नारायणं नमस्कृत्य नरं चैव नरोत्तमम्
अथ श्रीस्कांदे महापुराणे द्वितीये वैष्णवखंडे पुरुषोत्तम (जगन्नाथ) क्षेत्र- माहात्म्य प्रारंभः ॥
( २-२) ॥
श्रीगणेशाय नमः ॥
अथ पुरुषोत्तम (जगन्नाथ) क्षेत्रमाहात्म्य प्रारम्भः ॥
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ॥
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत्
॥१॥मुनय ऊचुः
भगवन्सर्वशास्त्रज्ञ सर्वतीर्थमहत्त्ववित् ॥
कथितं यत्त्वया पूर्वं प्रस्तुते तीर्थकीर्तने ॥
पुरुषोत्तमाख्यं सुमहत्क्षेत्रं परमपावनम्
॥२॥यत्रास्ते दारवतनुः श्रीशो मानुषलीलया ॥
दर्शनान्मुक्तिदः साक्षात्सर्वतीर्थफलप्रदः
॥३॥तन्नो विस्तरतो ब्रूहि तत्क्षेत्रं केन निर्मितम् ॥
ज्योतिःप्रकाशो भगवान्साक्षान्नारायणः प्रभुः
॥४॥कथं दारुमयस्तस्मिन्नास्ते परमपूरुषः ॥
वद त्वं वदतां श्रेष्ठ सर्वलोकगुरो मुने
॥५॥श्रोतुमिच्छामहे ब्रह्मन्परं कौतूहलं हि नः ॥
जैमिनिरुवाच ॥
शृणुध्वं मुनयः सर्वे रहस्यं परमं हि तत्
॥६॥अवैष्णवानां श्रवणे भक्तिस्तव न जायते ॥
यस्य संकीर्तनादेव सकलं लीयते तमः
॥७॥यद्यप्येष जगन्नाथः सर्वगः सर्वभावनः ॥
स्कन्देन कथितं पूर्वं श्रुत्वा शंभोर्मुखाम्बुजात् ॥
संति क्षेत्राणि चान्यानि सर्वपापहराणि वै
॥८॥एतत्क्षेत्रं परं चास्य वपुर्भूतं महात्मनः ॥
स्वयं वपुष्मांस्तत्रास्ते स्वनाम्ना ख्यापितं हि तत्
॥९॥तत्र ये स्थातुमिच्छंति तेपि सर्वे हतांहसः ॥
किं पुनस्तव तिष्ठंतो ये पश्यन्ति गदाधरम्
॥१०॥अहो तत्परमं क्षेत्रं विस्तृतं दशयोजनम् ॥
तीर्थराजस्य सलिलादुत्थितं वालुकाचितम्
॥११॥नीलाचलेन महता मध्यस्थेन विराजितम् ॥
एकस्तनमिव पृथ्व्याः सुदूरात्परिभावितम्
॥१२॥वराहरूपिणा पूर्वं समुद्धृत्य वसुन्धराम् ॥
सर्वतः सुसमां कृत्वा पर्वतैः सुस्थिरीकृताम्
॥१३॥सृष्ट्वा चराचरं सर्वं तीर्थानि सरिदब्धिकान् ॥
क्षेत्राणि च यथास्थानं संनिवेश्य यथा पुरा
॥१४॥ब्रह्मा विचिन्तयामास सृष्टिभारनिपीडितः ॥
पुनरेतां क्रियां गुर्वीं नारभेय कथं त्विति
॥१५॥तापत्रयाभिभूता हि मुच्यंते जंतवः कथम् ॥
एवं चिन्तयमानस्य मतिरासीत्प्रजापतेः
॥१६॥मुक्त्येककारणं विष्णुं स्तोष्ये ऽहं परमेश्वरम् ॥
ब्रह्मोवाच ॥
नमस्ते जगदाधार शङ्खचक्रगदाधर
॥१७॥यन्नाभिपंकजादेव जातोऽहं विश्वसृष्टिकृत् ॥
परमार्थस्वरूपं ते त्वं वै वेत्सि जगन्मय
॥१८॥यन्मायया जगत्सर्वं निर्मितं महदादिकम् ॥
यन्निःश्वाससमुद्भूतं शब्दब्रह्म त्रिधाऽभवत्
॥१९॥उपजीव्य तदेवाहमसृजं भुवनानि वै ॥
त्वत्तो नान्यः स्थूलसूक्ष्मदीर्घह्रस्वादि किंचन
॥२०॥विकारभेदैर्भगवंस्त्वमेवेदं चराचरम् ॥
कटकादि यथा स्वर्णं गुणत्रयविभागशः
॥२१॥स्रष्टा सृज्यं त्वमेवात्र पोष्टा पोष्यं जगत्प्रभो ॥
आधारो ध्रियमाणं च धर्त्ता त्वं परमेश्वर
॥२२॥त्वत्प्रेरितमतिः सर्वश्चरते च शुभाऽशुभम् ॥
ततः प्राप्नोति सदृशीं त्वयैव विहितां गतिम्
॥२३॥जगतोऽस्य गतिर्भर्त्ता साक्षी त्वं परमेश्वर ॥
चराचरगुरो सर्वजीवभूत कृपामय ॥
प्रसीदाद्य जगन्नाथ नित्यं त्वच्छरण्यस्य मे
॥२४॥जैमिनिरुवाच
एवं संस्तूयमानश्च ब्रह्मणा गरुडध्वजः ॥
नीलजीमूतसंकाशः शंखचक्रादिचिह्नितः
॥२५॥पतगेंद्रसमारूढः स्फुरद्वदनपंकजः ॥
आविरासीद्द्विजश्रेष्ठा विवक्षुः स्फुरिताधरः
॥२६॥श्रीभगवानुवाच
यदर्थं मां स्तुषे ब्रह्मन्न शक्यः प्रतिभाति सः
॥२७॥अनाद्यविद्या सुदृढा सुश्छेद्या कर्मबंधनैः ॥
प्रभवंत्यां कथं तस्यां ह्रीयेते मृतिजन्मनी
॥२८॥तथापि चेदत्र कृते व्यवसायस्तवानघ ॥
क्रमेण येन हि भवेत्तत्ते वक्ष्यामि कारणम्
॥२९॥अहं त्वं त्वमहं ब्रह्मन्मन्मयं चाखिलं जगत् ॥
चिस्ते यत्र मे तत्र नान्यथेति विचारय
॥३०॥सागरस्योत्तरे तीरे महानद्यास्तु दक्षिणे ॥
स प्रदेशः पृथिव्यां हि सर्वतीर्थफलप्रदः
॥३१॥तत्र ये मनुजा ब्रह्मन्निवसंति सुबुद्धयः ॥
जन्मांतरकृतानां च पुण्यानां फलभागिनः
॥३२॥नाल्पपुण्याः प्रजायंते नाभक्ता मयि पद्मज ॥
एकाम्रकाननाद्यावद्दक्षिणोदधितीरभूः
॥३३॥पदात्पदाच्छ्रेष्ठतमः क्रमात्परमपावनः ॥
सिन्धुतीरं तु यो बह्मन्राजते नीलपर्वतः
॥३४॥पृथिव्यां गोपितं स्थानं तव चापि सुदुर्लभम् ॥
सुरासुराणां दुर्ज्ञेयं माययाछादितं मम
॥३५॥सर्वसंगपरित्यक्तस्तत्र तिष्ठामि देहभृत् ॥
क्षराक्षरावतिक्रम्य वर्त्तेऽहं पुरुषोत्तमे
॥३६॥सृष्ट्या लयेन नाक्रान्तं क्षेत्रं मे पुरुषोत्तमम् ॥
यथा मां पश्यसि ब्रह्मन्रूपं चक्रादिचिह्नितम्
॥३७॥ईदृशं तत्र गत्वैव द्रक्ष्यसे मां पितामह ॥
नीलाद्रेरंतरभुवि कल्पन्यग्रोधमूलतः
॥३८॥वारुण्यां दिशि यत्कुण्डं रौहिणं नाम विश्रुतम् ॥
तत्तीरे निवसन्तं मां पश्यन्तश्चर्मचक्षुषा
॥३९॥तदम्भसा क्षीणपापा मम सायुज्यमाप्नुयुः ॥
तत्र व्रज महाभाग दृष्ट्वा मां ध्यायतस्तव
॥४०॥प्रकाशं यास्यते तस्य क्षेत्रस्य महिमाऽपरः ॥
आश्चर्यभूतः परमस्तवापि च भविष्यति
॥४१॥श्रुतिस्मृतीहासपुराणगोपितं मन्मायया तन्न हि कस्य गोचरम् ॥
प्रसादतो मे स्तुवतस्तवाधुना प्रकाशमायास्यति सर्वगोचरम्
॥४२॥व्रतेषु तीर्थेषु च यज्ञदानयोः पुण्यं यदुक्तं विमलात्मनां हि तत् ॥
अहर्निवासाल्लभतेऽत्र सर्वं निःश्वास वासात्खलु चाश्वमेधिकम्
॥४३॥इत्यादिश्य विधिं विप्रास्तदासौ पुरुषोत्तमः ॥
पश्यतस्तस्य तत्रैव प्रभुरन्तरधीयत
॥४४॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये जैमिनिऋषिसंवादे प्रथमोऽध्यायः ॥ १ ॥