मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — पुरुषोत्तमजगन्नाथमाहात्म्यम्, अध्याय १०

3
वैष्णवखण्डः · पुरुषोत्तमजगन्नाथमाहात्म्यम् · 10

जन्मप्रभृति तत्र त्वं न प्रयातो द्विजोत्तम

इन्द्रद्युम्न उवाच

जन्मप्रभृति तत्र त्वं न प्रयातो द्विजोत्तम ॥

कथं विद्याद्भवान्दिव्यवृत्तांतं पुरुषोत्तमे

॥१॥

विद्यापतिरुवाच

तत्र स्थितोऽहं सायाह्ने भगवंतमुपागमम् ॥

तस्मिन्काले दिव्यगन्धो ववौ च शिशिरो मरुत्

॥२॥

उद्यतः संकुलः शब्दः श्रूयते स्म वियत्पथे ॥

क्रमाद्याहि प्रयाहीति स तु वर्णमयः स्वनः

॥३॥

दिविष्ठानां पतत्पुष्पवृष्ट्याच्छादितपर्वतः ॥

समागमोऽभूत्सान्निध्ये वैकुंठस्य महीपते

॥४॥

वीणावेणुमृदंगानां चर्चरीणां च निःस्वनः ॥

अभूतपूर्वस्तत्रासीद्दिव्यगानविमिश्रितः

॥५॥

सहस्रमुपचाराणां प्रीतये परमेशितुः ॥

देवैः समर्पितं तत्र मनुष्यादृष्टपूर्वकम्

॥६॥

संपूज्य विधिवद्देवं करमात्रोपलक्षिताः ॥

जयपूर्वैश्च तं स्तोत्रैः संतोष्य मधुसूदनम्

॥७॥

यथागतं ते त्रिदशाः प्रययुस्त्रिदशालयम् ॥

तेषु यातेषु शबरः सखा विश्वावसुर्मम

॥८॥

दिव्योपहारभोज्यानि माल्यं चेदं ददौ मम ॥

अनर्घ्यमेतदम्लानं श्रीराज्यसुखदायकम्

॥९॥

अलक्ष्मीपापरक्षोघ्नं योग्यं तेनाहृतं मया ॥

शृणुष्व तस्य संस्थानं विष्णोर्यत्क्षेत्रमुत्तमम्

॥१०॥

अपूर्वशिल्पनैपुण्यं रूपं चास्य मनोहरम् ॥

न भूमिजन्मना पुंसा शक्यते गदितुं हि तत् ॥

तद्भाग्यपौरुषाभ्यां तल्लक्षितं कथयामि ते ॥

समंताद्गहनाकीर्णं क्षेत्रं नीलाद्रिनाभिकम्

॥१२॥

आयामविस्तृतिभ्यां च विख्यातं क्रोशपंचकम् ॥

तीर्थराजस्य वेलायां स्वर्णवालुकयावृतम्

॥१३॥

अद्रेः शृंगे महानुच्चः कल्पस्थायी वटो महान् ॥

क्रोशायतः पुष्पफलवर्जितः पल्लवोज्ज्वलः

॥१४॥

सूर्यापक्रमणे तस्य छायां नापक्रमेत वै ॥

तस्य पश्चात्प्रदेशे हि कुंडं रोहिणसंज्ञकम्

॥१५॥

जलोद्गमान्नीलदृषदारोहणविभूषितम् ॥

बहिः स्फटिकवेदीभिश्चतुर्दिक्षु परीवृतम्

॥१६॥

अघसंघातहारीभिरद्भिः पूर्णं मनोरमम् ॥

तत्पूर्ववेदिकामध्ये न्यग्रोधच्छायशीतले

॥१७॥

इन्द्रनीलमयो देव आस्ते चक्रगदाधरः ॥

एकाशीत्यंगुलमितः स्वर्णपद्मोपरि स्थितः

॥१८॥

अष्टमीचन्द्रशकलशोभाविजयिभालभूः ॥

स्मेरेंदीवरयुग्मश्रीधिक्कारोद्यतलोचनः

॥१९॥

आननामृतभानूद्यत्संतापत्रयमोचनः ॥

नासापुटद्वयोद्भासितिलपुष्पप्रशोभनः

॥२०॥

वपुषोऽश्ममयत्वेऽपि सुस्मितस्रपिताधरः ॥

हाससंफुल्लगंडाभ्यां रुचिरं चिबुकं हनुः

॥२१॥

अनन्यपूर्वघटितं सृक्किणीयुगमंजसा ॥

हासनिम्नाधरौ गंडौ चिबुकं सृक्किणी शुभे

॥२२॥

वहन्निदर्शनं देवो विश्वकर्मादिशिल्पिनाम् ॥

मकरास्यकर्णभूषाशोभिश्रुतियुगेन सः

॥२३॥

गुरुभार्गवयोर्मध्ये पूर्णचंद्रोपहासकः ॥

ग्रैवयशोभाजनककंठदेशेन पश्यताम्

॥२४॥

दक्षिणावर्त्तशंखस्य मुक्ताजन्माभिशंककृत् ॥

पीनायतस्कंधयुगजानुदीर्घचतुर्भुजः

॥२५॥

स्वच्छनिर्मलहारोपशोभकोरःस्थलो विभुः ॥

धत्ते चतुर्दशजगद्दिव्यकौस्तुभबिंबितम्

॥२६॥

निम्ननाभिह्रदाविष्टतनुरोमालिमंजुलः ॥

हारं त्रिवलिमध्येन स्थाणुत्वपरिणामकः

॥२७॥

सुरत्नमेखलादाम्ना किंकिणीमौक्तिकस्रजा ॥

जगल्लावण्यपुटके स्फिचौ देवस्य शोभतः

॥२८॥

जघनालंविमुक्तास्रक्पीतचैलोपशोभितम् ॥

जंघास्तंभयुगं मोक्षमांगल्यतोरणाश्रयम्

॥२९॥

वृत्तानुपूर्वजानुभ्यां मालया प्रपदीनया ॥

रत्नाढ्यवलयाभ्यां च शोभेते चरणौ विभोः

॥३०॥

हारकंकणकेयूर मुकुटाद्यैरलंकृतम् ॥

ज्ञानाहंकारकैश्वर्यशब्दब्रह्मणि केशवः

॥३१॥

चक्रपद्मगदाशंखपरिणामानि धारयन् ॥

सर्वाशाद्योतको देवो नीलाद्रेरुपरि स्थितः

॥३२॥

भक्त्या प्रणम्य दृष्ट्वा यं देहबंधात्प्रमुच्यते ॥

वामपार्श्वगता लक्ष्मीराश्लिष्टा पद्मपाणिना

॥३३॥

वल्लकीवादनपरा भगवन्मुखलोचना ॥

सर्वलावण्यवसतिः सर्वालंकारभूषिता

॥३४॥

तावपश्यं हि जगतः पितरावचलस्थितौ ॥

तूष्णींभूतौ स्मेरदृशाऽनुगृह्णंतौ च पश्यतः

॥३५॥

सजीवौ तावबुधं भो दीनानुग्रहकारणात् ॥

छत्रीभूतफणावृंदः शेषः पश्चादवस्थितः

॥३६॥

अग्रे व्यवस्थितं दृष्टं वपुर्बिभ्रत्सुदर्शनम् ॥

कृतांजलिपुटं तस्य पश्चाद्गरुडमास्थितम्

॥३७॥

एवमद्भुतरूपं तं दृष्ट्वा साक्षाच्छ्रियः पतिम् ॥

चेतोरज्जुभिराकृष्टमिव तत्रैव धावति

॥३८॥

अनेकजन्मसाहस्रैः सुकर्माण्यर्जितानि चेत् ॥

युगपत्परिपक्वानि यस्यासौ तं हि पश्यति

॥३९॥

तीर्थस्नानतपोदानदेवयज्ञव्रतैरपि ॥

नालमालोकितुं मर्त्यस्तादृशं पुरुषोत्तमम्

॥४०॥

ये नीलमूर्तिं विमलांबराभं ध्यायंति विष्णुं पुरुषोत्तमस्थम् ॥

ते क्षीणबंधाः प्रविशंति विष्णोः पुरं हि यत्प्राप्य न शोचतीह

॥४१॥

विद्याभिरष्टादशभिः प्रणीतं नानाविधं कर्मफलं नृणां यत् ॥

एकत्र तत्सर्वममुष्य विष्णोः संदर्शनस्यैति शतांशमानम्

॥४२॥

किमत्र वाच्यं त्वधिकं क्षितींद्र पुंसो मतिर्यावदुपैति कामान् ॥

लभेत नीलाद्रिपतिं प्रणम्य ततोऽधिकंक्षेत्रभुवो महिम्ना

॥४३॥

स एव दाता क्रतुभिः स यष्टा सत्यप्रवक्ता स तु धर्मशीलः ॥

सर्वैर्गुणैः सर्वभवैर्वरिष्ठो नीलाद्रिनाथः खलु येन दृष्टः

॥४४॥

तत्र ये सेवकाः संति माधवस्य जगत्पतेः ॥

तेभ्यः सकाशान्माहात्म्यमिदं ज्ञातं मया नृप

॥४५॥

तस्मिन्परंपरायातमादिसृष्टेः पुरातनम् ॥

प्रसिद्धमिदमाख्यानं श्रुत्वा तत्रागतो ह्यहम्

॥४६॥

त्वदाज्ञया तत्र गत्वा दृष्ट्वा श्रीपुरुषोत्तमम् ॥

निवेदितं ते राजेंद्र यथेच्छसि तथा कुरु

॥४७॥

इंद्रद्युम्न उवाच

आप्तवाक्याद्भगवतः श्रुत्वा रूपमघापहम् ॥

कृतकृत्योऽस्मि भगवन्दिव्यनिर्माल्यसंगमात्

॥४८॥

बहुजन्मस्वर्जितानि क्षीणानि दुरितानि मे ॥

अधिकारी त्वहं जातो दर्शने श्रीपतेरिह

॥४९॥

सर्वात्मनाहं यास्यामि राज्येन सुसमृद्धिना ॥

तत्रावासं करिष्यामि पुरदुर्गाणि चैव हि

॥५०॥

क्रतुना हयमेधेन यक्ष्ये प्रीत्यै मुरद्विषः ॥

शतोपचारैः श्रीनाथं पूजयिष्ये दिनेदिने

॥५१॥

व्रतोपवासनियमैः प्रीणयिष्ये जगद्गुरुम् ॥

वाक्यामृतेन संतप्तं यथा मामभिषेक्ष्यति

॥५२॥

दीनानुकंपी भगवान्साक्षान्नारायणो विभुः ॥

एवं स श्रद्धया भक्त्या संस्तुते यावदीश्वरम्

॥५३॥

नारदस्तत्र संप्राप्तो भुवनालोककौतुकी ॥

तमायांतमृषिं दृष्ट्वा वैष्णवाग्र्यं विधेः सुतम्

॥५४॥

आशशंस स्वकार्यस्य सिद्धिं नरपतिस्तदा ॥

उत्थाय सहसा विप्राः पाद्यार्घ्याचमनीयकैः ॥

वरासनस्थं प्रणतः प्रोवाचेदं कृतांजलिः

॥५५॥

इन्द्रद्युम्न उवाच

अद्य मे सफला यज्ञा दानमध्ययनं तपः

॥५६॥

यन्मे गृहं समागच्छद्द्वितीया ब्रह्मणस्तनुः ॥

कृतार्थो यद्यपि मुने आगमानुग्रहात्तव

॥५७॥

तथापि त्वत्प्रसादाय किमाज्ञां करवाणि ते ॥

किं प्रयोजनमुद्दिश्य भवनं मे पवित्रितम्

॥५८॥

जैमिनिरुवाच

तच्छ्रुत्वा नृपतेर्वाक्यं भक्तिप्रश्रयकोमलम् ॥

उवाच ब्रह्मणः पुत्रः स्मितपूर्वं महीपतिम्

॥५९॥

नारद उवाच

इंद्रद्युम्न नृपश्रेष्ठ विमलैस्त्वद्गुणोत्करैः ॥

प्रीणिता देवताः सिद्धा मुनयो ब्रह्मणा सह

॥६०॥

स्वप्रतिष्ठा पृथग्योग्या गुणा एकैकशस्तव ॥

ब्रह्मणः सदने स्थित्यै पर्याप्तास्तु समीहिताः

॥६१॥

अवतीर्णो नरं द्रष्टुं तिष्ठंतं बदराश्रमे ॥

तद्ध्यानावसरे ज्ञातो व्यवसायस्तवेदृशः

॥६२॥

साधु व्यवसितं राजन्याभूत्ते बुद्धिरीदृशी ॥

सहस्रजन्मस्वभ्यासाद्भक्तिर्भवति भूपते

॥६३॥

नीलाचलगुहावासे माधवे जगतां धवे ॥

पितामहो महाप्राज्ञो यमाराध्य जगत्पतिम्

॥६४॥

विनिर्ममे सृष्टिमिमां लेभे पैतामहं पदम् ॥

तदन्वयप्रसूतोऽसि युक्ता ते भक्तिरीदृशी

॥६५॥

चतुर्वर्गफला भक्तिर्विष्णौ नाल्पतपःफलम् ॥

अनाद्यविद्या सुदृढपञ्चक्लेशविवर्द्धिनी

॥६६॥

एकैवेयं विष्णुभक्तिस्तदुच्छेदाय जायते ॥

भवारण्ये प्रतिपदं दुःखसंकटसंकुले

॥६७॥

नराणां भ्रमतां विष्णुभक्तिरेका सुखप्रदा ॥

निरालये द्वंद्ववातप्रोद्यतेस्मिन्सुदुस्तरे

॥६८॥

निमग्नानां भवांभोधौ विष्णुभक्तिस्तरिः स्मृता ॥

आश्रित्यैकां भगवतीं विष्णुभक्तिं तु मातरम्

॥६९॥

सन्तः सन्तुष्टमनसो न तु शोचन्ति जातुचित् ॥

विष्णुभक्तिसुधापानसंहृष्टानां महात्मनाम्

॥७०॥

ब्राह्म्यं पदं स्वल्पलाभो भाजनानां विमुक्तये ॥

त्रिविधो योंऽहसा राशिः सुमहाञ्जन्मिनां नृप

॥७१॥

विष्णुभक्तिमहादाववह्नौ स शलभायते ॥

प्रयागगंगाप्रमुखतीर्थानि च तपांसि च

॥७२॥

अश्वमेधः क्रतुवरो दानानि सुमहांति च ॥

व्रतोपवासनियमाः सहस्राण्यर्जिता अपि

॥७३॥

समूह एषामेकत्र गुणितः कोटिकोटिभिः ॥

विष्णुभक्तेः सहस्रांशसमोऽसौ न हि कीर्तितः

॥७४॥

जैमिनिरुवाच

विष्णुभक्तेस्तु माहात्म्यं श्रुत्वा ब्रह्मर्षिणोदितम् ॥

विष्णुभक्तेः स्वरूपं हि ज्ञातुकामः क्षितीश्वरः

॥७५॥

नारदं पुनराहेदं वाक्यं सत्कारयुक्तिमान्

॥७६॥

इन्द्रद्युम्न उवाच

महिमा विष्णुभक्तेस्तु साधु प्रोक्तो महामुने ॥

तस्याः स्वरूप जिज्ञासा चिरान्मे हृदि वर्त्तते

॥७७॥

लक्षणं वर्णयेदानीं भक्तेर्वैष्णवपुंगव ॥

त्वदन्यो न हि वक्ता स्याद्विज्ञातो मे महीतले

॥७८॥

नारद उवाच

साधु राजंस्त्वया पृष्टं भक्तिलक्षणमुत्तमम् ॥

कथयिष्ये यथार्थं त्वां भक्तिभाजनमुत्तमम्

॥७९॥

अपात्रे न हि वाच्येयं नरेंऽधे मलिनांतरे ॥

शृणुष्वावहितो राजन्प्रोच्यमानां मयानघ

॥८०॥

सामान्यतो विशेषाच्च विष्णोर्भक्तिं सनातनीम् ॥

अत्यन्तसुखसंप्राप्तौ विच्छेदे दुःखसंततेः

॥८१॥

हेतुरेकोऽयमेवेति संश्रयाद्भक्तिरुच्यते ॥

त्रिधा सा गुणभेदेन तुरीया निर्गुणा मता

॥८२॥

कामक्रोधाभिभूतानां दृष्ट्वा यान्यं न पश्यताम् ॥

लब्धये चाभिचाराय भक्तिः स्यान्नृप तामसी

॥८३॥

यशसे चातिरिक्ताय परस्य स्पर्द्धयापि वा ॥

प्रसंगात्परलोकाय भक्तिः सा राजसी स्मृता

॥८४॥

आमुष्मिकं स्थिरतरं दृष्ट्वा भावान्विनश्वरान् ॥

पश्यताश्रमवर्णोक्तान्धर्मान्नैव जिहासता

॥८५॥

आत्मज्ञानाय या भक्तिः क्रियते सा तु सात्त्विकी ॥

जगच्चेदं जगन्नाथो नान्यं चापि च कारणम्

॥८६॥

अहं च न ततो भिन्नो मत्तोसौ न पृथक्स्थितः ॥

हीनं बहिरुपाधीनां प्रेमोत्कर्षेण भावनम्

॥८७॥

दुर्लभा भक्तिरैषा हि मुक्तयेऽद्वैतसंज्ञिता ॥

सात्त्विक्या ब्रह्मणः स्थानं राजस्या शक्रलोकताम्

॥८८॥

प्रयांति भुक्त्वा भोगान्हि तामस्या पितृलोकताम् ॥

पुनरागत्य भूर्लोकं भक्तिं तां वैपरीत्यतः

॥८९॥

तामसो राजसीं कुर्याद्राजसः सात्त्विकीं तथा ॥

सात्त्विको मुक्तिमाप्नोति कृत्वा चाद्वैतभावनाम्

॥९०॥

एकामपि समाश्रित्य क्रमान्मुक्तिपथं व्रजेत् ॥

विष्णुभक्तिविहीनस्य श्रौतस्मार्ताश्च याः क्रियाः

॥९१॥

प्रायश्चित्तादिकं तीर्थं यात्रा कृच्छ्रादिकं तपः ॥

कुले प्रसूतिः शिल्पानि सर्वं लौकिकभूषणम्

॥९२॥

कायक्लेशः फलं तेषां स्वैरिणी व्यभिचारवत् ॥

कुलाचारविहीनोऽपि दृढभक्तिर्जितेंद्रियः

॥९३॥

प्रशस्यः सर्वलोकानां न त्वष्टादशविद्यकः ॥

भक्तिहीनो नृपश्रेष्ठ सज्जातिर्द्धार्मिकस्तथा

॥९४॥

नाल्पभाग्यस्य पुंसो हि विष्णौ भक्तिः प्रजायते ॥

यां तु संपाद्य यत्नेन कृतकृत्यो न सीदति

॥९५॥

यया वेत्ति जगन्नाथं सा विद्या परिकीर्तिता ॥

येन प्रीणाति भगवांस्तत्कर्माशुभनाशनम्

॥९६॥

विष्णुभक्तश्च संप्रोक्तस्ताभ्यां युक्तो दृढव्रतः ॥

यत्पादपांसुना विश्वं पूयते सचराचरम्

॥९७॥

सृष्टिस्थितिविनाशानां स्वेच्छया प्रभवत्यसौ ॥

कि पुनः क्षुद्रकामानां भूमिस्वर्गादिसंपदाम्

॥९८॥

वासुदेवस्य भक्तस्य न भेदो विद्यतेऽनयोः ॥

वासुदेवस्य ये भक्तास्तेषां वक्ष्यामि लक्षणम्

॥९९॥

प्रशांतचित्ताः सर्वेषां सौम्याः कामजितेंद्रियाः ॥

कर्मणा मनसा वाचा परद्रोहमनिच्छवः

॥१००॥

दयार्द्रमनसो नित्यं स्तेयहिंसापराङ्मुखाः ॥

गुणेषु परकार्येषु पक्षपातमुदान्विताः

॥१॥

सदाचारावदाताश्च परोत्सवनिजोत्सवाः ॥

पश्यावः सर्वभूतस्थं वासुदेवममत्सराः

॥२॥

दीनानुकंपिनो नित्यं भृशं परहितैषिणः ॥

राजोपचारपूजायां लालनाः स्वकुमारवत्

॥३॥

कृष्णसर्पादिव भयं बाह्ये परिचरंति ते ॥

विषयेष्वविवेकानां या प्रीतिरुपजायते

॥४॥

वितन्वते तु तां प्रीतिं शतकोटिगुणां हरौ ॥

नित्यकर्तव्यताबुद्ध्या यजंतः शंकरादिकान्

॥५॥

विष्णुस्वरूपान्ध्यायंति भक्त्या पितृगणेष्वपि ॥

विष्णोरन्यं न पश्यंति विष्णुं नान्यत्पृथग्गतम्

॥६॥

पार्थक्यं न च पार्थक्यं समष्टिव्यष्टिरूपिणः ॥

जगन्नाथ तवास्मीति दासस्त्वं चास्मि नो पृथक्

॥७॥

अन्तर्यामी यदा देवः सर्वेषां हृदि संस्थितः ॥

सेव्यो वा सेवको वापि त्वत्तो नान्योऽस्ति कश्चन

॥८॥

इति भावनया कृतावधानाः प्रणमंतः सततं च कीर्त्तयंतः ॥

हरिमब्जजवन्द्यपादपद्मं प्रभजंतस्तृणवज्जगज्जनेषु

॥९॥

उपकृतिकुशला जगत्स्वजस्रं परकुशलानि निजानि मन्यमानाः ॥

अपि परपरिभावने दयार्द्राः शिवमनसः खलु वैष्णवाः प्रसिद्धाः

॥११०॥

दृषदि परधने च लोष्टखंडे परवनितासु च कूटशाल्मलीषु ॥

सखिरिपुसहजेषु बन्धुवर्गे सममतयः खलु वैष्णवाः प्रसिद्धाः

॥१३॥

हरिचरणसरोजयुग्मचित्ता जडिमधियः सुखदुःखसाम्यरूपाः ॥

अपचितिचतुरा हरौ निजात्मनतवचसः खलु वैष्णवाः प्रसिद्धाः

॥१४॥

रथचरणगदाब्जशंखमुद्राकृतितिलकांकितबाहुमूलमध्याः ॥

मुररिपुचरणप्रणामधूलीधृतकवचाः खलु वैष्णवा जयंति

॥१५॥

मुरजिदपधनापकृष्टगन्धोत्तमतुलसीदलमाल्यचंदनैर्ये ॥

वरयितुमिव मुक्तिमाप्तभूषाकृतिरुचिराः खलु वैष्णवा जयंति

॥१६॥

विगलितमदमानशुद्धचित्ताः प्रसभविनस्यदहंकृतिप्रशांताः ॥

नरहरिममराप्तबंधुमिष्ट्वा क्षयितशुचः खलु वैष्णवा जयंति

॥१७॥

भगवति सततं प्रभक्तिभाजां शुभचरितं तव लक्ष्म नोभ्यधायि ॥

श्रुतिपथभवतीर्णमाशु पुंसां हरति मलं चिरसंचितं यदेतत्

॥१६॥

न हि धनमपि मृग्यते कदाचिन्न खलु शरीरजखेदसंप्रयोगः ॥

मृदुलघुवचसाभिधानकीर्तिं भजनमहं तव दास्य एव चिंता

॥१९॥

शुभचरितमपि द्विषंति पुंसां स्वयमिह दुश्चरितानुबंधचित्ताः ॥

महदकुशलमप्यवाप्य सुस्था भगरसरसिका अवैष्णवास्ते ॥

परमसुखपदं हृदंबुजस्थं क्षणमपि नानुसज्जंति मत्तभावाः ॥

वितथवचनजालकैरजस्रं पिदधति नाम हरेरवैष्णवास्ते

॥२१॥

परयुवतिधनेषु नित्यलुब्धाः कृपणधियो निजकुक्षिभारपूर्णाः ॥

नियतपरमहत्त्वमन्यमाना नरपशवः खलु विष्णुभक्तिहीनाः

॥२२॥

अनवरतमनार्यसंगरक्ताः परपरिभावकहिंसकाऽतिरौद्राः ॥

नरहरिचरणस्मृतौ विरक्ता नरमलिनाः खलु दूरतो हि वर्ज्याः

॥१२३॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये जैमिनिऋषिसंवादे दशमोऽध्यायः ॥ १० ॥