मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — पुरुषोत्तमजगन्नाथमाहात्म्यम्, अध्याय १९

3
वैष्णवखण्डः · पुरुषोत्तमजगन्नाथमाहात्म्यम् · 19

ततः स पृथिवीपालस्तथा कृत्वांऽतरिक्षगा

जैमिनिरुवाच

ततः स पृथिवीपालस्तथा कृत्वांऽतरिक्षगा ॥

यदुवाच गिरां देवी तद्वत्परिचचार ह

॥१॥

एवं दिनेदिने याते दिव्यगंधोऽनुभूयते ॥

पारिजातप्रसूनानां वृष्टिर्मर्त्येषु दुर्लभा

॥२॥

दिव्यसंगीतनादश्च गीतानि रुचिराणि च ॥

स्वर्गंगाजलवृष्टिश्च सूक्ष्मबिंदुसुशोभना

॥३॥

ऐरावतादिनागानां मदगंधो वनद्विपैः ॥

दुःसहः सर्वभूतानां सुखकार्यनुभूयते

॥४॥

यज्ञार्थमागता देवास्ते सर्वे विगतज्वराः ॥

आविर्भूतं हरिं दृष्ट्वा उपासांचक्रिरे द्विजाः

॥५॥

यथा हि माधवं पूर्वं तथा तं विष्णुशाखिनम् ॥

उपासनासु देवानां दिव्यचिह्नानि जज्ञिरे

॥६॥

निर्ववाह स्वयं देवः क्रमात्पंचदशे दिने ॥

चतुर्मूर्तिः स भगवान्यथा पूर्वं मयोदितः

॥७॥

तादृगाविर्बभूवासौ युष्माकं वर्णितः पुरा ॥

दिव्यसिंहासनगतो बलभद्रासुदर्शनैः

॥८॥

शंखचक्रगदापद्मलसद्बाहुर्जनार्दनः ॥

गदामुसलचक्राब्जं धारयन्पन्नगाकृतिः

॥९॥

छत्राकृतिफणासप्तमुकुटोज्ज्वलकुंडलः ॥

सुभद्रा चारुवदना वराब्जाभयधारिणी

॥१०॥

लक्ष्मीः प्रादुर्बभूवेयं सर्वचैतन्यरूपिणी ॥

इयं कृष्णावतारे हि रोहिणीगर्भसंभवा

॥११॥

बलभद्राकृतिर्जाता बलरूपस्य चिंतनात् ॥

क्षणं न सहते सा हि मोक्तुं लीलावतारिणम्

॥१२॥

न भेदोऽस्तीह को विप्राः कृष्णस्य च बलस्य च ॥

एकगर्भप्रसूतत्वाद्व्यवहारोऽथ लौकिकः

॥१३॥

भगिनी बलदेवस्येत्येषा पौराणिकी कथा ॥

पुंरूपे स्त्रीस्वरूपेण लक्ष्मीः सर्वत्र तिष्ठति

॥१४॥

पुंनाम्ना भगवान्विष्णुः स्त्रीनाम्ना कमलालया ॥

देवतिर्यङ्मनुष्यादौ विद्यते न तयोः परम्

॥१५॥

को ह्यन्यः पुंडरीकाक्षाद्भुवनानि चतुर्दश ॥

धारयेत्तु फणाग्रेण सोऽनंतो बलसंज्ञितः

॥१६॥

तस्य शक्तिस्वरूपेयं भगिनी श्रीः प्रकीर्तिता ॥

सुदर्शनं तु यच्चक्रं सदा विष्णोः करे स्थितम्

॥१७॥

शाखाग्रस्तंभमध्यस्थं तद्रूपं तत्तुरीयकम् ॥

एवं तु मूर्त्तयस्तेन चतस्रो वै प्रकाशिताः

॥१८॥

निर्वृत्ते भगवद्रूपे चतुर्द्धा दिव्यरूपिणि ॥

लोकानामुपकाराय पुनराहांतरिक्षगा

॥१९॥

पटैराच्छाद्य सुदृढं नृपते प्रतिमास्त्विमाः ॥

स्वं स्वं वर्णं प्रापयाशु वर्णकैश्चित्रकर्मणा

॥२०॥

नीलाभ्रश्यामलं विष्णुं शंखेंदुधवलं बलम् ॥

रक्तं सुदर्शनं चक्रं सुभद्रां कुंकुमारुणाम्

॥२१॥

नानालंकाररुचिरां नानाभंगिविभागशः ॥

अमी दारुस्वरूपेण दृष्टाः पापाय हेतवे

॥२२॥

गोपनीया प्रयत्नेन पटनिर्यासवल्कलैः ॥

तस्मात्प्रथममेवैतांस्तरोरेवास्य वल्कलैः

॥२३॥

शिल्पिभिः कर्मकुशलैर्दृढमाच्छादयाग्रतः ॥

वर्षे वर्षे च संस्कार्याः पूर्वसंस्कार मोचनात्

॥२४॥

ऋते वल्कललेपं तु स तु दिव्यश्चिरंतनः ॥

प्रमादाद्य इमं लेपमपनीयेत कश्चन

॥२५॥

दुर्भिक्षं मरकं राष्ट्रे संततिश्चास्य हीयते ॥

नेक्षितव्यास्त्वया राजन्कदाचिदपवारणाः

॥२६॥

मनुष्यैश्चापि राजेंद्र दृष्टाः स्युर्भयहेतवः ॥

तस्मात्सचित्रा द्रष्टव्या बहुलेपविलेपिताः

॥२७॥

सुचित्रं पुण्डरीकाक्षं सविलासं सविभ्रमम् ॥

दृष्ट्वा विमुच्यते पापैः कल्पकोटिसमुद्भवैः

॥२८॥

सुचित्रान्कुरु राजेंद्र चित्रान्कामानवाप्स्यति ॥

आविर्बभूव भगवांस्तवानुग्रहकाम्यया

॥२९॥

तव प्रसादाज्जंतूनां चतुर्वर्गं प्रदास्यति ॥

नीलाद्रौ कल्पवृक्षस्य वायव्यां शतहस्ततः

॥३०॥

प्रदेशे सुमहत्स्थाने प्रासादं सुदृढायतम् ॥

उत्तरे नरसिंहस्य सहस्रकरमुच्छ्रितम्

॥३१॥

कारयित्वा प्रतिष्ठाप्य तत्रैनं विनिवेशय ॥

पुरा स्थितं पर्वतेऽस्मिन्योऽभ्यर्चयति माधवम्

॥३२॥

नाम्ना विश्वावसुर्नाम शबरो वैष्णवोत्तमः ॥

पुरोधसः सख्यमासीत्तेन सार्द्धं पुरा च ते

॥३३॥

तयोः संततिरेवास्य लेपसंस्कारकर्मणि ॥

नियुज्यतां महाराज भविष्यत्सूत्सवेषु च

॥३४॥

विररामैतदाभाष्य सा तु दिव्या सरस्वती ॥

तयोपदिष्टमाकर्ण्य प्रहृष्टेनांतरात्मना

॥३९॥

वेष्टनं मोचयामास महावेद्या नृपोत्तमः ॥

ददृशुस्ते तदा सर्वे रत्नसिंहासने स्थितम्

॥३६॥

रामं कृष्णं सुभद्रां च वासुदेवं सुदर्शनम् ॥

यथोपदिष्टलेप्यादिसंस्कारे रुचिराकृतिम्

॥३७॥

कृपया स्मेरवदनमुन्नतायतवक्षसम् ॥

दीनानामुद्धृतौ नाथं प्रलंबभुजपंजरम्

॥३८॥

प्रबुद्धपुण्डरीकाक्षं हासशोणायताधरम् ॥

पश्यतां दृष्टिमात्रेण हर्तारं पापसंचयम्

॥३९॥

पद्मासनस्थितं कृष्णं दिव्यालंकारभूषितम् ॥

स्वतेजसा परिवृतं दारुदेहेऽपि निर्मलम्

॥४०॥

नीलजीमूतसंकाशं सर्वसंतापनाशनम् ॥

ददर्श बलदेवं च साट्टहासमुखांबुजम्

॥४१॥

फणामण्डलविस्तीर्णं वारुणीघूर्णितेक्षणम् ॥

प्रोत्थितं नागराजानं पीनोन्नतसुवक्षसम्

॥४२॥

किंचिन्नतं पृष्ठदेशे कुण्डलीकृतविग्रहम् ॥

अग्रसंफुल्लककुभं कैलासशिखरं यथा

॥४३॥

हलचक्राब्जमुसलधारिणं वनमालिनम् ॥

हारकुण्डलकेयूरकिरीटमुकुटोज्ज्वलम्

॥४४॥

तयोर्मध्ये स्थितां लक्ष्मीं सुभद्रां भद्ररूपिणीम्

॥४५॥

सर्वदेवारणीं पापसागरोत्तारकारिणीम् ॥

विकचांभोजवदनां वराब्जाभयधारिणीम्

॥४६॥

रूपलावण्यवसतिं शोभमानां प्रसाधनैः ॥

कुंकुमारुणदेहां तां साक्षाल्लक्ष्मीमिवापराम्

॥४७॥

ददर्श विष्णोर्वामस्थां चक्रशाखाग्रनिर्मिताम् ॥

बालार्कसदृशीं तीक्ष्णधारां तेजोमयीं द्विजाः

॥४८॥

तां दृष्ट्वानन्दपाथोधि निमग्नः पृथिवीपतिः ॥

कर्तव्यमूढः स्वतनौ स्वयं न प्रबभूव ह

॥४९॥

दरमीलितनेत्रः सन्सृजन्बाष्पांबु केवलम् ॥

कृतांजलिपुटस्तस्थौ स्थूणाकारो नृपोत्तमः

॥५०॥

उवाच तं मुनिवरः स्मितवक्त्रः क्षितीश्वरम् ॥

यदर्थं श्रममापन्नस्तत्सांप्रतमभूत्तव

॥५१॥

प्रत्यक्षं नृपशार्दूल एकस्त्वं भाग्यवान्भुवि ॥

अमुं पश्य जगन्नाथं पुण्डरीकायतेक्षणम्

॥५२॥

भक्तानुग्रहपाथोधिं सर्वज्ञाननिधिं हरिम् ॥

यं द्रष्टुं योगिनो नित्यं यतंति यतमानसाः

॥५३॥

अवधानेन महता क्षणं पश्यन्ति मानवाः ॥

सोऽयं दारुमयं देहं समास्थाय जनार्दनः

॥५४॥

अनुग्रहीतुं त्वां भूप प्रत्यक्षत्वमुपागतः ॥

भजैनं धरणीनाथं स्तुहि कारुण्यसागरम्

॥५५॥

ददाति संस्तुतः कामान्सर्वान्नृप मनोगतान्

॥५६॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये जैमिनिऋषिसंवाद एकोनविशोऽध्यायः ॥ १९ ॥