मकरसंक्रमविधिवर्णनम्
जैमिनिरुवाच
मृगराशिं संक्रमति यदा भास्वान्द्विजोत्तमाः ॥
उत्तराशां जिगमिषुस्तदा स्यादुत्तरायणम्
॥१॥तस्य संक्रमणार्द्धं च यावत्स्युर्विंशतिः कलाः ॥
महापुण्यतमः कालः पितृदेवद्विजप्रियः
॥२॥तत्र स्नात्वा विधानेन र्तार्थराजजले नरः ॥
नारायणं समभ्यर्च्य कल्पवृक्षं प्रणम्य च
॥३॥प्रविश्य देवतागारं कृत्वा तं त्रिः प्रदक्षिणाम् ॥
मन्त्रराजेन संपूज्य देवं श्रीपुरुषोत्तमम्
॥४॥तथा बलं सुभद्रां च स्वमन्त्रेण प्रपूजयेत् ॥
दृष्ट्वोत्तरायणे देवं मुच्यते देहबन्धनात्
॥५॥विधानं तस्य वक्ष्याभि शृणुध्वं पावनं महत् ॥
संक्रांतेः पूर्वदिवसे नवां शालिं सुकुट्टिताम्
॥६॥प्रासादपूर्वदेशे च स्थापयित्वाधिवासयेत् ॥
नवेन वाससावेष्ट्य दूर्वासर्षपपुष्पकैः
॥७॥पूजयित्वा मन्त्रयेद्वै कृष्णस्त्वामभिरक्षतु ॥
तस्मिन्नेव निशायामे व्यतीते जगदीशितुः
॥८॥प्रत्यर्चां सन्निधौ नीत्वा भावयेदेकताधिये ॥
उपचारावशिष्टाभ्यां पूजयेद्वै समाहितः
॥९॥ततो निर्माल्यवसनमालामस्यां निधापयेत् ॥
महासमृद्ध्या तामर्चां त्रिर्देवान्भ्रामयेत्ततः
॥१०॥आंदोलिकायामारोप्य प्रासादद्वारमानयेत् ॥
त्रिविक्रमं त्रिक्रमेण त्रैलोक्यक्रमणं विभुम्
॥११॥विडंबयंतं तां लीलां प्रासादं भ्रामयेच्च तम् ॥
त्रिरंते पुनरंके च सुसमृद्ध्या शनैःशनैः
॥१२॥दीपिकाशतसंरुद्धतमसोवरणांतरे ॥
छत्रध्वजपताकाभिर्नृत्यवादित्रगीतकैः
॥१३॥तद्दर्शनपरिक्षीणपातकानां महात्मनाम् ॥
न च चिह्नं शरीरेऽस्य नवांगे भ्रमणं ततः
॥१४॥अनुयांति तदा ये तं महे यांतं त्रिविक्रमम् ॥
लभंते वाजिमेधस्य फलं ते वै पदे पदे
॥१५॥प्रथमभ्रमणं दृष्ट्वा मुच्यते पञ्चपातकैः ॥
मलिनीकरणैर्मुच्येद्द्वितीयं भ्रमणं द्विजाः
॥१६॥अपात्रीकरणैर्दृष्ट्वा तृतीयं भ्रमणं ध्रुवम् ॥
उपपातकपापैश्च चतुर्थं मुच्यते ततः
॥१७॥पुनः प्रभाते देवेशं प्रलिंपेद्गन्धचन्दनैः ॥
वस्त्रालंकारमाल्यैश्च भूषयित्वा यथाविधि
॥१८॥पूजयेदुपचारैस्तं यथाशक्ति समृद्धिमत् ॥
नीराजयित्वा देवेशं तंदुलानधिवासितान्
॥१९॥स्थालीषु शातकुंभासु दधिखंडाज्यमिश्रितान् ॥
सनारिकेलशकलाच्छृंगवेर दलान्वितान्
॥२०॥प्रासादं त्रिः परिभ्रम्य नयेद्देवसमीपतः ॥
पंक्तिशः स्थापयेदग्रे गन्धपुष्पाक्षतान्वितान्
॥२१॥जीवनं सर्वभूतानां जनकस्त्वं जगत्प्रभो ॥
त्वन्मयाः शालयो ह्येते त्वयैव जनिताः प्रभो
॥२२॥लोकानुग्रहणार्थाय गृहीतोचितविग्रह ॥
तव प्रीत्यै कृतानेतान्गृहाण परमेश्वर
॥२३॥त्वयि तुष्टे जगत्सर्वमनेन प्रभविष्यति ॥
स्वाहाकारस्वधाकारवषट्कारा दिवौकसाम्
॥२४॥आप्यायना भविष्यंति तैरेवाप्यायितं जगत् ॥
रक्ष सर्वं जगन्नाथ त्वन्मयं सचराचरम्
॥२५॥इति संप्रार्थ्य देवेशं शालिस्तंबान्निवेदयेत् ॥
तन्मयान्भक्षभोज्यांश्च दधिकुंभान्सुगंधिनः
॥२६॥कर्पूरखंडमरिचचूर्णयुक्तान्निवेदयेत् ॥
ब्राह्मणान्पूजयेद्भक्त्या देवदेवपुरःस्थितान्
॥२७॥तेभ्यः प्रदद्याद्भक्त्या ताञ्छाल्यादीन्भगवद्धिया ॥
इमं महोत्सवं विप्राः पुरा कल्पे च कश्यपः
॥२८॥स च सृष्टिं विनिर्माय भगवत्प्रीतयेऽकरोत् ॥
ये पश्यन्त्युत्सवं चैनं कश्यपेन विनिर्मितम्
॥२९॥सर्वदा सर्वकामैस्ते पूर्णाः शोचंति न द्विजाः ॥
उषित्वा त्रिदशैः सार्द्धं कल्पांते मोक्षमाप्नुयुः
॥३०॥महानसस्य संस्कारं वह्नेः संस्कारमेव च ॥
अत्रापि कुर्यान्मुनयो वैश्वदेवं दिनेदिने
॥३१॥आधानसंस्कृते वह्नौ भगवद्भुक्तये रमा ॥
प्रत्यहं पाकमाधत्ते दिव्यरूपा तिरोहिता
॥३२॥अस्मिन्महापुण्यतम उत्सवे परमात्मनः ॥
तुलापुरुषदानादि कोटिकोटिगुणं भवेत्
॥३३॥स्नानं दानं तपो होमः स्वाध्यायः पितृतर्पणम् ॥
सर्वमक्षयतां याति ह्युत्सवे चोत्तरायणे
॥३४॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये मकरसंक्रमविधिवर्णनंनाम द्विचत्वारिंशोऽध्यायः ॥ ४२ ॥