मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — पुरुषोत्तमजगन्नाथमाहात्म्यम्, अध्याय ९

3
वैष्णवखण्डः · पुरुषोत्तमजगन्नाथमाहात्म्यम् · 9

प्रत्यागते ततो विप्रे सायाह्ने सुरसंकुले

जैमिनिरुवाच

प्रत्यागते ततो विप्रे सायाह्ने सुरसंकुले ॥

माधवार्चनवेलायां वातश्चंडगतिर्ववौ

॥१॥

सुवर्णवालुकाश्चासौ विचकार च सर्वशः ॥

तेनाकुलदृशो देवा न शेकुरवलोकने

॥२॥

श्रीकांतस्य तदा विप्रा दध्युस्ते पुरुषोत्तमम् ॥

यावद्ध्यानस्थिरदृशो मुहूर्तं ते दिवौकसः

॥३॥

ध्यानांते वालुकाराशिं ददृशुस्ते न माधवम् ॥

रौहिणं च तथा कुंडं बभूवुर्व्याकुलेन्द्रियाः

॥४॥

चिंतामवापुर्महतीं हाहेति रुरुदुर्भृशम् ॥

किमेतन्नो हि दुर्दैवमेकदा समुपस्थितम्

॥५॥

दृशां सेचनकः श्रीशः क्षणाद्यन्नोपलभ्यते ॥

अपराधं किमस्माकं लक्षितं पुरुषोत्तम

॥६॥

युगपत्सेवकान्सर्वानपहाय न दृश्यसे ॥

येषामर्थे जगन्नाथ स्वीचकर्थ कलेवरम्

॥७॥

ताननाथान्परित्यज्य कानने किमुपेक्षसे ॥

स्वशरीरविभूतीर्नो विहाय कमलेक्षण

॥८॥

किमकांडं रचयसि कथाशेषान्दिवौकसः ॥

तवांशभूतान्नः सर्वान्यज्वानः प्रयजंति वै

॥९॥

त्वत्प्रीत्यै यज्ञपुरुष त्वदादिष्टफलप्रदान् ॥

त्वदहंकारवर्ष्माणस्त्वदनुग्रहजीवनाः

॥१०॥

कांदिशीका कुत्र यामः सांप्रतं त्वदुपेक्षिताः ॥

दिवि स्थानैश्च किं कार्यं त्वामनालोक्य माधव

॥११॥

अकृतार्थास्त्वया हीना भविष्यामो वनेचराः ॥

निष्कलंकसुधाभानुं सुषमापरिभावुकम्

॥१२॥

त्वदास्यं चेन्न पश्यामो न यास्यामः सुरालयम् ॥

तप आस्थाय परममत्रैव संशितव्रताः

॥१३॥

वर्तामहे वन्यवृत्त्या जटावल्कलधारिणः ॥

यावत्त्वां पुंडरीकाक्ष विलोकिष्यामहे वयम्

॥१४॥

निसर्गकरुणांभोधे दीनान्नस्त्रातुमर्हसि ॥

अनाथान्दीनहदयांस्त्वामेव शरणं गतान्

॥१५॥

त्वदनालोकशोकैकपारावारे निमज्जतः ॥

शुभदृष्टितरण्या नः समुद्धर जगत्पते

॥१६॥

एवं प्रलपतां तत्र सर्वेषां त्रिदिवौकसाम् ॥

अशरीरा तदा वाणी पुनः प्रादुर्बभूव ह

॥१७॥

अत्रार्थे भोः सुरा यत्नं कर्तुमर्हथ नो वृथा ॥

अद्यप्रभृति देवस्य दर्शनं दुर्लभं भुवि

॥१८॥

अत्र स्थानेऽपि तं नत्वा तद्दर्शनफलं लभेत् ॥

स्वयंभुवोंऽतिकं गत्वा हेतुं ज्ञास्यथ निश्चितम्

॥१९॥

तच्छ्रुत्वा त्रिदशाः सर्वे ब्रह्मणोंऽतिकमागताः ॥

यमानुग्रहवृत्तांतमवतारं च दारुणः

॥२०॥

श्रुत्वा संतुष्टमनसः सर्वे ते त्रिदिवं गताः ॥

स तु विद्यापतिर्विप्रो रथारूढोऽभ्यचिंतयत्

॥२१॥

मम कार्यं तु निष्पन्नं यद्दृष्टो नीलमाधवः ॥

आसमंतात्क्षेत्रमिदं परिभ्रम्यावलोकये

॥२२॥

अदृष्टपूर्वं परमं सुपुण्यं संकीर्तनं यस्य मलापहारि ॥

क्षेत्रोत्तमं श्रीपुरुषोत्तमाख्यं प्रदक्षिणीकृत्य व्रजामि तूर्णम्

॥२३॥

पृथ्वीप्रदक्षिणफलं शतधा भजंते पर्यंति ये सकलकल्मषदार्यरण्यम् ॥

नीलाद्रिमण्डिमिदं पुरुपोत्तमाख्यं मित्रं ममोपदिशति स्म समुद्रतीरे

॥२४॥

विचिंत्येत्थं द्विजश्रेष्ठः परिबभ्राम वै तदा ॥

क्षेत्रं पश्यन्वनं चैव नानाद्रुमगणान्वितम्

॥२५॥

नानापक्षिगणाघुष्टं कूजद्भ्रमरगुंफितम् ॥

अप्रविष्टार्ककिरणं छायातरुगणावृतम्

॥२६॥

सर्वर्तुकुसुमोपेतं लतागुल्मोपशोभितम् ॥

नानाजलाशयाधारकूजत्सारससंकुलम्

॥२७॥

पद्मकह्लारकुमुदविकचोत्पलराजितम् ॥

न जलं तत्र कुसुमपरिहीनं लतादिकम्

॥२८॥

परीत्य वेगात्तत्क्षेत्रं जगामाथ द्विजोत्तमः ॥

ध्यायन्निरशनः प्राज्ञः प्राप्यावन्तीं दिनात्यये

॥२९॥

दूतैरावेदितं पूर्वं दूरस्थस्यागतं द्विजाः ॥

श्रुत्वेंद्रद्युम्नो नृपतिः प्रहर्षं परमं ययौ

॥३०॥

तदागमनमाकांक्षन्पूजयित्वा जनार्द्दनम् ॥

विद्वद्भिर्ब्राह्मणैः सार्द्धं तस्थौ संहृष्टमानसः

॥३१॥

एतस्मिन्नंतरे विप्राः स तु विद्यापतिर्द्विजः ॥

प्रावेशिकैर्वेत्रहस्तैर्दौवारिकपुरःसरैः

॥३२॥

निर्दिष्टमार्गः पौरैश्चाऽनुमतः कौतुकान्वितैः ॥

निर्माल्यमालां नीलाख्य माधवस्य सुशोभनाम्

॥३३॥

निधाय पाणौ राजाग्रे प्रविवेश त्वरान्वितः ॥

तं दृष्ट्वा नृपतिः सोऽथ समुत्थाय वरासनात् ॥

प्रसीद जगदीशेति वदन्नंतिकमभ्यगात्

॥३४॥

अद्य मे जीवितं जातं सफलं जन्मकर्मणा ॥

निर्माल्यमालावपुषं यत्पश्यामीहमाधवम्

॥३५॥

मालां मुकुन्दशिरसोऽनुपमप्रमोदलाभाधरीकृतसुरद्रुमकांतगन्धाम् ॥

अन्धीकृतालिनिचयां पवनप्रसारिगन्धप्रणाशितजगत्कलुषां नमामि

॥३६॥

यत्पादपंकजगलद्रजसोनुषंगा ब्रह्मादयः परमसंपदमापुरस्य ॥

विष्णोः कलेवरसमुज्ज्वलितांगरागसंसक्तपुष्पनिलयां प्रणतोस्मि मालाम्

॥३७॥

पद्मां हृत्पद्मवसतिं सपत्नीं या हसत्यसौ ॥

विकस्वरैः सुकुसुमैर्विष्ण्वंकस्थितिर्गर्विताम्

॥३८॥

कुत्र स्थितेयमाहार्षीन्महिमानं स्रगुज्वला ॥

या श्रीनिधेः शरीरेऽऽभूत्सर्वांगव्यापिनी चिरम्

॥३९॥

जय नीलाद्रिशिखरभूषणाघप्रद्षण ॥

प्रणतार्त्तिहर श्रीमंस्त्राहि मां शरणागतम्

॥४०॥

इति ब्रुवाणः क्षितिपो बाष्पगद्गदया गिरा ॥

जगाम शिरसा भूमिं स्फुरद्रोमांचकंचुकः

॥४१॥

सोऽपि विद्यापतिर्विप्रः क्षपिताशेषकल्मषः ॥

दिव्यदेहो नृपस्याग्रे ध्यायन्माधवमास्थितः

॥४२॥

तेजसा सर्वलोकानां पापानि क्षालयन्सुधीः ॥

अनुगृह्णातु देवस्त्वां नीलाद्रिशिखरालयः

॥४३॥

श्रीपतेरियमाज्ञा ते मालारूपा प्रकाशिता ॥

द्रष्टुं क्षेत्रोत्तमगतं स्वं साक्षान्मुक्तिदायकम्

॥४४॥

इत्युच्चरन्नरपतेरामुमोच गले स्रजम् ॥

सोऽप्युत्थाय क्षितिपतिर्मालां हृदयलंबिनीम्

॥४५॥

दृष्ट्वा मेने श्रियः कांतं साक्षाद्धृदयगामिनम् ॥

निधाय पाणी शिरसि दरमीलितलोचनः

॥४६॥

आनंदाश्रुजलक्लिन्नवदनस्तुष्टुवे हरिम्

॥४७॥

इन्द्रद्युम्न उवाच

जयाखिलजगत्सृष्टिस्थितिसंहारशिल्पकृत् ॥

लीलाविश्ववपुर्लोमसंख्यब्रह्मांडभारभृत्

॥४८॥

अंतर्यामिन्नशेषाणां प्रणतार्तिहर प्रभो ॥

ब्रह्मेंद्र रुद्रमुकुटकिर्मीरितपदांबुज

॥४९॥

दीनानाथविपन्नैकसततत्राणतत्पर ॥

निर्व्याजकरुणावारिपारावार परात्पर

॥५०॥

त्वदेकशरणं दीनमनादिभ्रमनिर्भरम् ॥

परित्राहि जगन्नाथ भक्ताविरतवत्सल

॥५१॥

इति स्तुवन्नरपतिः स्वासने समुपाविशत् ॥

गृहमेधिब्रह्मचारियतिवैखानसैर्वृतः

॥५२॥

अष्टादशसु विद्यासु कुशलैर्यज्वभिर्द्विजैः ॥

मीनैः स्थविरभृत्यैश्च सार्द्धं मंत्रिपुरःसरैः

॥५३॥

विद्यापति पूजयित्वा बहुमानपुरःसरम् ॥

उपवेश्याग्रतः पीठे पृष्ट्वा कुशलमादितः

॥५४॥

पुरुषोत्तमक्षेत्रस्य विष्णोर्नीलाश्मवर्ष्मणः ॥

महिमानं स्वरूपं च पप्रच्छावहितो मुदा

॥५५॥

ब्राह्मणः क्षत्रियेणासौ पृष्टोनुभवमात्मनः ॥

भिल्लद्वीपप्रवेशादिमज्जनांतं सरित्पतेः

॥५६॥

क्षेत्रोत्तमस्य वृत्तांतं कथयामास विस्तरात् ॥

नीलाद्रिरोहणं नीलमाधवस्य च दर्शनम्

॥५७॥

स्नानं च रौहिणे कुण्डे महिमानं वटस्य च ॥

नृसिंहाद्यष्टशंभून शक्तीनामष्टसंस्थितिम्

॥५८॥

रथेनाक्रमणाद्दृष्टौ क्षेत्रस्यायामविस्तरौ ॥

तत्सर्वं वर्णयामास यथावदनुपूर्वशः

॥५९॥

तच्छ्रुत्वा चित्रमतुलं तैर्थिकावेदितं पुरा ॥

संप्रतीतो हृष्टमनाः पुनस्तं क्षितिपोऽब्रवीत्

॥६०॥

इन्द्रद्युम्न उवाच

श्रुतपूर्वं तु भगवंस्त्वत्तोऽश्रौषं सुदुर्लभम् ॥

क्षेत्रोत्तमं द्विजश्रेष्ठ सांप्रतं वर्णयस्व मे

॥६१॥

नीलेन्द्रमणिमूर्तेस्तु विष्णो रूपं यथातथम् ॥

विद्यापतिरुवाच ॥

हंत ते कथयिष्यामि दिव्यां मूर्तिं जगत्पतेः

॥६२॥

यां चर्मचक्षुषा दृष्ट्वा जायते मुक्तिभाजनम् ॥

नीलेन्द्रमणिपाषाणमयी मूर्तिः पुरातनी

॥६३॥

यान्वहं ब्रह्मरुद्रेंद्रपुरोगैरर्चिता सुरैः ॥

आरोपितेयं दिव्या स्रक्पूजायां हि सुपर्वभिः

॥६४॥

सेयं न म्लायति नृप न च गन्धेन रिच्यते ॥

दिने बहुतिथे यातेऽपीदृशी स्रग्धरोद्भवा

॥६५॥

दिव्योपहारः निर्माल्यभक्षणात्क्षीणकल्मषम् ॥

मां न पश्यसि किं राजन्नतिमानुषवर्चसम्

॥६६॥

सकृदप्यशनाद्यस्य क्षुत्पिपासाबलक्षयाः ॥

न बाधन्ते नृपश्रेष्ठ दृष्टेनादृष्टकल्पनम्

॥६७॥

भुक्तिर्मुक्तिश्च वै राजन्न् तत्र युगपत्स्थिते ॥

न जरारोगशोकादिदुःखं तत्र हि विद्यते

॥६८॥

यत्र साक्षाज्जगन्नाथः प्रसन्नवदनो विभुः ॥

फुल्लेंदीवरपत्राक्षः प्रपन्नामृतमुक्तिदः

॥६९॥

इति श्रीस्कांदे महापुराण एकशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीपुरुषोत्तममाहात्म्ये जैमिनिऋषिसंवादे नवमोऽध्यायः ॥ ९ ॥