मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — पुरुषोत्तमजगन्नाथमाहात्म्यम्, अध्याय ८

3
वैष्णवखण्डः · पुरुषोत्तमजगन्नाथमाहात्म्यम् · 8

इत्युक्तस्तेन विप्रेण शबरश्चिंतयाकुलः

जैमिनिरुवाच

इत्युक्तस्तेन विप्रेण शबरश्चिंतयाकुलः ॥

अस्माकमुपजीव्योऽसौ रहस्यस्थो जनार्दनः

॥१॥

उपस्थितं नो दुर्दैवं येन स्यात्सार्वलौकिकः ॥

न दर्शयामि चेद्विप्रं शापं मेऽसौ प्रदास्यति

॥२॥

सर्वेषां ब्राह्मणो मान्यो विशेषादतिथिस्त्वयम् ॥

यस्मिन्विफलकामे तु द्वौ लोकौ विफलौ मम

॥३॥

एवं विचारयन्विश्वावसुः शबरपुंगवः ॥

जनप्रवादं सस्मार पुराणं शबरालये

॥४॥

अस्मिन्नंतर्हिते देवे भूम्यंतर्लीनमाधवे ॥

इन्द्रद्युम्नो नरपतिः शक्रतुल्यपराक्रमः

॥५॥

मनुष्यवपुषा यो वै ब्रह्मलोकं व्रजेदपि ॥

सोऽस्मिन्प्रजाभिरागत्य वाजिमेधशतेन च

॥६॥

इष्ट्वा दारुमयं विष्णुं चतुर्द्धा स्थापयिष्यति ॥

अस्य चेद्भाग्यमुत्पन्नं ब्राह्मणस्यातिथेर्भृशम्

॥७॥

अंतर्द्धानं भगवतः सन्निधानमथो भवेत् ॥

तदेनं दर्शयिष्यामि नीलेंद्रमणिमच्युतम्

॥८॥

न पौरुषेयं कस्यापि कर्तव्ये देवनिर्मिते ॥

इत्थं विचार्य मनसा शबरश्च पुनःपुनः

॥९॥

उवाच विप्रं पुरतो ध्यायंतं विष्णुमव्ययम्

॥१०॥

शबर उवाच

अस्माभिः पूर्वतोऽप्येष उदंतः श्रुत एव हि ॥

इंद्रद्युम्नो नरपतिरत्र वासं करिष्यति

॥११॥

ततोऽपि भाग्यवांस्त्वं हि यदग्रे नीलमाधवम् ॥

चक्षुषा पश्यसे ब्रह्मन्नेहि यामो ह्यधित्यकाम्

॥१२॥

इत्युक्त्वा तं करे धृत्वा वर्त्मना गहनं ययौ ॥

उपर्युपर्युपारुह्य शिलाविषमवर्त्मनि

॥१३॥

एकैकनरगम्ये च कंटकाचितदुर्गमे ॥

तमःप्राये पथि गतं बोधयन्वचसा द्विजम्

॥१४॥

मुहूर्ताभ्यां रौहिणस्य कुंडस्याविशतां तटे ॥

तं दृष्ट्वा सोऽब्रवीद्विप्रं कुंडमेतद्द्विजोत्तम

॥१५॥

रौहिणाख्यं महत्तीर्थं कारणं सर्वपाथसाम् ॥

अत्र स्नात्वा नरो याति वैकुंठभवनं द्विज

॥१६॥

एतस्य पूर्वभागेऽसो कल्पच्छायावटो महान् ॥

छायां यस्य समाक्रम्य ब्रह्महत्यां व्यपोहति

॥१७॥

एतयोरंतरे ब्रह्मन्निकुंजाभ्यंतरे स्थितम् ॥

पश्य साक्षाजगन्नाथं वेदांतप्रतिपादितम्

॥१८॥

दृष्ट्वा जहीहि सकलं विविधं पापसंचयम् ॥

इत ऊर्ध्वं न शोचस्व पतितो भवसागरे

॥१९॥

जैमिनिरुवाच

स तु कुंडे द्विजः स्नात्वा संप्रदृष्टमनाः सुधी ॥

दूरात्प्रणम्य शिरसा मनसा वचसा हरिम्

॥२०॥

तुष्टाव चैकाग्रमना हर्षगद्गदया गिरा

॥२१॥

विद्यापतिरुवाच

प्रधानपुरुषातीत सर्वव्यापिन्परात्पर ॥

चराचरपरीणाम परमार्थ नमोऽस्तु ते

॥२२॥

श्रुतिस्मृतिपुराणेतिहास संप्रतिपादितैः ॥

कर्मभिस्त्वं समाराध्य एक एव जगत्पते

॥२३॥

त्वत्त एतज्जगत्सर्वं सृष्टौ संपद्यते विभो ॥

त्वदाधारमिदं देव त्वयैव परिपाल्यते

॥२४॥

कल्पांते संहृतं सर्वं त्वत्कुक्षौ सावकाशकम् ॥

सुखं वसति सर्वात्मन्नंतर्यामिन्नमोऽस्तु ते

॥२५॥

नमस्ते देवदेवाय त्रयीरूपाय ते नमः ॥

चंद्रसूर्यादिरुपेण जगद्भासयते सदा

॥२६॥

सर्वतीर्थमयी गंगा यस्य पादाब्जसंगमात् ॥

पुनाति सकलाँल्लोकांस्तस्मै पावयते नमः

॥२७॥

हवींषि मंत्रपूतानि सम्यग्दत्तानि वह्निषु ॥

परिणामकृते तुभ्यं .जगज्जीवयते नमः

॥२८॥

यदंशमुपजीवंति जगंत्यानंदरूपिणः ॥

सर्वकल्मषहीनाय तस्मै ब्रह्मात्मने नमः

॥२९॥

निर्मलाय स्वरूपाय शुभरूपाय मायिने ॥

सर्वसंगविहीनाय नमस्ते विश्वसाक्षिणे

॥३०॥

बहुपादाक्षिशीर्षास्यबाहवे सर्वजिष्णवे ॥

सर्वजीवस्वरूपाय नमस्ते सर्वरूपिणे

॥३१॥

नमस्ते कमलाकांत नमस्ते कमलासन ॥

नमः कमलपत्राक्ष त्राहि मां पुरुषोत्तम

॥३२॥

असारसंसारपरिभ्रमेण निपीड्यमानं खलु रोगशोकैः ॥

मामुद्धरास्माद्भवदुःखजातात्पादाब्जयोस्ते शरणं प्रपन्नम्

॥३३॥

जैमिनिरुवाच

इति स्तुत्वा सुरेशानं देवं प्रणवरूपिणम् ॥

प्रणतः प्रणवं मंत्रं जजाप पुरतो हरेः

॥३४॥

जपांते शांतमनसं कृतांजलिमुपस्थितम् ॥

मन्यमानं कृतार्थं स्वं प्रोवाच शबरो द्विजम्

॥३५॥

विश्वावसुरुवाच

कृतार्थस्त्वं प्रभुं दृष्ट्वा सांप्रतं द्विजपुंगव ॥

दिनांतोऽभूद्गृहं यावः क्षुधितोऽसि श्रमान्वितः

॥३६॥

वासोऽप्यरण्ये हिंस्राणां नास्माकमुचिता स्थितिः ॥

यावद्भानोर्भाति भासस्तावद्यामो निजालयम्

॥३७॥

इत्युक्त्वा ब्राह्मणं पाणौ गृहीत्वा शबरः पुनः ॥

आजगाम द्विजश्रेष्ठाः स्वाश्रमं त्वरयान्वितः

॥३८॥

ब्राह्मणोऽपि जगन्नाथं ध्यायन्नानंदसागरम् ॥

क्षुत्तृषाश्रमजातानि दुःखानि बुबुधे न हि

॥३९॥

शिलाविषममार्गेऽपि कंटकोत्करदुर्गमे ॥

व्रजन्न दुःखं लेभेऽसौ शरीरानास्थया मुदा

॥४०॥

एवं व्रजंतौ तौ विप्र शबरौ शबरालयम् ॥

सायाह्ने तमनुप्राप्तौ वैष्णवाग्र्यौ तु भो द्विजाः

॥४१॥

तत्रातिथिमनुप्राप्तं ब्राह्मणं शबरोत्तमः ॥

भक्ष्यभोज्य विधानैश्च विविधैः समपूजयत्

॥४२॥

ततोऽभितृप्तस्तद्दत्तैरुपचारैर्नृपोचितैः ॥

विस्मयं परमं लेभे शबरस्य सुदुर्लभैः

॥४३॥

शबरोऽयं निवसति विषमे काननांतरे ॥

आरण्यकैर्वर्त्तमानः कथमस्य गृहांतरे

॥४४॥

राजार्हभक्ष्यभोज्यानि सुलभान्यद्भुतं महत् ॥

इति विस्मयमापन्नं ब्राह्मणं शबरस्तदा

॥४५॥

प्रोवाच स्निग्धवचसा विनयावनतो भृशम्

॥४६॥

शबर उवाच

भो विप्र श्रमहीनोऽसि कच्चित्क्षुत्तृड्विवर्जितः ॥

आरण्यकानां भवने नागराणां कुतः सुखम्

॥४७॥

अज्ञाता नागरी वृत्तिः शबरैस्तु विशेषतः ॥

राजोपजीविनां श्रेष्ठौ राजामात्यपुरोहितौ

॥४८॥

तयो राजसमः पूज्यः पुरोधाः शास्त्रसंमतः ॥

इन्द्रद्युम्नो नरपतिः सार्वभौमः प्रतापवान्

॥४९॥

त्वयि तुष्टे स संतुष्टो ध्रुवं विप्र भविष्यति ॥

इत्युक्तवत्यरण्यस्थे स तु प्रीततरो द्विजः ॥

उवाच शबरं प्रीत्या विनयाद्भुतवादिनम्

॥५०॥

विद्यापतिरुवाच

साधो मदुपचाराय हृतान्येतानि यानि ते ॥

वस्तुन्यमानुषाणीह यान्यदृष्टानि राजभिः

॥५१॥

चित्रमेतद्दिव्यवस्तुसंचयः शबरालये ॥

एतत्ख्यातुं कौतुकं मे साधो संवर्द्धते महत्

॥५२॥

शबर उवाच

एतत्प्रकाशितुं विप्र मतिर्नोत्सहते मम ॥

तथापि ते द्विजश्रेष्ठाऽतिथिभक्त्या वदाम्यहम्

॥५३॥

शक्रादयो देवगणाः समायान्त्यन्वहं द्विज ॥

दिव्योपचारानादाय पूजनाय जगत्पतेः

॥५४॥

पूजयित्वा जगन्नाथं स्तुत्वा नत्वा च भक्तितः ॥

गीतशवादित्रनृत्यैश्च संतोष्य पुरुषोत्तमम्

॥५५॥

पुनः प्रयांति सततं त्रिदिवं सुरसत्तमाः ॥

दिव्यान्येतानि वस्तूनि निर्माल्यानि जगत्पतेः

॥५६॥

दत्तानि तुभ्यं विदुषे कथं विस्मयते भवान् ॥

विष्णोर्निर्माल्यभोगेन क्षीणरोगजरा वयम्

॥५७॥

सपुत्रबांधवाः सर्वे निवसामोऽयुतायुषः ॥

विष्णुनिर्माल्यभोगेन क्षीयते पापसंहतिः

॥५८॥

न तच्चित्रं द्विजश्रेष्ठ येन स्यान्मुक्तिभाजनम् ॥

श्रुत्वैतद्दुर्लभं कर्म ब्राह्मणो रोमहर्षणः

॥५९॥

आनंदाश्रुविलुप्ताक्षः स्वं कृतार्थममन्यत ॥

अहो शबरजन्मासौ पश्यत्यव्ययमीश्वरम्

॥६०॥

तदुच्छिष्टं दिव्यभोगमुपभुंक्ते दिवानिशम् ॥

नान्योऽस्य सदृशो लोके पृथिव्यां सचराचरे

॥६१॥

यादृशो विष्णुभक्तोऽयं शबरो नीलपर्वते ॥

किं गत्वा स्वगृहे मेऽद्य कुटुंबेनाऽसुखात्मना

॥६२॥

अनेन सख्यं निष्पाद्य स्थास्याम्यत्र वनांतरे ॥

चिन्तयित्वा चिरं विप्रः श्रीकृष्णासक्तमानसः

॥६३॥

पुनः प्रोवाच शबरं मयि ते चेदनुग्रहः ॥

साधो सख्यं त्वया कार्यमिति मे निश्चयो महान्

॥६४॥

किं गत्वा सेवया राज्ञः परत्रासुखहेतुना ॥

अत्र स्थित्वा त्वया सार्धमुपास्य मधुसूदनम्

॥६५॥

यथा पुनर्देहबंधो यतिष्ये न भवेन्मम ॥

साधु मित्र त्वया सार्द्धं भाग्यान्मे संगमोऽभवत्

॥६६॥

दुस्तारं भवसंसारं तरिष्ये त्वत्प्रसादतः ॥

सारमेतत्प्रशंसंति संसारे भवसागरे

॥६७॥

यद्वैष्णवेन मित्रत्वं दुःखसंसारपारदम् ॥

मित्रस्य सहवासेन पुनः प्रत्यक्षमेष्यति

॥६८॥

भगवान्पुण्डरीकाक्षः शंखचक्रगदाधरः ॥

इंद्रद्युम्नो नरपतिर्मयि प्रत्यागते सखे

॥६९॥

भगवंतं समाराद्धुमिहैव स निवत्स्यति ॥

प्रासादं विपुलं चात्र चिकीर्षुर्भगवत्प्रियम्

॥७०॥

सहस्रमुपचाराणां पूजनाय जगत्पतेः ॥

रचयिष्यामीति महत्प्रतिज्ञासीन्महीपतेः

॥७१॥

प्रतिश्रुतं तत्पुरतः प्रीतस्तन्मेऽनुमन्यताम्

॥७२॥

शबर उवाच

सखे पुरातनी वार्त्ता प्रसिद्धैवात्र तादृशी

॥७३॥

त्वया यथैव कथितं इन्द्रद्युम्नसमागमः ॥

केवलं माधवं तत्र न द्रक्ष्यति महीपतिः

॥७४॥

अचिरादेव भगवान्स्वर्णवालुकयावृतः ॥

प्रतिजज्ञे यमायैतदन्तर्द्धानं गमिष्यति

॥७५॥

महाभाग्यपरीपाकात्प्रत्यक्षोऽयं त्वया कृतः ॥

इन्द्रद्युम्नागमाभ्यासे ध्रुवं स व्यवधास्यति

॥७६॥

एषोऽर्थस्तु त्वया मित्र न वक्तव्यो नृपाग्रतः ॥

आगत्य सोऽत्र नृपतिरदृष्ट्वा परमेश्वरम्

॥७७॥

प्रायोपवेशव्रतवान्स्वप्ने दृष्ट्वा गदाधरम् ॥

तदादेशाद्दारुमयं प्रभोर्लिंगचतुष्टयम्

॥७८॥

पूजयिष्यति भक्त्या च प्रतिष्ठाय स्वयंभुवा ॥

स्थितिरत्र हरेर्यावदावयोर्वंशसंस्थितिः

॥७९॥

अनुग्रहाद्भगवतो नात्र कार्या विचारणा ॥

तदत्रार्थे सखे खेदं मा व्रज क्षिप्रमेव हि

॥८०॥

निर्वर्त्स्यतेऽचिरादेव मित्रेदानीं सुखं स्वप ॥

प्रातर्दृष्ट्वा पुनर्देवं नीलेन्द्राश्ममयं विभुम्

॥८१॥

सिंधौ स्नात्वा तस्य तटे निवासाय महीपतेः ॥

द्रक्ष्यामः साधु संस्थानं यथाभिलषितं सखे

॥८२॥

इत्यन्याश्च कथाः पुण्याः कृत्वा तौ च परस्परम् ॥

शुभस्थाने चास्वपतां शयने पल्लवास्तृते

॥८३॥

प्रभातायां तु शर्वर्यां तीर्थराजोदकेन तौ ॥

स्नानं निर्वर्त्य विधिवन्माधवं प्रणिपत्य च

॥८४॥

राजार्हस्थानं निर्णीय निवासाय गतौ पुनः ॥

तत्र मित्रेणाभिमन्त्र्य राज्ञो निर्देशकारणात्

॥८५॥

रथमारुह्य विप्रः स त्ववंतीपुरमाययौ

॥८६॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये जैमिनिऋषिसंवादेऽष्टमोऽध्यायः ॥ ८ ॥