ त्रैलोक्येशोऽपि तद्यथा ॥
ततः सिद्धान्देवमुनीनचर्यन्निंद्रवत्तदा
॥२०॥विस्मयं जनयामास कुवेरस्याप्यधिश्रियः ॥
ततो देवान्समानर्च प्रभूतस्वस्वसंपदः
॥२१॥उपचारैर्महीनाथः सम्यगव्यग्रमानसः ॥
राज्ञः संपूजयामास राजयोग्यैः परिच्छदैः
॥२२॥यथा ते मेनिरे भूपा भवामः सांप्रतं वयम् ॥
सत्यं राज्यं क्रमात्प्राप्तं नेदृशश्च परिच्छदः
॥२३॥आनर्च वैष्णवान्भूय उपचारैः समानयन् ॥
शांता अपि यथा चित्रं मेनिरे विषयागमम्
॥२४॥ततो विप्रान्बाहुजातान्वैश्यान्मुनिपुरःसरम् ॥
सम्यक्प्रपूजयामास सत्त्वोद्रिक्तो महीपतिः
॥२५॥अन्यांश्च सचिवद्वारा पूजयित्वा ससंभ्रमः ॥
दृष्टः स विनयान्नम्रः कृतांजलिपुटस्तथा
॥२६॥महेंद्रमुच्चैराहेदं नारदेन पुरोधसा
॥२७॥इन्द्रद्युम्न उवाच
तव प्रसादाद्देवेश इच्छामीदं प्रसीद मे ॥
क्रतुना हयमेधेन प्रयक्ष्ये यज्ञपूरुषम्
॥२८॥अनुजानीहि मां देव क्रतूनामीश्वरो भवान् ॥
त्वदाज्ञापालकाः सर्वे त्रैलोक्ये निवसंति ये
॥२९॥यावत्क्रतुसहस्रस्य संस्था च भवति प्रभो ॥
तावत्त्वं त्रिदशैः सार्द्धं सदोमध्यगतो वस
॥३०॥यष्टुमिच्छामि देवेश नाहं त्वत्पदलिप्सया ॥
सर्वेषां वेत्सि देवेश मनोवृत्तिं सदा प्रभो
॥३१॥युष्माकं पूर्वदृष्टोऽत्र वपुष्मान्माधवः प्रभुः ॥
उपासनायां सोऽयं यो वालुकाभिस्तिरोदधे
॥३२॥तस्य भूयः प्रकाशार्थं वाजिमेधसहस्रकम् ॥
करिष्ये वचनादिंद्र चतुरास्यस्य शासनात् ॥
पुनः प्रकाशिते तस्मिञ्छ्रेयो वोऽपि भविष्यति
॥३३॥इति विज्ञापिते राज्ञा महेंद्रप्रमुखाः सुराः ॥
अन्तर्द्धानोतरं या च श्रुता पूर्वं सरस्वती
॥३४॥अशरीरां स्मरंतस्तामिदं प्रोचुः प्रहर्षिताः ॥
इन्द्रद्युम्न महात्मासि सत्यं सत्यवतो भुवि
॥३५॥तच्चेष्टितं पुरास्माभिरन्वभावि भविष्यकम् ॥
सहायास्ते भविष्यामः कार्ये त्रैलोक्यपावने
॥३६॥स्रष्टा स जगतां यत्र उद्युक्तः स्वयमेव हि ॥
अत्रैवोवाच भगवानस्माकमपि भूतले
॥३७॥प्रविशंस्तदनुक्रोशवशाद्भूयः प्रकाशनम् ॥
करिष्ये दारवं देहमित्येतत्परिनिष्ठितम्
॥३८॥नात्रास्माकं व्यलीकं तु नेंद्रस्य च महीपते ॥
अस्मद्दिष्टसमुद्योगस्तव नः प्रीतिकारकः
॥३९॥सुखं यजस्व राजेंद्र वैकुंठं भक्तवत्सलम् ॥
क्रतुना हयमेधेन सहस्रपरिवर्तिना
॥४०॥दुराराध्यो हि भगवानस्माकं भक्तवत्सलः ॥
वयमप्यत्र देवत्वं त्यक्त्वा भक्ति परायणाः
॥४१॥आराधयामः क्षेत्रेस्मिन्विनीता नररूपिणः ॥
प्रियं हि मानुषे लोके कर्म सिद्ध्यति वै कृतम्
॥४२॥जैमिनिरुवाच
इत्युक्ते त्रिदशैः सेंद्रैः परितुष्टांतरात्मना ॥
आरंभार्थं क्रतो राजा भगवंतमपूजयत्
॥४३॥उपचारसहस्रैस्तु यथावत्प्रतिपादितैः ॥
ततः पितृगणान्राजा निरूप्य श्रद्धयान्वितः
॥४४॥सदोगृहगतान्विप्रान्याज्ञिकान्समलंकृतान् ॥
कृत्वेष्टदेवं पुरतो वैकुंठं साग्निहोत्रकम्
॥४५॥आकांक्षन्कल्पितं लग्नं संवृत्ते स्वस्तिवाचने ॥
उपस्थितः सपत्नीकः शुद्धमांगल्यवेषधृक्
॥४६॥स्वस्ति वाच्य द्विजाञ्छुद्धान्पुण्याहं वृद्धिकर्म च ॥
ततः संभृतसंभारो वरयामास ऋत्विजः
॥४७॥वृतास्ते तु सपत्नीकं दीक्षयंतो नृपोत्तमम् ॥
विहृत्य दीक्षणायेष्टान्न्ययजन्सभ्यचोदिताः
॥४८॥प्रणीय तं प्रज्वलंतं वेद्यामाहवनीयकम् ॥
त्रैलोक्यमंगलकरं किं साक्षाद्वैष्णवं महः
॥४९॥सुप्रोक्षितं चाभिमंत्र्य अनुज्ञाप्य दिगीश्वरान् ॥
मुमुचुस्ते हयं मुख्यमंगेषु शुभलक्षणम्
॥५०॥ततः स दीक्षितो राजा वाग्यतो रौरवीं त्वचम् ॥
अधिष्ठाय सदोमध्ये मृत्युंजय इव स्थितः
॥५१॥निमंत्रितानां मुक्त्यर्थं चक्षुषा संदिदेश वै ॥
सुराणां रत्नपात्राणि महार्घाणि नृपाज्ञया
॥५२॥सचिवः कारयामास भोजनाय समृद्धिमत् ॥
शुद्धसौवर्णपात्राणि मुनीनां च महीक्षिताम्
॥५३॥द्विजानां भोजनार्थाय नवानि प्रत्यहं द्विजाः ॥
क्षत्रियाणां विशां विप्रा राजतानि शुभानि च
॥५४॥कांस्यनिर्मलपात्राणि शूद्राणां भोजनाय वै ॥
अहन्यहनि पात्राणि भोजनांते द्विजोत्तमाः
॥५५॥आकरेषु प्रपात्यंते प्रोच्छिष्टदलवज्जनैः ॥
तत्र यज्ञोत्सवे ये वै भोजनाय निमंत्रिताः
॥५६॥तेषां पुत्राश्च पौत्राश्च प्रपौत्राश्चैव संततिः ॥
नित्यं पंचरसान्नानि बहुमानपुरःसरम्
॥५७॥आदृतैर्भोजिता राज्ञ इंद्रद्युम्नस्य शासनात् ॥
कुटुंबवत्स्थितास्तत्र संस्था यावन्महाक्रतोः
॥५८॥यद्देशीया जनास्तेषामधिष्ठाता च तान्नृपः ॥
नृपाणामनुसंधाता इंद्रद्युम्नप्रयाचितः
॥५९॥नारदः समदर्शी तु परोपकृतिलोलुपः ॥
इंद्रादीनां सुरेंद्राणां देवर्षीणां नृपोत्तमः
॥६०॥स्वयं नरपतिश्चर्यां चकार क्रतुपूर्त्तये ॥
षड्विधान्यन्नपानानि संस्कृतानि द्विधा नरैः
॥६१॥देवानां भोजने तत्र मंत्रतंत्रविशारदैः ॥
मर्त्यानां नल विद्यायां कुशलैः संस्कृतानि वै
॥६२॥क्षुत्पिपासानभिज्ञा हि सुधाहारा दिवौकसः ॥
तेषामपि अपूर्वत्वादाश्चर्यं तद्धि भोजनम्
॥६३॥नराणां दुर्लभं मर्त्य इंद्रद्युम्नगृहेऽशनम् ॥
इन्द्रद्युम्नस्य चेंद्रस्य विशेषो मर्त्यवासिता
॥६४॥अत्यद्भुतकरं ह्येतत्प्रत्यहं च नवं नवम् ॥
संमाननादरावृद्धिर्भोज्यस्य द्विजसत्तमाः
॥६५॥अन्योन्यस्पर्द्धयैवात्र प्रवर्द्धते परस्परम् ॥
सुगंधसुमनोमाल्यकस्तूर्यादिप्रलेपनम्
॥६६॥चित्रसूक्ष्मदुकूलानि सोपधानासनानि च ॥
रत्नपल्यंकिका शय्या रत्नदंडप्रकीर्णकम्
॥६७॥जातीलवंगकर्पूरैर्नागवल्लीदलानि च ॥
मनोहराणि गीतानि नृत्यानि विविधानि च
॥६८॥भरतस्य मुनेः शिक्षापंडितै रचितानि च ॥
स्वस्ववंशयशोऽभिज्ञाः शतशः सूतमागधाः
॥६९॥एतान्यन्यानि वस्तूनि दुर्लभान्यपि यानि वै ॥
त्रिदशाश्चापि मर्त्याश्चान्वभुज्यंत सुसादरम्
॥७०॥एकतोऽन्यत्र चित्राणि न च हीनानि कुत्रचित् ॥
पातालवासिनां चापि भोजनं वै सुधाधिकम्
॥७१॥यद्भुक्त्वा नानुवाञ्छन्ति पातालगमनं हि ते ॥
पुराणि यानि पाताले रत्नौघालोकितानि च
॥७२॥विना सूर्यप्रकाशेन तादृशान्येव भूपतिः ॥
ददौ तेषां निवासाय येषु पातालबुद्धयः
॥७३॥सुखासीनाश्च क्रीडंतो भुंजाना शेरते मुदा ॥
देवानामपि नान्यत्र भूमिस्पर्शनमस्ति वै
॥७४॥इन्द्रद्युम्नपुरे तत्र स्वर्गादपि मनोहरे ॥
यदृच्छया सुखक्रीडासक्ता नो तत्यजुर्भुवम्
॥७५॥अभिलाषोपजातं तु सुखं स्वर्गे वदंति हि ॥
अनिच्छयापि भो विप्राः सुखं सर्वत्र तत्र वै
॥७६॥आदृत्य यत्नान्मन्यंते भोज्यं ते सादरं नराः ॥
न याचितः कोपि जनः कुतो वा स्यात्पराङ्मुखः
॥७७॥राजाधिराजवेश्मानि जनानां स्वगृहैः समम् ॥
तदासीत्स्वगृहे तेषां न सदा सर्वसंभवः
॥७८॥तत्र यत्कामनातीतं तद्वस्तु सुलभं बहु ॥
इत्थं प्रवर्तिते यज्ञे यज्ञेशप्रीतये मुदा
॥७९॥पृथिवी हृतसर्वस्वा वाजिमेधेस्य भूपतेः ॥
या पूर्वं साभवद्भूयः स्वर्णवृष्टिसुभूषिता
॥८०॥इत्थं प्रवृत्ते लोकानां तत्र त्रैलोक्यवासिनाम् ॥
दानसंमानभोज्यानां विधौ विधिवतोऽन्वहम्
॥८१॥अश्वमेधं प्रति जना जगुर्गाथाः परस्परम् ॥
नेदृग्यागस्य संभारो विधेः शास्त्रप्रचोदितः
॥८२॥इंद्रद्युम्नस्य राजर्षेर्न भूतो न भविष्यति ॥
न याचितारोऽदातारो मिथो यत्र निमंत्रिताः
॥८३॥न कामभंगो यत्रासीद्देवानामपि भो द्विजाः ॥
ईदृक्समृद्धिः क्रतुराट् प्रवृत्तो भूपतेस्तदा
॥८४॥अधिश्रद्धः सुसंपन्नः पूर्वस्मादपरोऽभवत् ॥
स्मृतिकाराः कल्पकारास्तथा शास्त्रप्रणेतृकाः
॥८५॥यज्ञानुष्ठानकुशलाः सदाचारावतंसकाः ॥
अग्न्याधानाद्यवभृथप्रचारमनुपूर्वशः
॥८६॥क्रतुः सदस्यानुमते नृपतेः प्रीतये द्विजाः ॥
न मंत्राः स्वरतो हीना वर्णतो वापि कर्हिचित्
॥८७॥ये वै विधिविधातारस्ते वै कर्मप्रचारकाः ॥
प्रायश्चित्तनिमित्तेन प्रायश्चित्तनिबंधनात्
॥८८॥कर्मोपघातो नो तत्र योगिनः कर्मयोगिनः ॥
यत्र सप्तर्षयो दिव्याः सदस्याः क्रतुसाक्षिणः
॥६९॥प्रचारयंति कर्माणि गुणदोषविभागिनः ॥
याज्ञवल्क्यादयस्तेऽत्र मुनयस्त्वृत्विजो वृताः
॥९०॥सदोगतास्ते मुनयः परस्परकथांतरे ॥
वाकोवाक्यानि सूक्तानि गुह्योपनिषदानि च
॥९१॥गाथाः पौराणिकीर्विप्रा विष्णुभक्तिपुरःसराः ॥
चरितानि हरेः सर्वकल्मषौघहराणि च
॥९२॥तत्र संवर्तयामासुस्ते सभायां महीक्षितः ॥
तस्य यज्ञे हविः प्राशुः प्रत्यक्षं वह्निमध्यगाः
॥९३॥मुदितास्त्रिदशा विप्रा महेंद्रप्रमुखामखे ॥
चिरप्रवासिनो देवा नास्मरंतामरावतीम्
॥९४॥अमृतं हि हविस्तेषां कल्पितं ब्रह्मणा पुरा ॥
तत्प्राश्य मुदिता देवा वीर्यवन्तश्चिरायुषः
॥९५॥यागानुष्ठानविषयादन्यत्र विषयान्बहून् ॥
इन्द्रद्युम्नेन रचितान्समस्तानुपभुंजते
॥९६॥तत्र ये नागराजानः पातालतलवासिनः ॥
ततोऽधिकान्मर्त्यलोके विषयानुपभुंजते
॥९७॥पातालगमनं ते वै नेहंते मनसा धुवम् ॥
इत्थं प्रवर्तितो यज्ञस्त्रैलोक्यप्रीतिकारकः
॥९८॥इन्द्रद्युम्नस्य नृपतेः क्षेत्रेऽस्मिन्पुरुषोत्तमे ॥
जगदीशप्रसादाय पितामहनिदेशतः
॥९९॥एकोनं क्रमतः संस्थामवाप पृथिवीपतिः ॥
सहस्रं हयमेधस्य यथावद्विधिचोदितम्
॥१००॥ततः साहस्रिके यज्ञे वाजिमेधे महीपतिः ॥
दिनेदिने दिव्यगतिर्बभूव नृपतिस्तदा
॥१॥सुत्यायाः सप्त दिवसाद्या रात्रिरभवत्पुरा ॥
तस्यास्तुरीयप्रहरे दध्यौ स विष्णुमव्ययम्
॥२॥ध्याने तस्मिन्ददर्शासौ महाभाग्यवशान्नृपः ॥
प्रत्यक्षमिव स श्वेतद्वीपं स्फटिकनिर्मितम्
॥३॥समंतात्परिवार्यैनं तिष्ठंतं क्षीरसागरम् ॥
महाकल्पद्रुमैः पुष्पगंधामोदिदिगंतरैः
॥४॥फलपल्लववल्केषु बहिरंतश्च सर्वशः ॥
शंखचक्रांकितैः शुभ्रैः सर्वालंकारभूषितः
॥५॥महामंजिष्ठवर्णैश्च मूर्तिभिस्तैर्मुरद्विषः ॥
तन्मध्ये घटितं दिव्यमणिभिर्मंडपोत्तमम्
॥६॥मध्यस्थसूर्यवद्भासिरत्नसिंहासनोज्ज्वलम् ॥
क्षीराब्धिशीतकल्लोलमंदवातमनोहरम्
॥७॥तन्मध्ये ददृशे देवं शंखचक्रगदाधरम् ॥
नीलजीमूतसंकाशं वनमालाविभूषितम्
॥८॥सर्वलावण्यभवनं सौंदर्यश्रीनिकेतनम् ॥
निर्भर्त्सयंतं वपुषा पिनद्धं दिव्यभूषणम्
॥९॥दक्षपार्श्वे स्थितं तत्र अनंतं धरणीधरम् ॥
कोटिचन्द्रप्रतीकाशं हिमाद्रिसदृशप्रभम्
॥११०॥फणामुकुटविस्तारच्छत्रीभूतं मनोहरम् ॥
मणिकुंडलयुग्मांकं चारुनीलनिचोलकम्
॥११॥हललांगलशंखारिस्फुरद्बाहुचतुष्टयम् ॥
हारकेयूरवलय मुद्रिकाभिरलंकृतम्
॥१२॥मेखलाकटिसूत्राढ्यं दिव्यरत्नप्रसाधनम् ॥
दिव्यहालाक्षीबमूर्तिं चारुहासं सुनेत्रकम्
॥१३॥दक्षपार्श्वस्थितां चास्य लक्ष्मीं तां शुभलक्षणाम् ॥
वराभयाब्जहस्तां वै कुंकुमाभां सुलोचनाम्
॥१४॥त्रैलोक्ययुवतीवृन्ददृष्टांताद्भुतविग्रहाम् ॥
ददर्श पद्मासनगां लावण्यांबुधिपुत्रिकाम्
॥१५॥पितामहं च ददृशे पुरतोऽस्य कृतांजलिम् ॥
वामपार्श्वस्थितं चक्रं नानामणिमयं विभोः
॥१६॥सनकाद्यैर्मुनींद्रैस्तं स्तूयमानं जगद्गुरुम् ॥
दृष्ट्वा स्वप्ने स राजा वै प्रहृष्टो द्विजसत्तमाः
॥१७॥अदृष्टपूर्वरूपं तं ज्योतिर्मयमनंतकम् ॥
तुष्टाव तत्र ध्यानस्थो हर्षगद्गदया गिरा
॥१८॥इन्द्रद्युम्न उवाच
नमस्ते जगदाधार जगदात्मन्नमोऽस्तु ते ॥
कैवल्यत्रिगुणातीत गुणांजन नमोऽस्तु ते
॥१९॥सुशुद्धनिर्मलज्ञानस्वरूपाय नमोऽस्तु ते ॥
शब्दब्रह्माभिधानाय जगद्रूपाय ते नमः
॥१२०॥संसारपतितश्रांत दुःखध्वंस नमोऽस्तु ते ॥
दुर्भेद्यहृदयग्रंथिभेदकाय नमोऽस्तु ते
॥२१॥द्विसप्तभुवनागारमूलस्तंभाय ते नमः ॥
ब्रह्मांडकोटिघटनाशिल्पिने चक्रिणे नमः
॥२२॥करुणामृतपाथोधिसुधाधाम्ने नमो नमः ॥
दीनोद्धारैकगुह्याय कृपापाथोधये नमः
॥२३॥प्रकाशकानां सूर्यादिज्योतिषां ज्योतिषे नमः ॥
प्रतिस्वस्वनदीप्ताय अन्तःपापाग्नये नमः
॥२४॥पावकाय पवित्राय पवित्राणां नमो नमः ॥
गरिष्ठाय वरिष्ठाय द्राघिष्ठाय नमो नमः
॥२५॥नेदिष्ठाय दविष्ठाय क्षोदिष्ठाय नमो नमः ॥
वरेण्याय सुपुण्याय नारायण नमोऽस्तु ते
॥२६॥परित्राहि जगन्नाथ दीनबन्धो नमोऽस्तु ते ॥
निस्तीर्णोऽहं भवांभोधिं प्राप्य त्वां तरणिं सुखाम्
॥२७॥त्वयि दृष्टे रमानाथ क्लेशा व्यपगता मम ॥
चिदानंदस्वरूपं त्वां प्राप्तानां दुःखसंक्षयः
॥२८॥ध्रुवं नाथ समुत्पन्नपरमानंदहेतुकम् ॥
त्राहि त्राहि भवांभोधिमग्नं मां दीनचेतसम्
॥२९॥मध्याह्नार्कोदिते व्योम्नि कुतः संतमसोदयः ॥
ध्यानस्थितः स्तुवन्नेवं प्रणम्य जगदीश्वरम्
॥१३०॥ध्यानावसाने स पुनः स्वयं जाग्रदबुध्यत ॥
स्वप्नांत इन्द्रद्युम्नोऽपि सस्मारात्मानमात्मना
॥३१॥अत्यद्भुतमिदं स्वप्नं दृष्ट्वा च नृपकुंजरः ॥
मेने कृतार्थमात्मानं हयमेधक्रतोस्तथा
॥३२॥सहस्रं सफलं चैव स्वभाग्यं समुपस्थितम् ॥
न हि देवर्षिवचनं वृथा भवति कर्हिचित्
॥३३॥प्रत्यक्षं मे कथं नाथः स्वयमत्र भविष्यति ॥
इति चिंताकुलो रात्रिशेषं नीत्वा विशांपतिः
॥३४॥शशंस नारदस्याग्रे यथा स्वप्नोऽन्वभूयत ॥
स चापि नारदः प्राह शोकस्ते विगतो नृप
॥३५॥अरुणोदयकाले हि भगवंतं ददर्श यत् ॥
दशाहात्फलदः स्वप्नस्तस्मिन्काले नृपोत्तम
॥३६॥क्रत्वंते भगवानत्र प्रत्यक्षस्ते भविष्यति ॥
यदाह मद्गिरा त्वां हि चराचरगुरुर्विधिः
॥३७॥सोऽपि त्वया जगत्स्रष्टा स्वप्नेऽस्मिन्नवलोकितः ॥
तदनुष्ठीयतां यज्ञः पराग्रे न प्रकाशय
॥३८॥स्वप्नोऽयं नृपशार्दूल दुर्बोधाचरितो हरेः ॥
किंतु भाग्यवतस्त्वेव स्वप्नस्तादृक्प्रजायते
॥१३९॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये जैमिनिऋषिसंवादे सप्तदशोऽध्यायः ॥ १७ ॥