मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — वेङ्कटाचलमाहात्म्यम्, अध्याय २३

3
वैष्णवखण्डः · वेङ्कटाचलमाहात्म्यम् · 23

चक्रतीर्थमहिमानुवर्णनम्

अथ चक्रतीर्थमाहात्म्यम् ॥

श्रीसूत उवाच ॥

अथाहं संप्रवक्ष्यामि द्विजेन्द्राः सत्यवादिनः ॥

चक्रतीर्थस्य माहात्म्यं सर्वपापप्रणाशनम्

॥१॥

ये शृण्वन्ति महापुण्यं चक्रतीर्थस्य वैभवम् ॥

ते यांति विष्णुभवनं पुनरावृत्तिवर्जितम्

॥२॥

अन्नदाने च विमुखा जलदाने तथैव च ॥

गोदानविमुखा ये च शुद्धास्तेऽत्र निमज्जनात्

॥३॥

तस्मात्पुण्यतमं तीर्थं चक्रतीर्थमनुत्तमम्

॥४॥

अथ पद्मनाभाख्यद्विजकृततपःप्रकारः ॥

श्रीसूत उवाच ॥

पुरा श्रीवत्सगोत्रीयः पद्मनाभो जितेन्द्रियः ॥

चक्रपुष्करिणीतीरे सोऽतप्यत महत्तपः

॥५॥

दयायुक्तो निराहारः सत्यवादी जितेन्द्रियः ॥

आत्मवत्सर्वभूतानि पश्यन्विषयनिःस्पृहः

॥६॥

सर्वभूतहितो दान्तः सर्वद्वन्द्वविवर्जितः ॥

वर्षाणि कतिचित्सोऽयं जीर्णपर्णाशनोऽभवत्

॥७॥

कञ्चित्कालं जलाहारो वायुभक्षः कियत्समाः ॥

एवं द्वादश वर्षाणि पद्मनाभो महामुनिः

॥८॥

अथ चक्रतीर्थे पद्मनाभाख्यद्विजकृततपस्तुष्टभगवदाविर्भावः ॥

अतप्यत तपो घोरं देवैरपि सुदुष्करम् ॥

अथ तत्तपसा तुष्टो भगवान्कमलापतिः

॥९॥

प्रत्यक्षतामगात्तस्य शङ्खचक्रगदाधरः ॥

विकचाम्बुजपत्राक्षः सूर्यकोटिसमप्रभः

॥१०॥

उन्मील्य चक्षुषी तत्र दृष्टवान्वेंकटेश्वरम् ॥

शंखचक्रधरं शांतं श्रीनिवासं कृपानिधिम् ॥

दृष्ट्वा देवं महात्मानं स्तोतुं समुपचक्रमे

॥११॥

अथ पद्मनाभाख्यद्विजकृतश्रीनिवासस्तुतिः ॥

नमो देवाधिदेवाय वेंकटेशाय शार्ङ्गिणे ॥

नारायणाद्रिवासाय श्रीनिवासाय ते नमः

॥१२॥

नमः कल्मषनाशाय वासुदेवाय विष्णवे ॥

शेषाचलनिवासाय श्रीनिवासाय ते नमः

॥१३॥

नमस्त्रैलोक्यनाथाय विश्वरूपाय साक्षिणे ॥

शिवब्रह्मादिवंद्याय श्रीनिवासाय ते नमः

॥१४॥

नमः कमलनेत्राय क्षीराब्धिशयनाय ते ॥

दुष्टराक्षससंहर्त्रे श्रीनिवासाय ते नमः

॥१५॥

भक्तप्रियाय देवाय देवानां पतये नमः

॥१६॥

प्रणतार्तिविनाशाय श्रीनिवासाय ते नमः

॥१७॥

योगिनां पतये नित्यं वेदवेद्याय विष्णवे ॥

भक्तानां पापसंहर्त्रे श्रीनिवासाय ते नमः

॥१८॥

एवं स्तुतो महाभागः श्रीनिवासो जगन्मयः ॥

पद्मनाभाख्यऋषिणा चक्रतीर्थनिवासिना

॥१९॥

अथ पद्मनाभस्य चक्रतीर्थे निरंतरवासाय भगवन्नियमनम् ॥

संतोषं परमं प्राप्य वेंकटेशो दयानिधिः

॥२०॥

पद्मनाभं द्विजवरं शांतं धर्मपरायणम् ॥

सुधाधारोपमं वाक्यमब्रवीत्पुरुषोत्तमः

॥२१॥

श्रीनिवास उवाच

द्विजवर्य महाभाग मत्पादकमलार्चक ॥

चक्रतीर्थस्य तीरे त्वमाकल्पं पूजयन्वस

॥२२॥

इत्युक्त्वा भगवान्विष्णुस्तत्रैवांतरधीयत ॥

अन्तर्धानं गते देवे श्रीनिवासे जगद्गुरौ

॥२३॥

चक्रतीर्थस्य तीरे तु वासं चक्रे महामतिः ॥

ततः कालांतरे कश्चिद्राक्षसो भीमदर्शनः

॥२४॥

मुनिं तं पद्मनाभाख्यं नारायणपरायणम् ॥

आययौ भक्षितुं क्रूरः क्षुधया परिपीडतः

॥२५॥

ब्राह्मणं तरसा सोऽयं राक्षसो जगृहे तदा ॥

गृहीतस्तरसा तेन् विप्रो वेदांगपारगः

॥५४॥

प्रचुक्रोश दयाम्भोधिमापन्नानां परायणम् ॥

नारायणं चक्रपाणिं पक्ष रक्षेति वै मुहुः

॥२७॥

वेंकटेश दयासिन्धो शरणागतपालक ॥

त्राहि मां पुरुषव्याघ्र रक्षोवशमुपागतम्

॥२८॥

लक्ष्मीकांत हरे विष्णो वैकुण्ठ गरुडध्वज ॥

मां रक्ष राक्षसाक्रांतं ग्राहाक्रांतं गजं यथा

॥२९॥

दामोदर जगन्नाथ हिरण्यासुरमर्दन ॥

प्रह्लादमिव मां रक्ष राक्षसेनातिपीडितम्

॥३०॥

अथ पद्मनाभहननोद्युक्तासुरवधाय भगवत्कृतचक्रप्रेषणम् ॥

इत्येवं स्तुवततस्तस्य पद्मनाभस्य हे द्विजाः ॥

स्वभक्तस्य भयं ज्ञात्वा चक्रपाणिर्दयानिधिः

॥३१॥

स्वचक्रं प्रेषयामास भक्तरक्षणकारणात् ॥

प्रेरितं विष्णुचक्रं तद्विष्णुना प्रभविष्णुना

॥३२॥

आजगामाथ वेगेन चक्रपुष्करिणीतटम् ॥

अनन्तादित्यसंकाशमनन्ताग्निसमप्रभम्

॥३३॥

महाज्वालं महानाद महासुरविमर्दनम् ॥

दृष्ट्वा सुदर्शनं विष्णो राक्षसोऽथ प्रदुद्रुवे

॥३४॥

अथ भगवत्प्रेषितचक्रकृतासुरवधः ॥

द्रवमाणस्य तस्याशु राक्षसस्य सुदर्शनम् ॥

शिरश्चकर्त सहसा ज्वालामालादुरासदम्

॥३५॥

ततो विप्रवरो दृष्ट्वा राक्षसं पतितं भुवि ॥

मुदा परमया युक्तस्तुष्टाव च सुदर्शनम्

॥३६॥

पद्मनाभ उवाच

विष्णुचक्र नमस्तेऽस्तु विश्वरक्षणदीक्षित ॥

नारायणकराम्भोज भूषणाय नमोऽस्तु ते

॥३७॥

युद्धेष्वसुरसंहारकुशलाय महारव ॥

सुदर्शन नमस्तुभ्यं भक्तानामार्तिनाशन

॥३८॥

रक्ष मां भयसंविग्नं सर्वस्मादपि कल्मषात् ॥

स्वामिन्सुदर्शन विभो चक्रतीर्थे सदा भवान्

॥३९॥

सन्निधेहि हिताय त्वं जगतो मुक्तिकांक्षिणः ॥

ब्राह्मणेनैवमुक्तं तद्विष्णुचक्रं मुनीश्वराः

॥४०॥

तं प्राह पद्मनाभाख्यं प्रीणयन्निव सौहृदात्

॥४१॥

अथ द्विजप्रार्थनया चक्रकृतवरदानादिः ॥

सुदर्शन उवाच ॥

पद्मनाभ महापुण्यं चक्रतीर्थमनुत्तमम् ॥

अस्मिन्वसामि सततं लोकानां हितकाम्यया

॥४२॥

त्वत्पीडां परिचिन्त्याहं राक्षसेन दुरात्मना

॥४३॥

प्रेरितो विष्णुना विप्र त्वरया समुपागतः ॥

त्वत्पीडकोऽपि निहतो मयाऽयं राक्षसाधमः

॥४४॥

मोचितस्त्वं भयादस्मात्त्वं हि भक्तो हरेः सदा ॥

चक्रतीर्थे महापुण्ये सर्वपापहरे द्विज

॥४५॥

सततं लोकरक्षार्थं सन्निधानं करोमि ते ॥

अस्मिन्मत्सन्निधानात्ते तथान्येषामपि द्विज

॥४६॥

इतः परं न पीडा स्याद्भूतराक्षससम्भवा ॥

अस्मिन्मत्सन्निधानात्स्याच्चक्रतीर्थमिति प्रथा

॥४७॥

स्नानं येऽत्र प्रकुर्वन्ति चक्रतीर्थे विमुक्तिदे ॥

तेषां पुत्राश्च पौत्राश्च वंशजाः सर्व एव हि

॥४८॥

विधूतपापा यास्यन्ति तद्विष्णोः परमं पदम् ॥

इत्युक्त्वा विष्णुचक्रं तत्पद्मनाभस्य पश्यतः

॥४९॥

अन्येषामपि विप्राणां पश्यतां सहसा द्विजाः ॥

चक्रपुष्करिणीं तां तु प्राविशत्पापनाशिनीम्

॥५०॥

श्रीसूत उवाच

चक्रतीर्थस्य माहात्म्यं विप्रेन्द्राः पापनाशनम् ॥

युष्माकं कथितं सर्वं शौनकाद्या महौजसः

॥५१॥

चक्रतीर्थसमं तीर्थं न भूतं न भविष्यति ॥

अत्र स्नात्वा नरा विप्रा मोक्षभाजो न संशयः

॥९२॥

कीर्तयेदिममध्यायं शृणुयाद्वा समाहितः ॥

चक्रतीर्थाभिषेकस्य प्राप्नोति फलमुत्तमम्

॥५३॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवेंकटाचलमाहात्म्ये चक्रतीर्थमहिमानुवर्णनंनाम त्रयोविंशतितमोऽध्यायः ॥ २३ ॥