श्रीनिवासस्यमोहप्राप्त्यादिवर्णनम्
अथ पद्मावतीदर्शनेन श्रीनिवासस्य मोहप्राप्तिः ॥
श्रीवराह उवाच ॥
सम्प्राप्य चालयं दिव्यमवतीर्य हयोत्तमात् ॥
विसृज्य सानुगान्सर्वान्देवान्कैरातरूपकान्
॥१॥विश्रमध्वमिति प्रोच्य विवेश मणिमण्डपम् ॥
आरुह्य मणिसोपानं पंचकक्षा अतीत्य च
॥२॥मुक्तागृहं समासाद्य तस्मिँल्लोलायिते शुभे ॥
नवरत्नमये मंचे संविवेशावशो हरिः
॥३॥संस्मरन्पद्मगर्भाभां तामेवायतलोचनाम् ॥
तनुमध्यां पीनकुचां मन्दस्मितसुखांबुजाम्
॥४॥क्षीराब्धितनयामेव मेने पद्मोद्भवां शुभाम् ॥
तस्यां गतमना देवः श्रीनिवासो मुमोह च
॥५॥अथ मुह्यमानं श्रीनिवासं प्रति बकुलमालिकोक्तिः ॥
ततो मध्याह्नसमये कृत्वान्नं दिव्यमुत्तमम् ॥
सूपदंशं सुगन्धं च देवार्हमतिशोभनम्
॥६॥शुद्धान्नं पायसान्नं च गौडं मुद्गान्नमेव च ॥
कृत्वा पञ्चविधापूपान्पूरिकावटकानपि
॥७॥देवं द्रष्टुं ययौ शीघ्रं सखी वकुलमालिका ॥
पद्मावतीपद्मपत्रा चित्ररेखासमन्विता
॥८॥निवेश्य द्वारि देवस्य ताः सर्वाः प्रमदोत्तमाः ॥
विवेश तत्समीपं सा स्वयं बकुलमालिका
॥९॥गत्वा समीपं देवस्य ववन्दे भक्तिभावतः ॥
दृष्ट्वाथ देवं विवशं पर्यंके रत्नभूषिते
॥१०॥पादसंवाहनं कृत्वा निमीलितविलोचनम् ॥
तं ध्यायन्तं च किमपि व्याजहार शुचिस्मिता
॥११॥उत्तिष्ठ देवदेवेश किं शेषे पुरुषोत्तम ॥
परमान्नं कृतं देव भोक्तुमागच्छ माधव
॥१२॥किं वा त्वमार्तवच्छेषे सर्वलोकार्तिनाशन ॥
मृगयामटता देव कि दृष्टं भवता वने
॥१३॥अवस्था ते विशालाक्ष कामुकस्येव दृश्यते ॥
का दृष्टा देवकन्या वा मानुषी वाऽहिकन्यका
॥१४॥ब्रूहि मे त्वमचिन्त्यात्मन्कन्यां तां चित्तहारिणीम्
॥१५॥श्रीवराह उवाच
तस्यास्तद्वचनं श्रुत्वा निःश्वासमकरोद्विभुः ॥
निःश्वसंतं पुनः प्राह प्रीता बकुलमालिका
॥१६॥एवं मनोहरा का सा तवापि पुरुषोत्तम ॥
तामवोचद्धृषीकेशो वक्ष्यामि शृणु तत्त्वतः
॥१७॥अथ श्रीनिवासोक्तपद्मावतीपरिणयकारणानि ॥
श्रीभगवानुवाच ॥
पुरा त्रेतायुगे पुण्ये रावणं हतवानहम् ॥
तदा वेदवती कन्या साहाय्यमकरोच्छ्रियः
॥१८॥सीतारूपाभवल्लक्ष्मीर्जनकस्य महीतलात् ॥
गते मयि तु मारीचं हन्तुं पञ्चवटीवने
॥१९॥ममानुजोऽपि मामेव सीतया चोदितोन्वयात् ॥
तदन्तरे राक्षसेन्द्रो हर्तुं सीतामुपाययौ
॥२०॥अग्निहोत्रगतो वह्निस्तं ज्ञात्वा रावणोद्यमम् ॥
आदाय सीतां पाताले स्वाहायां सन्निवेश्य च
॥२१॥तेनैव रक्षसा स्पृष्टां पुरा वेदवतीं शुभाम् ॥
अग्नौ विसृष्टदेहां तां संहर्तुं रावणं पुनः
॥२२॥सीताया रूपसदृशीं कृत्वा चैवोत्ससर्ज ह ॥
सा रावणहृता भूत्वा लंकायां च निवेशिता
॥२३॥हते तु रावणे पश्चात्पुनरग्निं विवेश सा ॥
अग्निस्तु रक्षितां लक्ष्मीं स्वाहायां मम जानकीम्
॥२४॥दत्त्वा हस्ते च मामाह सीतया सहितां सखीम ॥
इयं वेदवती देव सीतायाः प्रियकारिणी
॥२५॥सीतार्थं राक्षसपुरे तेन बन्दीकृता स्थिता ॥
तस्मादेनां वरेणैव प्रीणय त्वं श्रिया सह
॥२६॥इति वह्निवचः श्रुत्वा सीता मामवदच्छुभा ॥
मम प्रीतिकरी नित्यमियं वेदवती विभो
॥२७॥तस्मात्परं भागवतीं देवैनां वरय प्रभो
॥२८॥श्रीभगवानुवाच
तथा देवि करिष्यामि ह्यष्टाविंशे कलौ युगे ॥
तावदेषा ब्रह्मलोके वसत्वमरपूजिता
॥२९॥पश्चात्तु भूमितनया भविष्यति वियत्सुता ॥
इति दत्तवरा पूर्वं मया लक्ष्म्या च सुन्दरी
॥३०॥अद्य नारायणपुरे सम्भूता धरणीतलात् ॥
पद्मासमा पद्मनेत्री पद्मादत्तवरा सती
॥३१॥सखीभिरनुरूपाभिर्वने पुष्पाणि चिन्वती ॥
मृगयामटता तत्र मया दृष्टा मनोरमा
॥३२॥तस्या रूपं मया वक्तुं न शक्यं शतहायनैः ॥
लक्ष्म्येव च तया मेऽद्य संगमो भविता यदि
॥३३॥प्राणाः स्थिरा भविष्यन्ति सत्यमित्यवधारय
॥३४॥अथ वियद्राजपुरं प्रति बकुलमालिकागमनम् ॥
त्वं तत्र गत्वा तां कन्यां दृष्ट्वा बकुलमालिके ॥
जानीहि रूपलावण्यादियं योग्येति चास्य वै ॥
अनवद्या विशालाक्षी पद्मेन्दीवरलोचना
॥३५॥इत्युक्त्वा मोहमापन्नं तं प्राह बकुला पुनः ॥
इतो गच्छामि देवेश मनोज्ञा तव यत्र सा
॥३६॥मार्गं वद रमाधीश गमिष्ये येन तां प्रति ॥
एवमुक्तो रमाधीशस्तां प्राह वकुलस्रजम्
॥३७॥इतो गच्छ महाभागे श्रीनृसिंहगुहा यतः ॥
तन्मार्गेणावतीर्यास्माद्भूधरेन्द्रान्मनोरमात्
॥३८॥अगस्त्याश्रममासाद्य दृष्ट्वा लिंगं तदर्चितम् ॥
अगस्त्येश इति ख्यातं सुवर्णमुखरीतटे
॥३९॥तीरेणैव ततो गच्छ शुकब्रह्मऋषेर्वनम् ॥
पश्यन्ती स्वर्णमुखरीं तत्र कल्लोलमालिनीम्
॥४०॥तत्र पद्मसरोनाम पावनं पद्मसंयुतम् ॥
तत्र स्नात्वाऽथ तत्तीरे तपन्तं मुनिसत्तमम्
॥४१॥छायाशुकं नमस्कृत्य कृष्णं च बलसंयुतम् ॥
आराध्यमानं मुनिना शुकेन सततं शुभे
॥४२॥इन्द्रनीलमणिश्यामं पीतनिर्मलवाससम् ॥
तीर्थयात्रां गमिष्यन्तं बलभद्रं सिताकृतिम्
॥४३॥उपासयन्तं मंत्राणि मुक्तान्वितकरद्वयम् ॥
उद्यन्तं पादुकायुक्तं बलभद्रं प्रणम्य च
॥४४॥आदाय स्वर्णकमलं सरसोऽस्माद्वरानने ॥
तीर्त्वा सुवर्णमुखरीं वनान्युपवनानि च
॥४५॥अरणीतीरमासाद्य विश्रम्य च वनान्तरे ॥
नारायणपुरीं दृष्ट्वा विस्मयं च गमिष्यसि
॥४६॥तस्याश्चोपवने वृक्षान्पुष्पाढ्यान्फलसंयुतान् ॥
पनसाम्रशिरीषांश्च कुन्दतिन्दुकपाटलान्
॥४७॥पुन्नागनागवरणरसालांकोलचंपकान् ॥
बकुलामलकान्सालांस्तालहिंतालपद्मकान्
॥४८॥जम्बूनिम्बकदम्बैलापिप्पलीमधुकार्जुनान् ॥
प्रियंगुहिंगुखर्जूरमायूराशोकलोध्रकान्
॥४९॥अश्वत्थोदुम्बरप्लक्षबदरीभूर्जकीचकान् ॥
चिञ्चाकिंशुकमन्दारशाल्मलीबीजपूरकान्
॥५०॥पूगनारंगलिकुचनारिकेलवनाकुलान् ॥
मल्लिकामालतीकुन्द यूथिकाकेतकीयुतान्
॥५१॥करवीराब्जसंपन्नान्राजरंभाविराजितान् ॥
मयूरकीरगरुडशुकसारससंकुलान्
॥५२॥भृंगझंकारनिबिडानारामान्सुमनोहरान् ॥
पश्यन्तीं परमं हर्षमवाप्य च नदीतटे
॥५३॥गत्वा पूर्वोत्तरे मार्गे पुरीमिन्द्रपुरीसमाम् ॥
गङ्गयेवावृतां नित्यं सरितारणिनामया
॥५४॥आकाशराजनगरीं गत्वा तत्रोचितं कुरु
॥५५॥श्रीवराह उवाच
इत्यादिश्य सुराधीशः सखीं तां बकुलाभिधाम् ॥
विसृज्य शयने शुभ्रे स शिश्ये श्रीसमन्वितः
॥५६॥प्रणम्य देवदेवेशं सखी बकुलमालिका ॥
गुञ्जामणिसमाकारं रक्ताश्वमधिरुह्य सा
॥५७॥यथोक्तमार्गेण ययौ पश्यन्ती विविधान्मृगान् ॥
मत्तेभान्पर्वताकाराञ्छ्वेतदन्तविभूषितान्
॥५८॥करिणीयूथसहिताञ्जलदादानतत्परान् ॥
सिंहाञ्छ्वे(?)तघनप्रख्यान्सिंहीयूथैरनुद्रुतान्
॥५९॥शार्दूलर्क्षांश्च खड्गांश्च शरभान्गवयान्मृगान् ॥
कृष्णसारांश्च गोमायूञ्छशांश्च प्रियकानपि
॥६०॥सारसांश्च मयूरांश्च मार्जारान्वनगोचरान् ॥
वृकाञ्छुकान्सूकरांश्च सुवाचः पक्षिणस्तथा
॥६१॥पश्यन्ती विविधाकारांस्तुष्यन्ती च मुहुर्मुहुः ॥
आससादारणीतीरं पश्चिमं पादपाकुलम्
॥६२॥अवतीर्यारुणादश्वादगस्त्येशसमीपतः ॥
दृष्ट्वागस्त्येश्वरं लिङ्गमगस्त्येन सुपूजितम्
॥६३॥तत्र स्नात्वा च पीत्वा च विशश्राम नदीतटे
॥६४॥अथ दिव्योद्यानस्थपद्मावतीसखीः प्रति बकुलमालिकोक्तिः ॥
तत्रागता राजगृहाद्योषितो देवसंनिधौ ॥
सखीः पद्मालयायास्ता दृष्ट्वा बकुलमालिका
॥६५॥गत्वा समीपे तासां सा किंवदन्तीं स्म पृच्छति
॥६६॥बकुलमालिकोवाच
का यूयं योषितो ब्रूत विचित्राभरणस्रजः ॥
कुतः समागता ह्यत्र किं कार्यं वोऽमलाननाः
॥६७॥तास्तु तस्या वचः श्रुत्वा स्मितपूर्वमथाब्रुवन् ॥
शृणुष्वावहिता देवि वयं वक्ष्यामहेऽधुना
॥६८॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवेंकटाचलमाहात्म्ये धरणीवराहसंवादे पद्मावतीदर्शनेन श्रीनिवासस्यमोहप्राप्त्यादिवर्णनंनाम पञ्चमोऽध्यायः ॥ ५ ॥