मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — पुरुषोत्तमजगन्नाथमाहात्म्यम्, अध्याय २०

3
वैष्णवखण्डः · पुरुषोत्तमजगन्नाथमाहात्म्यम् · 20

इत्थं प्रबोधितस्तेन नारदेन क्षितीश्वरः

जैमिनिरुवाच

इत्थं प्रबोधितस्तेन नारदेन क्षितीश्वरः ॥

तुष्टाव जगतां नाथं वचोभिः करुणान्वितम्

॥१॥

इन्द्रद्युम्न उवाच

त्वदंघ्रिपाथोजयुगं मुरारे नोपासितं जन्मसु पूर्वजेषु ॥

तत्कर्मणां दारुणपाकभाजं दीनं परित्राहि कृपांबुधे माम्

॥२॥

क्व निर्मलं त्वच्चरणाब्जयुग्मं विरिंचिरुद्रेंद्रकिरीटमग्नम् ॥

क्वाहं कुदीनः शकृदस्रमांसमूत्रास्थिसंघैः पिहितस्त्वचा वै

॥३॥

असारसंसारपरिभ्रमेण श्रमातुरस्त्वां कथमीश जाने ॥

जानंति ते त्वां खलु देवदेव येषां भवो दुःखभवप्रकाशः

॥४॥

प्रभो मया दुःखमनेकजन्मपापार्जितं भुक्तमनेकभावम् ॥

शुभार्जितो यः सुखलेशभावो निदर्शनं यन्मधुपृक्ततिक्ते

॥५॥

यदेव सौख्यानुभवाय देव कर्मार्जितो मे विषयोपभोगः ॥

स एव दुःखं परिणामतो मे न मद्विधो दुःखिजनोऽस्ति चान्यः

॥६॥

विभो यदि त्वां मनसापि पूर्वमुपास्तमन्यद्विषमेक्षणोऽहम् ॥

कथं तदालप्स्यमनेकजन्म पुनः पुनर्भोग्यमशेषदुःखम्

॥७॥

विभुत्वदासत्वपितृत्वपुत्रप्रियत्वमातृत्वधनित्वभावैः ॥

वध्यत्वहिंस्रत्वपतित्वजायाभावैश्च तिर्यक्त्वसुरादिभावैः

॥८॥

नीचोर्द्धभावं बहुशः सकृद्वा भवांगणेऽस्मिँन्लुठतानुभूतम् ॥

न वा मुरारे तव पादपद्मदूरीभवस्येष्टफलं हि चैतत्

॥९॥

कोशं बलं चैतदशेषपृथिवीधनैर्वृतं यौवनरूपरूप्यः ॥

मनोऽनुकूलाः शतशः स्त्रियश्च निष्कंटकं मे नृपमंडलं च

॥१०॥

साम्राज्यता चापि भरो महान्मे त्वज्ज्ञानहीस्य पशोरिवायम् ॥

भारावतारं कुरु मे कृपाब्धे सदैव तत्रोदित खेदयोगः

॥११॥

दीनानुकंपिन्करिणो विमुक्तिः कृता विभो त्वत्स्मृतिमात्रकेण ॥

भ्रांतं घटीयंत्रवदत्र नाथ मां त्रातुमर्हस्यनुकंपिभावात्

॥१२॥

न मे त्वदन्यः खलु बन्धुरत्र प्रवाहविभ्रष्टतरुस्वभावे ॥

पापीयसी बुद्धिरुपेतभावा स्नेहानुबन्धा विषयेऽभिभेद्या

॥१३॥

अहर्निशं मे तव पादपद्मान्नापैतु मत्प्रार्थितमेतदेव ॥

त्वां सच्चिदानंदसुपूर्णसिंधुं प्राप्तास्तु ये जन्मसहस्रभाग्यैः

॥१४॥

किं ते हि पश्यंति लवैकसौख्यमनेकदुःखं विषयेन्द्रजालम् ॥

क्व बन्धनं कर्मभिरिष्टलेशदुःखाकरग्रंथिशतैरभेद्यम्

॥१५॥

अनंतमाद्यंतविहीनमेकमानंददं त्वत्पदपंकजं क्व ॥

मायांबुधौ ते ममता भ्रमौ च कुकर्मनक्रायितगर्तमध्ये

॥१६॥

निराश्रयं मे पतितं विलासकटाक्षपातेन नयाद्य तीरम् ॥

स्वकार्यसंसाधनयाश्रितानां संपादनायेष्टविधेरजस्रम्

॥१७॥

भ्राम्यंतमात्मीयहितं विसृज्य मां त्राहि मूढं सहजानुकंपिन् ॥

क्षुद्राय कार्याय बहु भ्रमंतमप्राप्य मूलं परमेश्वरं त्वाम्

॥१८॥

ओं आयासपात्रं परमं सुदीनं मां त्राहि विष्णो जगदेकवंद्य ॥

वेदांतवेद्याव्यय विश्वनाथ तत्वमीशिषे हंतुमघौघराशीन्

॥१९॥

तं त्वां परित्यज्य सुखैकहेतुं क्षुद्राशयं मां परिपाहि विष्णो ॥

प्रसुप्त एषोऽखिलभूतसंघश्चतुर्विधो यत्कृतमोहरात्रौ

॥२०॥

त्वज्ञानभानूदयमेत्य चांते प्रबोध्यते त्वां शरणं प्रपद्ये ॥

त्वमेक एवाखिललोककर्त्ता फणासहस्रैः परिवीतमूर्तिः

॥२१॥

पर्यायवृत्त्या बलिनां वरिष्ठ त्वामिशितारं शरणं प्रपद्ये ॥

यया सृजस्यत्सि जगंति नाथ वक्षःसरोजासनया स्वशक्त्या ॥

२२ !।

तां भद्ररूपां जगदाश्रयां ते देवारणिं पादयुगे नतोऽस्मि ॥

यदंशुजालप्रतिसृष्टमेतद्ब्रह्मांडजालं करसंगि नाथ

॥२३॥

सुदर्शनं दैत्यबलस्य हंतृ चक्राभिधं त्वां प्रणतः सुदर्शनम् ॥

स्तुत्वेत्थं नृपतिश्रेष्ठः साष्टांग प्रणनाम सः

॥२४॥

परित्राहि जगन्नाथ मग्नं संसारसागरे ॥

अनाथबन्धो कृपया दीनं मां तमसाकुलम्

॥२५॥

नारद उवाच

जय जय नारायण अपारभवसागरोत्तारपरायण सनकसनंदनसनातनप्रभृति योगिवरविचिंत्यमानदिव्यतत्त्व स्वमायाविलसिताध्यासपरिण मिताशेषभूततत्त्व त्रितत्त्व त्रिदण्डधर त्रिणाचिकेतत्रिमधुत्रिसुपर्णोपगीयमानदिव्यज्ञान च्छन्दोमय स्वासनसुपर्णप्रिय भक्तप्रिय भक्तजनैकवत्सल स्वमायाजालव्यवहितस्वरूप विश्वरूप विश्वप्रकाश विश्वतोमुख विश्वतोक्षि विश्वतःश्रवण विश्वतःपादशिरोग्रीव विश्वहस्तनासारसनात्वक्केशलोमलिंग सर्वलोकात्मक सर्वलोकसुखावह सर्वलोकोपकारक सर्वलोकनमस्कृत लीलाविलसितकोटिपद्मोद्भव रुद्रेंद्रमरुदश्विसाध्यसिद्धगणप्रणताशेषसुरासुरत्रिभुवनगुरो न कस्यापि ज्ञानगोचर नमस्ते नमस्ते

॥२६॥

जैमिनिरुवाच

अन्ये च ये नृपतयः श्रोत्रिया वेदपारगाः ॥

मुनयो द्विजाः क्षत्रियाश्च विद्वांसो वैश्यजातयः

॥२७॥

अस्तुवन्पुण्डरीकाक्षं बलिनं भद्रया सह ॥

सूक्तैः स्तोत्रैः पुराणैश्च कविताभिर्यथा तथा

॥२८॥

अथेंद्रद्युम्नः प्रोवाच पुरोधसमकल्मषम् ॥

पूजार्थं वासुदेवस्य उपचारोपसंस्कृतम्

॥२९॥

स्वयं स नृपतिश्रेष्ठः पूजयामास तान्क्रमात् ॥

नारदस्योपदेशेन विधिना मंत्रतस्तथा

॥३०॥

द्वादशाक्षरमंत्रेण बलभद्रमपूजयत् ॥

यमुपास्य ध्रुवः स्थानं प्राप्तवानुत्तमोत्तमम्

॥३१॥

त्रयीप्रसिद्धं यत्सूक्तं पावनं पौरुषं महत् ॥

तेन नारायणं भूपः पूजयामास शक्तितः

॥३२॥

देव्याः सूक्तेन भद्रां तां सौदर्शन्या सुदर्शनम् ॥

यथासमृद्धि भक्त्या तान्पूजयित्वा नृपोत्तमः

॥३३॥

तत्प्रीत्यै द्विजमुख्येभ्यो ददौ दानानि भक्तितः ॥

तुलापुरुषदानानि महादानानि पार्थिवः

॥३४॥

अश्वमेधांगभूताश्च कोटिशो गा ददौ तदा ॥

अलंकृतास्तथान्याश्च ददौ गा बहुदक्षिणाः

॥३५॥

तासां खुरोद्धृतेर्योगाद्गर्तोभूद्द्विजसत्तमाः ॥

दानांबुना स पूर्णो वै तीर्थमासीन्महाफलम्

॥३६॥

तस्मिन्स्नात्वा पितॄन्देवान्संतर्प्य विधिवन्नरः ॥

अश्वमेधसहस्रस्य फलमाप्नोत्यसंशयः

॥३७॥

नाम्ना ख्यातं सरस्तस्य इन्द्रद्युम्नस्य भूपतेः ॥

निर्वपत्यत्र पिंडांश्च पितॄनुद्दिश्य मानवः

॥३८॥

कुलैकविंशमुद्धत्य ब्रह्मलोके महीयते ॥

नातः परतरं तीर्थं हयमेधांगसंभवात्

॥३९॥

इन्द्रद्युम्नस्य सरसः स्याद्वा त्रिपथगा समा ॥

ततः प्रासादघटनामुपचक्राम भूपतिः

॥४०॥

शुभे काले सुनक्षत्रे दैवज्ञविधिचोदिते ॥

समुहूर्ते नारदादीन्ब्राह्मणाग्र्यान्प्रपूज्य च

॥४१॥

स्वस्तिवाचं च कर्मर्द्धिं वाचयित्वा नृपोत्तमः ॥

अर्घ्यं ददौ जगन्नाथं स्मरन्प्रासादवेश्मनि

॥४२॥

वसुधां प्रार्थयित्वा तु स्थानमाचंद्रतारकम् ॥

शिल्पिनः पूजयामास वास्तुयागपुरःसरम्

॥४३॥

महोत्सवं तथा चक्रे गीतवाद्यैः प्रभूतकैः ॥

दीनानाथविपन्नेभ्यो ददौ वस्तु यथेप्सितम्

॥४४॥

राज्ञो विसर्जयामास बहुमानपुरःसरम् ॥

कृतार्थानवतारं तं हरेर्दृष्ट्वा हतांहसः

॥४५॥

ततः स कोटिशो वित्तं ददौ पाषाणदारके ॥

आहृतौ बहुदेशेभ्यो दृषदां पार्थिवोत्तमः

॥४६॥

उवाचेदं मुदा युक्तः सभायां पृथिवीधरः ॥

अष्टादशभ्यो द्वीपेभ्यो यन्मया पौरुषार्जितम्

॥४७॥

तत्सर्वं जगदीशस्य प्रासादायापवर्जितम् ॥

जैत्रयात्राप्रसंगेन श्रमो लब्धस्तु यो मया

॥४८॥

सफलोऽस्तु स मे विष्णोः प्रासादायार्थयोगतः ॥

अतः परं मे किं भाग्यं चराचरगुरुं हरिम्

॥४९॥

प्रसादयिष्ये संपत्त्या भुजद्वंद्वार्जितश्रिया ॥

श्रीः सदा पुण्डरीकाक्षे श्रियोनुग्रहजा मम

॥५०॥

किं कर्तुमीशस्तस्यां वै देवदेवस्य चक्रिणः ॥

कटाक्षपातो यस्य स्यात्तस्य श्रीः सर्वतोमुखी

॥५१॥

अष्टादशात्मिका देवी जिह्वाग्रे चास्य नृत्यति ॥

यमाराध्य जगन्नाथं ब्रह्मत्वं प्राप्तवान्विधिः

॥५२॥

रुद्रो महेश्वरत्वं च शक्रस्त्रिदिवराजताम् ॥

लेभे तमर्च्य जगतामर्चयिष्यामि शाश्वतम्

॥५३॥

जितं तेन त्रिधा राशीभूतमंहो महात्मना ॥

सांगोपांगेन विधिना येन कृष्णः समर्चितः

॥५४॥

कलेवरमिदं क्षेत्रं यत्राहंकारवान्विभुः ॥

आविर्भावतिरोभावौ स्थितिर्नित्या हि यत्प्रभुः

॥५५॥

अत्र साक्षाद्वपुष्मन्तं संपूज्य जगतां गुरुम् ॥

साक्षात्कृतार्थो भवति चतुर्वर्गस्य भाजनम्

॥५६॥

बहुव्ययाऽऽयासतो या राज्यऋद्धिर्मयार्जिता ॥

अस्यैवानुग्रहात्सा तु सफलास्तु पदांबुजे

॥५७॥

सर्वोपचारैः परिपूज्य देवं द्रव्यैर्हृतैः सागरमेखलायाः ॥

यावत्समाप्नोति हि कर्मपाकः साम्राज्ययात्रा सफला हि मास्तु

॥५८॥

किं द्रव्यजातं खलु येन विष्णुं नोपाहरेत्सांगमपेतकल्मषः ॥

किं पौरुषेयं यदि वासुदेवपरिच्छदो येन न साधितो मे

॥५९॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये जैमिनि ऋषिसंवादे विंशोऽध्यायः ॥ २० ॥