मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — पुरुषोत्तमजगन्नाथमाहात्म्यम्, अध्याय १४

3
वैष्णवखण्डः · पुरुषोत्तमजगन्नाथमाहात्म्यम् · 14

रथमारुह्य तौ यातौ यदा नारदपार्थिवौ

मुनय ऊचुः

रथमारुह्य तौ यातौ यदा नारदपार्थिवौ ॥

क्व यातौ चक्रतुः किं वा तन्नो वद महामुने

॥१॥

जैमिनिरुवाच

सार्द्धं च विद्यापतिना पुरोहितकनीयसा ॥

क्षेत्रांते नीलकण्ठस्य समीपमुपजग्मतुः

॥२॥

दुर्निमित्तमभून्मार्गे व्रजतोऽस्य महीक्षितः ॥

वामाक्षिभुजयोः स्पन्दः स्फुरणं च मुहुर्मुहुः

॥३॥

तद्दृष्ट्वा नृपशार्दूलो विषादमुपसेदिवान् ॥

पप्रच्छ कारणं चास्य सर्वज्ञाननिधिं मुनिम्

॥४॥

अव्याहतं मे साम्राज्यं प्राप्तं क्षेत्रोत्तमं त्विदम् ॥

दर्शनार्थं माधवस्य यात्रेयं तु शुभावहा

॥५॥

अकार्यं मे भवेदद्य किं मुने ब्रूहि तत्त्वतः ॥

स्पन्दते वामनेत्रं तु स्फुरते च भुजोऽसकृत्

॥६॥

तच्छ्रुत्वा नारदः प्राह भावि कार्यं च सूचयन् ॥

श्रावयन्कुशलं वाक्यं यदुक्तं पद्मयोनिना

॥७॥

नारद उवाच

मा भूद्विषादस्ते भूप सविघ्नं प्रायशः शुभम् ॥

विघ्नांते च शुभं पुंसां पुनर्भाग्यवतां नृप

॥८॥

सत्यं त्वं सार्वभौमोऽसि क्षेत्रं विष्णोर्वपुस्त्विदम् ॥

यात्रा तेऽत्र यदर्थेयं सोzऽतर्द्धानमुपागमत्

॥९॥

एष विद्यापतिर्विप्रो दिने यस्मिन्ददर्श तम् ॥

सायंकाले ततोऽन्येद्युः स्वर्णवालुकया वृतः ॥

ययौ पातालनिलयं मर्त्यलोके सुदुर्लभः

॥१०॥

जैमिनिरुवाच

तच्छ्रुत्वा घोरवचनं वव्रपातसमं नृपः ॥

पपात धरणीपृष्ठे निःसंज्ञः स द्विजोत्तमाः

॥११॥

तं तथा पतितं दृष्ट्वा पुरोहितपुरोगमाः ॥

स्निग्धाः सखायः सर्वे ते हाहाकारमुपाद्रवन्

॥१२॥

कर्पूरशीतलं वारि मुखे सिक्त्वा पुनःपुनः ॥

चन्दनागुरुकर्पूरैः सर्वांगं लिलिपुश्च ते

॥१३॥

चामरैस्तालवृंतैश्च वीजयामासुराशु तम् ॥

नारदोऽपि च संभ्रांतो धारयन्योगधारणाम्

॥१४॥

प्राणानररक्षन्नरपतेर्जानंस्तत्र शुभायतिम् ॥

सोऽपि राजा चिरात्संज्ञां लेभे यत्नैरनुत्तमैः

॥१५॥

उत्थाय पादयोर्विप्रा नारदस्यापतत्पुनः ॥

किमकार्षं मुने पापं कस्मिञ्जन्मांतरे दृढम्

॥१६॥

यस्य पाकदशायां वै दुःखमासीत्सुदारुणम् ॥

कर्मणा मनसा वाचा नो द्विजानां गवामपि ॥

अपराधः कृतः कश्चित्स्वप्नेऽपि मुनिपुंगव

॥१७॥

नित्यं नैमित्तिकं काम्यं कर्म यत्परिकीर्तितम् ॥

राज्ञस्तन्मुनिशार्दूल न त्यक्तं वै मया क्वचित्

॥१८॥

देवतातिथिभृत्यानां पितॄणां च महामुने ॥

तथाश्रितानां बंधूनां नापमानः कृतो मया

॥१९॥

पंचाशदपराधा ये विष्णोर्वैष्णवपुंगव ॥

त्यक्ताः प्रयत्नात्ते सर्वे क्रुद्धा इव महोरगाः

॥२०॥

किं भाग्यं चरितं तेन पुरोहितकनीयसा ॥

यच्चर्मचक्षुषा दृष्टो भगवान्नीलमाधवः

॥२१॥

किमर्थं राज्यविभ्रंशो जानतैष न्वया कृतः ॥

यात्रासमय एवैतत्कथं वा न प्रकीर्तितम्

॥२२॥

किमर्थं वा श्रोत्रियाणां स्थानभ्रंशो मया कृतः ॥

कथमेतैः परित्यक्ताश्चिरात्संस्कृतभूमयः

॥२३॥

आवंशभूतेर्वृत्तिर्या प्रजाभिः परिपालिता ॥

मदर्थं सा परित्यक्ता जीविष्यंति कथं नु ताः

॥२४॥

प्राणान्न धारयिष्यामि न द्रक्ष्यामि यदा हरिम् ॥

एष मे निश्चयो ब्रह्मन्मयि नष्टे कुतः प्रजाः

॥२५॥

मुने सदा सकरुणस्त्वं मां शास्ति शुभाशुभम् ॥

सांप्रतं मत्सुतं नीत्वा मालवेष्वभिषेचय

॥२६॥

स पालयतु न्यायेन न शोचंतु इमाः प्रजाः ॥

राजानो ये समायातास्ते सर्वं मन्निदेशतः

॥२७॥

मत्सूनोर्मालवेशस्य प्रयांतु वचने स्थिताः ॥

प्रायोपवेशविधिना चिंतयन्नीलमाधवम्

॥२८॥

आयुःशेषं करिष्यामि सफलं क्षेत्रसंस्थितः

॥२९॥

जैमिनिरुवाच

विलपंतमिन्द्रुम्नं राजानं ब्रह्मणः सुतः ॥

उत्थाप्य प्रश्रयगिरा सांत्वयन्निदमब्रवीत्

॥३०॥

नारद उवाच

राजन्पंडितमूर्द्धन्यो वैष्णवो धैयसागरः ॥

श्रेयः सविघ्नं सततं कथं वा नावधारयेः

॥३१॥

इदं तु परमं श्रेयः पुंसो जन्मशतार्जितम् ॥

शरीरधारिणं पश्येच्चर्मचक्षुर्गदाधरम्

॥३२॥

निरंकुशा हरेर्लीला केन वाप्यवधार्यते ॥

जीवन्मुक्तोऽप्यहं राजंस्तल्लीलां नातिवर्तये

॥३३॥

कियता वंचितो नाहं दृढभक्तोऽन्तिकस्थितः ॥

दुरत्यया तस्य माया बहुजन्मशतैरपि

॥३४॥

अनन्ता तस्य मायेयं दुर्ज्ञेया पद्मयोनिना ॥

नाभिपद्मास्थितेनापि नित्यं च स्तुतिशालिना

॥३५॥

स्वभाव एवं कथितस्तस्य मायाविनो नृप ॥

विशेषं कथयाम्येवं त्वं तु भाग्यवतां वरः

॥३६॥

तिस्रोऽपि मूर्तयस्तस्य त्वदनुग्रहबुद्धयः ॥

चराचराणां स्रष्टा यः साक्षाल्लोकपितामहः ॥

मामुवाच व्रजाशु त्वमिंद्रद्युम्नस्य चांतिकम्

॥३७॥

नीलाचलं प्रयात्येष दिदृक्षुर्नीलमाधवम् ॥

अन्तर्द्धानं गतो ह्येष यमेन प्रार्थितो विभुः

॥३८॥

न तत्र शोकः कर्तव्यः शक्यते तत्र नान्यथा ॥

वाच्यो मद्वचनाद्राजा पंचमी मम संततिः

॥३९॥

तत्कृते परमात्मानं प्रसाद्य पुरुषोत्तमम् ॥

श्वेतद्वीपान्नयिष्यामि सहस्रांते महाक्रतोः

॥४०॥

इन्द्रद्युम्नः स इदानीं क्षेत्रे श्रीपुरुषोत्तमे ॥

अश्वमेधसहस्रैस्तु यजन्विष्णुं स तिष्ठतु

॥४१॥

तदंते दारवतनुं विष्णुं द्रक्ष्यति चक्षुषा ॥

सोऽवतारो हरेः ख्यातिं तस्य द्वारा गमिष्यति

॥४२॥

तदा तु तनवो विष्णोः प्रतिष्ठप्या मया धुवम् ॥

पुरा स्म मणिमूर्तिस्तु चतुर्द्धावस्थितो हरिः

॥४३॥

दृष्ट्वा पुरोधसा तस्य साक्षादग्रे निवेदितः ॥

दिव्यदारुवपुर्भूयश्चतुर्द्धावतरिष्यति

॥४४॥

तस्मान्मा व्यथ राजेंद्र वांछा ते सफला ध्रुवम् ॥

भविष्यति न संदेहो निर्व्यलीको वसेह वै

॥४५॥

जैमिनिरुवाच

सांत्वयित्वा निनायेत्थं राजानं नारदस्तदा ॥

विश्वासपदवीं विप्राः पुनर्वाक्यमुवाच ह

॥४६॥

नारद उवाच

शंखाकृतेः क्षेत्रवरस्य चाग्रे यो नीलकण्ठः खलु दुर्गयाऽऽस्ते ॥

यामो वयं तत्र च वाजिमेधक्रतूपयोग्या सुसमा स्थली सा

॥४७॥

तस्यां विनिर्माय सहस्रवर्षस्थिरां सुशालां हयमेधनाय ॥

नीलाद्रिवासस्य नृसिंहमूर्तिं दृष्ट्वा कृतार्थं विरचय्य जन्म

॥४८॥

तस्यैव मूर्तिं प्रतियातनां ते नित्यार्चनीयां तव पूजनीयाम् ॥

प्रत्यक्प्रतिष्ठाप्य समस्तविघ्नविनाशहेतोः फलबृंहणाय

॥४९॥

आरप्स्यामः क्रतुवरं मुनिवर्यैर्यथोचितम् ॥

विलम्बोऽत्र न हि श्रेयानिति पैतामहं वचः

॥५०॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये जैमिनिऋषिसंवादे चतुर्दशोऽध्यायः ॥ १४ ॥