मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — वेङ्कटाचलमाहात्म्यम्, अध्याय ३३

3
वैष्णवखण्डः · वेङ्कटाचलमाहात्म्यम् · 33

सुवर्णमुखरीप्रभावप्रशंसा

अथ सुवर्णमुखरीं प्रति शक्रादिस्तुतिः ॥

भरद्वाज उवाच ॥

तदा दिव्यविमानस्थाः शक्रमुख्या दिवौकसः ॥

अगस्त्यमनुयान्तीं तामनुजग्मुर्महापगाम्

॥१॥

नवावतारां तां दिव्यां सर्वे च मुनिपुंगवाः ॥

कृताञ्जलिपुटाः स्तोत्रैरनुयाताः सिषेविरे

॥२॥

सिद्धचारणगन्धर्वाः संभृताश्च सहस्रश ॥

तां नदीं तं मुनीन्द्रं च प्रशशंसुः शुभैःस्तवैः

॥३॥

सुधोपमानममलं दिष्ट्या लब्धमिदं जलम् ॥

इत्यौत्सुक्यरसायत्ता ननन्दुर्धरणीजनाः

॥४॥

तदा निदेशाद्देवस्य पद्मयोनेः समीरणः ॥

शृण्वतां सर्वदेवानामिदं वचनमब्रवीत्

॥५॥

अथ वायुकथितसुवर्णमुखरीनामनिष्पत्तिः ॥

वायुरुवाच ॥

सुवर्णमिव लोकानां भागधेयादियं नदी ॥

नीता भुवमगस्त्येन मुखरीकृतदिङ्मुखा

॥६॥

तस्माद्यास्यति विख्यातिं सर्वलोकाभिनन्दिताम् ॥

सुवर्णमुखरी नाम्ना धाम्नि कैवल्यसंपदः

॥७॥

एषा सुवर्णमुखरी सरित्सु सकलास्वपि ॥

विशिष्टा सेवनीया च ब्रह्मणो वचनं त्विदम्

॥८॥

अथागस्त्यकृतस्वानीतसुवर्णमुखरीमहिमानुवर्णनम् ॥

भरद्वाज उवाच ॥

श्रुत्वेत्थं पवनेनोक्तं वचनं कुम्भसम्भवः ॥

तुतोष विस्मयाक्रान्तः स्वान्तःपुलकितांगकः

॥९॥

एवमेषा दिव्यनदी स्नानपानादिकल्पनैः ॥

सौख्यावहा मनुष्याणां प्रतिष्ठामगमद्भुवि

॥१०॥

आज्ञया पद्मगर्भस्य तटिन्याकाशवाहिनी ॥

सुवर्णमुखरीनाम्ना पुनात्यात्मैकसंश्रयान्

॥११॥

बहून्गिरीन्द्रान्वनमण्डलं च देशाननेकान्सररिदुत्तमेयम् ॥

क्रमादतिक्रम्य निषेव्यमाणा महानदीभिर्गिरिसंभवाभिः

॥१२॥

रोगाहतानामधिकातुराणामनामयैकप्रतिपादकानि ॥

अन्तर्बहिः संभृतभूरितापनिवारणानि प्रियकारणानि

॥१३॥

विहारलोलद्विरदप्रकाण्डशुण्डामहाघातरयोत्थितेन ॥

पुष्पोपहारं पृषतोत्करेण हर्षाद्ददातीव दिवाकरस्य

॥१४॥

सौगंधिकाम्भोरुहकैरवाणां सौरभ्यसंवासितदिङ्मुखानाम् ॥

द्विरेफभाग्यैकनिकेतनानामाधारभूतान्प्रतिनिर्मलानि

॥१५॥

लीलावगाहोत्सुकनाकनारीसीमन्तसिन्दूररजोऽरुणानि ॥

तत्केशपाशच्युतपारिजातप्रसूनगन्धैरधिवासितानि

॥१६॥

सा बिभ्रती संभृतमंगलानि स्वादून्यपंकान्यतिनिर्मलानि ॥

सुधोपमानानि सुरेन्द्रसूनोः पयांसि पापप्रतिघातुकानि

॥१७॥

अगस्त्यशैलात्समवाप्तजन्मा नीता भुवं कुम्भसमुद्भवेन ॥

प्रशस्ततीर्थौघविराजमाना समाययौ दक्षिणवारिराशिम्

॥१८॥

शीकराक्षतविन्यासै रत्नदीपार्पणैरपि ॥

प्रत्युद्ययुस्तामम्भोधेर्वीचयोऽभिमुखागताः

॥१९॥

तरंगहस्तैरालिंग्य संभाव्यैनां समागताम् ॥

चकार सरितां नाथः प्रियमाघोषभाषणैः

॥२०॥

प्राप्तायामनुकूलायां तदा तस्यामपांनिधेः ॥

प्रहृष्टेन तरंगेण जीवनं ववृधेतराम्

॥२१॥

इत्थं संसृज्य सरितमगस्त्यस्तामुदन्वता ॥

स्तुत्वा ययौ समामन्त्र्य कृतकृत्यो यदृच्छया

॥२२॥

अर्जुन उवाच

त्वयैष कथितो ब्रह्मन्महानद्याः समुद्भवः ॥

अस्याः प्रभावं भगवन्निदानीं श्रोतुमुत्सहे

॥२३॥

अथ भरद्वाजवर्णितसुवर्णमुखरीमाहात्म्यम् ॥

भरद्वाज उवाच ॥

अहो निवर्हणं सर्वश्रेयसामेककारणम् ॥

शृणु माहात्म्यमस्यास्ते कथयिष्यामि पाण्डव

॥२४॥

पाश्चात्त्यं जन्म संप्राप्य ज्ञानिनां कर्मणः क्षये ॥

सुवर्णमुखरीस्नानं सिद्ध्येद्ब्रह्मत्वकारणम्

॥२५॥

एतां सुवर्णमुखरीं योजनानां शतैरपि ॥

स्मृत्वा मनुष्यः पापेभ्यो मुच्यते नात्र संशयः

॥२६॥

निःक्षिप्तमस्थि जन्तूनां सुवर्णमुखरीजले ॥

सोपानतां समायाति ब्रह्मलोकाधिरोहणे

॥२७॥

स्मरन्तः स्वर्णमुखरीं यत्र कुत्रापि मानवाः ॥

तोयान्तरेषु स्नात्वापि लभन्ते फलमुत्तमम्

॥२८॥

तावदेवाभिभूयन्ते नराः पातककोटिभिः ॥

सुवर्णमुखरीस्नानं यावत्तल्लभ्यते शुभम्

॥२९॥

दिव्यान्तरिक्षभौमानि तीर्थानि निजसिद्धये ॥

स्मरन्त्यहरहः प्रातः सुवर्णमुखरीं नदीम्

॥३०॥

अगस्त्याचलसंभूता दक्षिणोदधिगामिनी ॥

पापानि स्वर्णमुखरी स्मरणादेव नाशयेत्

॥३१॥

सुवर्णमुखरीस्नानलोलुपेनान्तरात्मना ॥

वाञ्छंति मर्त्यतामेव देवाः शक्रपुरोगमाः

॥३२॥

सुवर्णमुखरीतोयपुष्टसस्यान्नभोजिनः ॥

न लिप्यन्ते महापापैर्दुर्भोजनशतोद्भवैः

॥४३॥

अपि निष्कमितं पीतं सुवर्णमुखरीजलम् ॥

नाशयेदद्रितुल्यानि ह्याशु पापानि देहिनाम्

॥३४॥

प्राप्याऽपि मानुषं जन्म सुवणमुखरीजले ॥

ये वा स्नानं न कुर्वन्ति तेषां जन्म निरर्थकम्

॥३५॥

सुवर्णमुखरीस्नानं यदेकं विधिना कृतम् ॥

जाह्नवीस्नानकोटीनां समं भवति पर्वसु

॥३६॥

गोविंद इव देवेषु नक्षत्रेष्विव चन्द्रमाः ॥

नरेष्विव महीपालो भूरुहेष्विव कल्पकः

॥३७॥

महाभूतेष्विव वियन्मायेवाखिलशक्तिषु ॥

गायत्रीव च मन्त्रेषु वज्रं देवायुधेष्विव

॥३८॥

तत्त्वेष्विवात्मनस्तत्त्वं रुद्राध्यायो यजुष्ष्विव ॥

अनन्त इव नागेषु हिमाचल इवाद्रिषु

॥३९॥

पोत्रिक्षेत्रमिव क्षेत्रेष्विन्द्रियेष्विव मानसम् ॥

नदीष्वपि च सर्वासु सुवर्णमुखरी वरा

॥४०॥

नित्यं स्मरेन्नमस्कुर्यात्कीर्तयेन्मनसार्चयेत् ॥

शुद्धिक्षेम शिवापेक्षी सुवर्णमुखरीं शुभाम्

॥४१॥

अगस्त्याचलसंभूतां दक्षिणोदधिगामिनीम् ॥

समस्तपापहन्त्रीं त्वां सुवर्णमुखरीं श्रये

॥४२॥

महापातकविप्लुष्टं गात्रं मम तवोदकैः ॥

क्षालयामि जगद्धात्रि श्रेयसा योजयस्व माम्

॥४३॥

इति सूक्तद्वयं सम्यगुच्चार्य नियतो नरः ॥

सुवर्णमुखरीतोये स्नात्वा शुद्धः प्रमोदते

॥४४॥

ब्रह्मणा निर्मिता पूर्वमगस्त्येन समाहृता ॥

स्वयं मन्दाकिनी मूर्ता सुवर्णमुखरी वरा

॥४५॥

एवंप्रभावा दिव्येयं कीर्तनीया शुभार्थिभिः ॥

मनसा भक्तियुक्तेन स्नातव्या शुभकांक्षिभिः

॥४६॥

सोमसूर्योपरागेषु स्नानदानादिकं कृतम् ॥

स्यादमेयफलं पार्थ सुवर्णमुखरीतटे

॥४७॥

संक्रान्तावयने पुण्ये व्यतीपातेऽथ वासरे ॥

सुवर्णमुखरीस्नानं कुलकोटिं समुद्धरेत्

॥४८॥

जन्मर्क्षे जन्मदिवसे सुवर्णमुखरीजले ॥

स्नात्वा विधिवदाप्नोति क्षेमारोग्यसुखश्रियः

॥४९॥

दुःस्वप्नविघ्नजं भूतग्रहदुःस्थानजं तथा ॥

सुवर्णमुखरीतोये स्नात्वा तरति किल्बिषम्

॥५०॥

सुवर्णमुखरीतीरे गोपादप्रमितां भुवम् ॥

दत्त्वा सर्वमहीदानाद्यत्फलं तदवाप्नुयात्

॥५१॥

धेनुं सवस्त्रालंकारां सुवर्णमुखरीतटे ॥

दत्त्वा विप्राय विधिवद्याति ब्रह्म सनातनम्

॥५२॥

पुण्यकालेषु दानानि विधेयान्यखिलान्यपि ॥

इहामुत्र फलप्राप्त्यै सुवर्णमुखरीतटे

॥५३॥

जपो होमस्तपो दानं पितृकर्म सुरार्चनम् ॥

कृतं भवेच्छतगुणं सुवर्णमुखरीतटे

॥५४॥

अन्यत्ते कथयिष्यामि विधेयं व्रतमुत्तमम् ॥

सुवर्णमुखरीतीरे प्रतिवर्षं सुखार्थिभिः

॥५५॥

मेघकाले रविकरैस्तिरोधानमुपागतः ॥

यदोदेति मुनिः श्रीमान्मित्रावरुणनन्दनः

॥५६॥

तस्मिन्दिने ये नियताः स्नानमस्यां प्रकुर्वते ॥

तैः कल्पं च सुरावासे स्थीयते कुरुनन्दन

॥५७॥

तदागस्त्यस्य यद्रूपं सुवर्णेन विनिर्मितम् ॥

विधिना ददते पार्थ ते यांति ब्रह्म शाश्वतम्

॥५८॥

अर्जुन उवाच

विधिना केन कर्तव्यं व्रतमेतन्महामुने ॥

तन्ममाचक्ष्व सकलं जिज्ञासोस्तु महात्मनः

॥५९॥

अथागस्त्यप्रतिमादानविधिः ॥

भरद्वाज उवाच ॥

अगस्त्यस्योदयदिनं ज्ञात्वा नियतमानसः ॥

स्वशक्त्या कारयेद्रूपं तस्य हेम्ना महामुनेः

॥६०॥

सुवर्णभास्वरच्छायं जटाबन्धमनोहरम् ॥

दधानं करपद्माभ्यामक्षमालां कमण्डलुम्

॥६१॥

वसानं मृदुलं वल्कं मृगचर्मोत्तरीयकम् ॥

सौम्यं भस्मांकरुचिरं रुद्राक्षकृतभूषणम्

॥६२॥

एवं विधाय तद्रूपं स्नात्वा नियतमानसः ॥

आचार्यं गन्धपुष्पाद्यैरलङ्कृत्य यथाविधि

॥६३॥

शालेयतण्डुलानां तामाढकस्योपरि स्थिताम् ॥

वस्त्रद्वयसमायुक्तां प्रतिमां प्रतिपूजयेत्

॥६४॥

विन्ध्यसंस्तम्भनो वार्धिचुलकीकृतिपेशलः ॥

ब्रह्मादिसर्वदेवानां तेजसा सुप्रकाशितः

॥६५॥

अगस्त्यः कुम्भसंभूतो देवासुरनमस्कृतः ॥

प्रीतिमाप्नोतु महतीं दानेनानेन मे प्रभुः

॥६६॥

इमं मन्त्रं समुच्चार्य धारापूर्वं सदक्षिणम् ॥

दत्त्वा विमुक्तः पापेभ्यो याति ब्रह्म सनातनम्

॥६७॥

जन्मान्तरकृतैर्नूनमिह जन्मकृतैरपि ॥

महापापोपपापौघैर्मुच्यते नात्र संशयः

॥६८॥

ब्रह्माद्याः सकला देवाः सनकाद्या महर्षयः ॥

चराचराणि भूतानि प्रीतिं यांति न संशयः

॥६९॥

कृत्वा व्रतमिदं पुण्यमगस्त्यस्य च सन्मुनेः ॥

प्रीत्यर्थं भोजयेद्विप्रान्यथाशक्ति सदक्षिणम्

॥७०॥

तस्मिन्कर्मणि चाशक्तो यथाशक्ति महीसुरान् ॥

स्वर्णधान्यादिदानेन तोषयेद्भक्तिसंयुतः

॥७१॥

तिथिं न वितथीकुर्यात्तां यत्नेन समाचरेत् ॥

यत्किञ्चिदपि चावश्यं कर्म कुर्याच्च पूरुषः

॥७२॥

महामुनेरगस्त्यस्य परिपक्वं तपःफलम् ॥

नदी सुवर्णमुखरी कीर्तनीया सुरासुरैः

॥७३॥

एवं ते कथितः सम्यङ्महानद्याः समुद्भवः ॥

प्रभावश्च तदाचक्ष्व यद्भूयः श्रोतुमिच्छसि

॥७४॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे वेंकटाचलमाहात्म्ये सुवर्णमुखरीप्रभावप्रशंसानाम त्रयस्त्रिंशोऽध्यायः ॥ ३३ ॥