मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — वेङ्कटाचलमाहात्म्यम्, अध्याय ४०

3
वैष्णवखण्डः · वेङ्कटाचलमाहात्म्यम् · 40

स्नानकालनिर्णयादिवर्णनम्

अथ व्यासप्रोक्ताकाशगंगास्नानकालनिर्णयः ॥

श्रीसूत उवाच ॥

अंजनापि वरं लब्ध्वा भर्त्रा साकं मुमोद ह ॥

ब्रह्मादीनागतान्दृष्ट्वा विस्मयाविष्टमानसा

॥१॥

पत्या साकं ततः स्वस्था चांजना मंजुभाषिणी ॥

ब्रह्मादिभिरनुज्ञातो व्यासो वेदविदां वरः

॥२॥

अञ्जना तामुवाचेदं मेघगम्भीरया गिरा

॥३॥

व्यास उवाच

अञ्जने शृणु मद्वाक्यं सर्वलोकोपकारकम् ॥

मतङ्गस्य ऋषेर्वाक्यं श्रुत्वा निर्मलचेतसा

॥४॥

यस्मात्तु वेंकटं गत्वा तपः कृत्वा सुदुष्करम् ॥

प्रसूयते त्वया पुत्रः शूरस्त्रैलोक्यविक्रमः

॥५॥

इदं तीर्थोत्तमं तस्मात्प्रत्यक्षदिवसे तव ॥

गंगाद्यानि च तीर्थानि समायांति जगत्त्रये

॥६॥

वेंकटाद्रिसमं तीर्थं ब्रह्माण्डे नास्ति किञ्चन ॥

तत्राप्यत्यन्तपुण्या वै स्वामिपुष्करिणी शुभा

॥७॥

ततोऽधिकमिदं तीर्थं प्रत्यक्षं दिवसे तव ॥

स्नानार्थं ये समायांति चित्राऋक्षसमन्विते

॥८॥

मेषं पूषणि संप्राप्ते पूर्णिमायां शुभे दिने ॥

शृणु तेषां फलं देवि वक्ष्यामि तव सुव्रते

॥९॥

गंगादिसर्वतीर्थेषु द्वादशाब्दं वरानने ॥

यत्फलं विद्यते देवि तत्फलं भवति धुवम्

॥१०॥

दानानि कुर्वतां पुंसां तेषां शृणु फलोन्नतिम् ॥

स्थाने तूक्तं फलं देवि विद्धि तेषां वरानने

॥११॥

अञ्जनोवाच

कार्याणि यानि दानानि वेंकटाद्रौ नगोत्तमे ॥

तानि सर्वाणि विप्रेन्द्र वद वेदविदां वर

॥१२॥

अथ व्यासप्रोक्तश्रीवेंकटाचलकरणीयदानप्रशंसा ॥

व्यास उवाच ॥

अन्नदानं वस्त्रदानं द्वयमेतत्प्रशस्यते ॥

पितुः श्राद्धं विशेषेण वेंकटाद्रौ नगोत्तमे

॥१३॥

सुवर्णं ये प्रयच्छन्ति प्रीतये मधुघातिनः ॥

सर्वलोकं समासाद्य मोदन्ते मुनिसत्तमाः

॥१४॥

शालग्रामशिलादानं ये कुर्वन्ति नगोत्तमे ॥

अंगभंगमवाप्नोति स्वानुभूतिं च विन्दति

॥१५॥

यो ददाति द्विजेन्द्राय गोदानं च कुटुम्बिने ॥

रोमसंख्याप्रमाणेन विष्णुलोके विराजते

॥१६॥

भूमिं ददाति यो देवि ब्राह्मणाय कुटुम्बिने ॥

तस्याश्च पुण्यफलं वक्तुं कः शक्तो दिवि वा भुवि

॥१७॥

कन्यां ददाति यो देवि श्रोत्रियाय द्विजातये ॥

विष्णुलोकं समासाद्य मोदते पितृभिः सह

॥१८॥

प्रपां कुर्वन्ति ये देवि शीतलोदकसंयुताम् ॥

तेषां पुण्यफलं वक्तुं शेषेणापि न शक्यते

॥१९॥

तिलं ददाति विप्राय श्रोत्रियाय कुटुंबिने ॥

सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति

॥२०॥

धान्यदानं प्रशंसन्ति विप्रा वेदविदां वराः ॥

बहुपुत्रा भविष्यन्ति धान्यदानं प्रकुर्वताम्

॥२१॥

गन्धचम्पकपुष्पादीञ्छत्रव्यजनचामरान् ॥

ताम्बूलघनसारादीन्यो ददाति द्विजातये

॥२२॥

भुक्त्वा भोगं चिरं कालं स्वर्गलोकं ततो व्रजेत् ॥

दिव्यवर्षसहस्रं च भुक्त्वा भोगाननेकशः

॥२३॥

सार्वभौमस्ततो भूत्वा तत्र भुक्त्वा चिरं महीम् ॥

ततो विप्रत्वमासाद्य वेदवेदान्तपारगः

॥२४॥

ततो मुक्तिं समायाति प्रसादाच्चक्रपाणिनः ॥

इत्येतत्कथितं देवि वेंकटाचलवैभवम्

॥२५॥

य एतच्छृणुयान्नित्यं यश्चापि परिकीर्तयेत् ॥

सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति

॥२६॥

इत्येतत्कथितं पूर्वं व्यासेनैव महात्मना ॥

शृणुयाद्वा पठेद्वापि कृतकृत्यो भविष्यति

॥२७॥

तस्यैव वंशजाः सर्वे मुक्तिं यान्ति न संशयः

॥२८॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवेंकटाचलमाहात्म्येऽञ्जनावरलब्ध्याकाशगंगा स्नानकालनिर्णयादिवर्णनंनाम चत्वारिंशोऽध्यायः ॥ ४० ॥

समाप्तमिदं स्कान्दपुराणान्तर्गतं श्रीवेंकटाचलमाहात्म्यम् ॥ देवनागरी युनिकोड रूपान्तरण – 13-9-2015ई.(भाद्रपद कृष्ण अमावास्या, विक्रम संवत् 2072)