मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — वेङ्कटाचलमाहात्म्यम्, अध्याय १

3
वैष्णवखण्डः · वेङ्कटाचलमाहात्म्यम् · 1

यज्ञवराहदर्शनप्राप्त्यादिवर्णनम्

वेङ्कटाचलमाहात्म्यम् नारदस्य सुमेरुशिखरस्थयज्ञवराहदर्शनम् पावने नैमिषारण्ये शौनकाद्या महर्षयः ॥

चक्रिरे लोकरक्षार्थं सत्रं द्वादशवार्षिकम्

॥१॥

तानभ्यगच्छत्कथको व्यासशिष्यो महामतिः ॥

मुनिरुग्रश्रवा नाम रोमहर्षणसम्भवः

॥२॥

सम्यगभ्यर्चितस्त्वेषां सूतः पौराणिकोत्तमः ।

कथयामास तद्दिव्यं पुराणं स्कन्दनामकम्

॥३॥

सृष्टिसंहारवंशानां वंशानुचरितस्य च ।

कथां मन्वन्तराणां च विस्तरात्स न्यवेदयत्

॥४॥

कथास्तीर्थप्रभावाणां श्रुत्वा ते मुनिपुङ्गवाः ॥

ऊचिरे वशिनं सूतं कथाश्रवणकाङ्क्षया

॥५॥

ऋषय ऊचुः

रोमहर्षण सर्वज्ञ पुराणार्थविशारद ॥

माहात्म्यं श्रोतुमिच्छामो गिरीन्द्राणां महीतले ॥

ब्रूहि त्वं नो महाभाग के प्रधाना महीधराः

॥६॥

श्रीसूत उवाच

एतमेव पुरा प्रश्नमपृच्छं जाह्नवीतटे ॥

व्यासं मुनिवरश्रेष्ठं सोऽब्रवीन्मे गुरूत्तमः

॥७॥

व्यास उवाच

पुरा देवयुगे सूत नारदो मुनिसत्तमः ।

सुमेरुशिखरं गत्वा नानारत्नसुशोभिनम्

॥८॥

तन्मध्ये विपुलं दीप्तं ब्रह्मणो दिव्यमालयम् ।

दृष्ट्वा तस्योत्तरे देशे पिप्पलद्रुममुत्तमम्

॥९॥

सहस्रयोजनोच्छ्रायं विस्तीर्णं द्विगुणं तथा ।

तन्मूले मण्डपं दिव्यं नानारत्नसमन्वितम्

॥१०॥

पद्मरागमणिस्तम्भैः सहस्रैः समलंकृतम् ॥

वैडूर्यमुक्तामणिभिः कृतस्वस्तिकमालिकम्

॥११॥

नवरत्नसमाकीर्णं दिव्यतोरणशोभितम् ।

मृगपक्षिभिराकीर्णं नवरत्नमयैः शुभैः

॥१२॥

पुष्परागमहाद्वारं सप्तभूमिकगोपुरम् ॥

सन्दीप्तवज्रसुकृतकवाटद्वयशोभितम् ॥

प्रविश्याऽसौ ददर्शान्तर्दिव्यमौक्तिकमण्डपम् ॥

वैडूर्यवेदिकं तुङ्गमारुरोह महामुनिः

॥१४॥

तन्मध्ये तुङ्गमतुलं वसुपादविराजितम् ॥

ददर्श मुक्तासङ्कीर्णं सिंहासनं महाद्युति

॥१५॥

तन्मध्ये पुष्करं दिव्यं सहस्रदलशोभितम् ॥

श्वेतं चन्द्रसहस्राभं कर्णिकाकेसरोज्ज्वलम्

॥१६॥

तस्य मध्ये समासीनं पूर्णचन्द्रायुतप्रभम् ॥

कैलासपर्वताकारं सुन्दरं पुरुषाकृतिम्

॥१७॥

चतुर्बाहुमुदारांगं वराहवदनं शुभम् ॥

शंखचक्राभयवरान्बिभ्राणं पुरुषोत्तमम्

॥१८॥

पीताम्बरधरं देवं पुंडरीकायतेक्षणम् ॥

पूर्णेंदुसौम्यवदनं धूपगंधिमुखांबुजम्

॥१९॥

सामध्वनिं यज्ञमूर्तिं स्रुक्तुण्डं स्रुवनासिकम् ॥

क्षीरसागरसंकाशं किरीटोज्ज्वलिताननम्

॥२०॥

श्रीवत्सवक्षसं शुभ्रयज्ञसूत्रविराजितम् ॥

कौस्तुभश्रीसमुद्द्योतं समुन्नतमहोरसम्

॥२१॥

जांबूनदमयैर्दिव्यैः सुरत्नाभरणैर्युतम् ॥

विद्युन्मालापरिक्षिप्तशरन्मेघमिवोज्ज्वलम्

॥२२॥

वामपादतलाक्रांतपादपीठविराजितम् ॥

कटकांगदकेयूरकुण्डलोज्ज्वलितं सदा

॥२३॥

चतुर्मुखवसिष्ठात्रिमार्कण्डेयैर्मुनीश्वरैः ॥

भृग्वादिभिरनेकैश्च सेव्यमानमहर्निशम्

॥२४॥

इन्द्रादिलोकपालैश्च गन्धर्वाप्सरसां गणैः ॥

सेवितं देवदेवेशं प्रणिपत्याभिगम्य च

॥२५॥

दिव्यैरुपनिषद्भागैरभिष्टूय धराधरम् ॥

नारदः परमप्रीतः स्थितो देवस्य सन्निधौ

॥२६॥

अथ वराहसन्निधिं प्रति धरण्यागमनम् ॥

एतस्मिन्नंतरे चाभूद्दिव्यदुन्दुभिनिःस्वनः

॥२७॥

ततस्तमागता देवी धरणी सखिसंयुता ॥

सुरत्नसागराकारदिव्यांबरसमुज्ज्वला

॥२८॥

सुमेरुमन्दराकारस्तनभारावनामिता ॥

नवदूर्वादलश्यामा सर्वाभरणभूषिता

॥२९॥

इलया वै पिंगलया सखीभ्यां च समन्विता ॥

ततस्ताभ्यां समानीतं पुष्पाणां निचयं मही

॥३०॥

श्रीमद्वराहदेवस्य पादमूले विकीर्य च ॥

प्रणम्य देवदेवेशं कृताञ्जलिपुटा स्थिता

॥३१॥

तां देवीं श्रीवराहोऽपि ह्यालिंग्यांके निधाय च

॥३२॥

अथ धरणिवराहसंवादः ॥

पप्रच्छ कुशलं पृथ्वीं प्रीतिप्रवणमानसः

॥३३॥

श्रीवराह उवाच

त्वां निवेश्य महीदेवि शेषशीर्षे सुखावहे ॥

लोकं त्वयि निवेश्यैव त्वत्सहायान्धराधरान् ॥

हहागतोऽस्म्यहं देवि किमर्थं त्वमिहागता

॥३४॥

पृथिव्युवाच

मां समुद्धृत्य पातालात्सहस्रफणशोभिते ॥

रत्नपीठ इवोत्तुंगे सरत्नेऽनन्तमूर्धनि ॥

कृत्वा मां सुस्थिरां देव भूधरान्संनिवेश्य च

॥३५॥

मद्धारणक्षमान्पुण्यांस्त्वन्मयान्पुरुषोत्तम ॥

तेषु मुख्यान्महाबाहो मदाधारान्वदस्व मे

॥३६॥

अथ शेषाचलस्यसर्वपर्वतातिशायित्ववर्णनम् ॥

श्रीवराह उवाच ॥

सुमेरुर्हिमवान्विंध्यो मन्दरो गंधमादनः ॥

सालग्रामश्चित्रकूटो माल्यवान्पारियात्रकः

॥३७॥

महेंद्रो मलयः सह्यः सिंहाद्रिरपि रैवतः ॥

मेरुपुत्रोऽञ्जनो नाम शैलः स्वर्णमयो महान्

॥३८॥

एते शैलवराः सर्वे त्वदाधारा वसुन्धरे ॥

ये मया देवसंघैश्च ऋषिसंघैश्च सेविताः

॥३९॥

एतेषु प्रवरान्वक्ष्ये तत्त्वतः शृणु माधवि ॥

सालग्रामश्च सिंहाद्रिश्शैलेंद्रो गन्धमादनः

॥४०॥

एते शैलवरा देवि दिशं हैमवतीं श्रिताः ॥

दक्षिणस्यां प्रतीतांस्तु वक्ष्ये शैलान्वसुन्धरे

॥४१॥

अरुणाद्रिर्हस्तिशैलो गृध्राद्रिर्घटिकाचलः ॥

एते शैलवराः सर्वे क्षीरनद्यास्समीपगाः

॥४२॥

हस्तिशैलादुत्तरतः पंचयोजनमात्रतः ॥

सुवर्णमुखरीनाम नदीनां प्रवरा नदी

॥४३॥

तस्या एवोत्तरे तीरे कमलाख्यं सरोवरम् ॥

तत्तीरे भगवानास्ते शुकस्य वरदो हरिः

॥४४॥

बलभद्रेण संयुक्तः कृष्णो भक्तार्तिनाशनः ॥

वैखानसैर्मुनिगणैर्नित्यमाराधितोऽमलैः

॥४५॥

कमलाख्यस्य सरस उत्तरे काननोत्तमे ॥

क्रोशद्वयार्धमात्रे तु हरिचंदनशोभिते ॥

श्रीवेंकटाचलोनाम वासुदेवालयो महान्

॥४६॥

सप्तयोजनविस्तीर्णः शैलेन्द्रो योजनोच्छ्रितः ॥

अस्ति स्वर्णमयो देवि रत्नसानुभृदायतः

॥४७॥

इन्द्राद्या दैवतगणा वसिष्ठाद्या मुनीश्वराः ॥

सिद्धाः साध्याश्च मरुतो दानवा दैत्यराक्षसाः ॥

रम्भाद्या अप्सरःसंघा वसन्ति नियतं धरे

॥४०॥

तपश्चरंति नागाश्च गरुडाः किन्नरास्तथा ॥

एतैरधिष्ठितास्तत्र सरितः पुण्यदर्शनाः ॥

सरांसि विविधान्यत्र संति दिव्यानि माधवि

॥४९॥

अथ स्वामिपुष्करिण्याः सर्वतीर्थातिशायित्ववर्णनम् ॥

तीर्थानां चैव सर्वेषां शृणुष्व प्रवराणि वै

॥५०॥

चक्रतीर्थं दैवतीर्थं वियद्गंगा तथैव च ॥

कुमारधारिकातीर्थं पापनाशनमेव च ॥

पाण्डवं नाम तीर्थं च स्वामिपुष्करिणी तथा

॥५१॥

सप्तैतानि वराण्याहुर्नारायणगिरौ शुभे ॥

एतेषु प्रवरा देवि स्वामिपुष्करिणी शुभा

॥५२॥

अस्यास्तु पश्चिमे तीरं निवसामि त्वया सह ॥

आस्तेऽस्या दक्षिणे तीरं श्रीनिवासो जगत्पतिः

॥५३॥

गंगाद्यैः सकलैस्तीर्थैः समा सा सागराम्बरे ॥

त्रैलोक्ये यानि तीर्थानि सरांसि सरितस्तथा ॥

तेषां स्वामित्वमापन्नं धरे स्वामिसरोवरे

॥५४॥

स्वामिपुष्करिणीं पुण्यां सेवितुं दिव्यभूधरे ॥

वसन्ति सर्वतीर्थानि तेषां संख्यां वदामि ते

॥५५॥

षट्षष्टिकोटितीर्थानि पुण्येऽस्मिन्भूधरोत्तमे ॥

तेषु चात्यंतमुख्यानि षट् तीर्थानि वसुन्धरे

॥५६॥

पञ्चानां तीर्थराजानां तुम्बो गर्भसमो महान् ॥

गर्भवासभयध्वंसी स्नातानां भूधरोत्तमे

॥५७॥

धरण्युवाच

षट् तीर्थानि महाबाहो त्वयोक्तानि महीधरे ॥

माहात्म्यं वद तेषां मे यथाकालं यथाविधि ॥

फलानि तेषु स्नातानां नराणां वद भूधर

॥५८॥

श्रीवराह उवाच

नारायणाद्रिमाहात्म्यं वदामि शृणु माधवि

॥५९॥

देवाश्च ऋषयश्चैव योगिनः सनकादयः ॥

कृतेंऽजनाद्रिं त्रेतायां नारायणगिरिं तथा

॥६०॥

द्वापरे सिंहशैलं च कलौ श्रीवेङ्कटाचलम् ॥

प्रवदन्तीह विद्वांसः परमात्मालयं गिरिम्

॥६१॥

योजनानां सहस्रान्ते द्वीपांतरगतोऽपि वा ॥

यो नमेद्भूधरेन्द्रं तद्दिशमुद्दिश्य भक्तितः ॥

सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति

॥६२॥

तस्मिन्षट्तीर्थमाहात्म्यं यथाकालं वदामि ते

॥६३॥

अथ कुमारधारामाहात्म्यम् ॥

शृणुष्वावहिता भद्रे सर्वपापप्रणाशनम् ॥

कुभसंस्थे रवौ माघे पौर्णमास्यां महातिथौ

॥६४॥

मघानक्षत्रयुक्तायां भूधरेन्द्रे वसुन्धरे ॥

कुमारधारिकानाम सरसी लोकपावनी

॥६५॥

यत्रास्ते पार्वतीसूनुः कार्तिकेयोऽग्निसंभवः ॥

देवसेनासमायुक्तः श्रीनिवासार्चकोऽमले

॥६६॥

तस्यां यः स्नाति मध्याह्ने तस्य पुण्यफलं शृणु ॥

गंगादिसर्वतीर्थेषु यः स्नाति नियमाद्धरं ॥

द्वादशाब्दं जगद्धात्रि तत्फलं समवाप्नुयात्

॥६७॥

योऽन्नं ददाति तत्तीर्थे शक्त्या दक्षिणयान्वितम् ॥

स तावत्फलमाप्नोति स्नाने तूक्तं फलं यथा

॥६८॥

अथ तुंबतीर्थमाहात्म्यम् ॥

मानसंस्थे सवितरि पौर्णमासीतिथौ धरे ॥

उत्तराफाल्गुनीयुक्ते चतुर्थे काल उत्तमे

॥६९॥

पंचानामपि तीर्थानां तुंबेऽथ गिरिगह्वरे ॥

यः स्नाति मनुजो देवि पुनर्गर्भे न जायते

॥७०॥

अथ आकाशगंगामाहात्म्यम् ॥

अग्निवाहस्थिते भानौ चित्रानक्षत्रसंयुते ॥

पूर्णिमाख्ये तिथौ पुण्ये प्रातःकाले तथैव च ॥

आकाशगंगासरिति स्नातो मोक्षमवाप्नुयात्

॥७१॥

अथ पाण्डवतीर्थमाहात्म्यम् ॥

वृषभस्थे रवौ राधे द्वादश्यां रविवासरे ॥

शुक्ले वाप्यथ वा कृष्णे पक्षे भौमसमन्विते

॥७२॥

शुक्ले वाप्यथवा कृष्णे भानुवारेण संयुते ॥

पुष्यनक्षत्रसंयुक्त हस्तर्क्षेण युतेऽपि वा

॥७३॥

तीर्थे पांडवनाम्न्यत्र संगवे स्नाति यो नरः ॥

नेह दुःखमवाप्नोति परत्र सुखमश्नुते

॥७४॥

अथ पापनाशनतीर्थमाहात्म्यम् ॥

शुक्ले पक्षेऽथ वा कृष्णे यार्कवारेण सप्तमी ॥

पुष्यनक्षत्रसंयुक्ता हस्तर्क्षेण युतापि वा

॥७५॥

तस्यां तिथौ महाभागे पापनाशनसंज्ञके ॥

तीर्थे यः स्नाति नियमाद्भूधरेन्द्रस्य मस्तके

॥७६॥

कोटिजन्मार्जितैः पापैर्मुच्यते स नरोत्तमः

॥७७॥

अथ देवतीर्थमाहात्म्यम् ॥

शृणु देवि परं गुह्यमनन्ताख्ये महागिरौ ॥

मद्दिव्यालयवायव्ये शिखरे गिरिगह्वरे ॥

देवतीर्थमिति ख्यातं तटाकमतिशोभनम्

॥७८॥

तस्मिन्पुण्यतमे देवि स्नानकालं वदामि ते

॥७९॥

गुरुपुष्ये व्यतीपाते सोमश्रवणके तथा ॥

दिनेष्वेतेषु यः स्नाति तस्य पुण्यफलं शृणु

॥८०॥

यानि कानीह पापानि ज्ञानाज्ञानकृतानि च ॥

तानि सर्वाणि नश्यंति देवतीर्थेऽतिपावने

॥८१॥

पुण्यान्यपि च वर्धंते देवतीर्थनिमज्जनात ॥

दीर्घमायुरवाप्नोति पुत्रपौत्रसमन्वितः ॥

अन्ते स्वर्गं समासाद्य चन्द्रलोके महीयते

॥८२॥

तद्दिनेष्वन्नदो देवि यावज्जीवान्नदो भवेत् ॥

अतिगुह्यतमं देवि प्रोक्तं तुभ्यं वसुन्धरे

॥८३॥

व्यास उवाच

श्रुत्वाथ पृथिवी देवी प्रीतिप्रवणमानसा ॥

इष्टाभिर्वाग्भिरतुलं तुष्टाव धरणीधरम्

॥८४॥

अथ धरणीकृत वराहस्तुतिः ॥

धरण्युवाच ॥

नमस्ते देवदेवेश वराहवदनाच्युत ॥

क्षीरसागरसंकाश वज्रशृंग महाभुज

॥८५॥

उद्धृतास्मि त्वया देव कल्पादौ सागरांभसः ॥

सहस्रबाहुना विष्णो धारयामि जगन्त्यहम्

॥८६॥

अनेकदिव्याभरणयज्ञसूत्रविराजित ॥

अरुणारुणांबरधर दिव्यरत्नविभूषित

॥८७॥

उद्यद्भानुप्रतीकाशपादपद्म नमोनमः ॥

बालचंद्राभदंष्ट्राग्रमहाबलपराक्रम

॥८८॥

दिव्यचन्दनलिप्तांग तप्तकांचनकुण्डल ॥

इन्द्रनीलमणिद्योतिहेमांगदविभूषित

॥८९॥

वज्रदंष्ट्राग्रनिर्भिन्नहिणयाक्ष महाबल ॥

पुण्डरीकाभिरामाक्ष सामस्वनमनोहर

॥९०॥

श्रुतिसीमन्तभूषात्मन्सर्वात्मश्चारुविक्रम ॥

चतुराननशंभुभ्यां वन्दिताऽऽयतलोचन

॥९१॥

सर्वविद्यामयाकार शब्दातीत नमो नमः ॥

आनंदविग्रहाऽनन्त कालकाल नमोनमः

॥९२॥

इति स्तुत्वाऽचला देवी ववन्दे पादयोर्विभुम् ॥

वन्दमाना समुद्वीक्ष्य देवः फुल्लविलोचनः

॥९३॥

उद्धृत्य धरणीं देवीमालिलिंगेऽथ बाहुभिः ॥

आघ्राय धरणीवक्त्रं वामांके सन्निवेश्य च

॥९४॥

अथ वराहस्य भगवतो धरण्या साकं शेषाचलागमनम् ॥

आरुह्य गरुडेशानं जगाम वृषभाचलम् ॥

मुनींद्रैर्नारदाद्यैश्च स्तूयमानो महीपतिः

॥९५॥

स्वामिपुष्करिणीतीरे पश्चिमे लोकपूजिते ॥

आस्ते वराहवदनो मुनीन्द्रैस्तत्र पूजितः ॥

वैखानसैर्महाभागैर्ब्रह्मतुल्यैर्महात्मभिः

॥९६॥

अथ वेंकटाचलमाहात्म्यश्रवणावसरः ॥

व्यास उवाच ॥

तं दृष्ट्वा नारदः सूत मुनीनामुक्तवान्पुरा ॥

तदेतदहमश्रौषं तत्र वै मुनिसंसदि

॥९७॥

यत्पृष्टोऽहं त्वया सूत माहात्म्यं धरणीभृताम् ॥

मया तूक्तं यथावद्धि नारदाच्च पुरा श्रुतम्

॥९८॥

अथाध्यायफलश्रुतिः ॥

य इदं धर्मसंवादमावयोः सूत पावनम् ॥

पठेद्वा देवपुरतो ब्राह्मणानां पुरस्तथा

॥९९॥

सर्वेषामपि वर्णानां शृण्वतां भक्तिपूर्वकम् ॥

स प्रतिष्ठामवाप्नोति पुत्रपौत्रैः समन्वितः

॥१००॥

शृण्वतामपि सर्वेषां यदिष्टं तद्भविष्यति

॥१०१॥

सूत उवाच

इति मे भगवान्व्यासः प्रोवाच मुनिसेवितः ॥

यथाश्रुतं मया पूर्वं कृष्णद्वैपायनाद्गुरोः

॥१०२॥

तत्तथा सर्वमेवात्र मयाप्युक्तं मुनीश्वराः ॥

श्रुत्वा सूतवचस्त्वित्थं ते प्रीतमनसोऽभवन्

॥१०३॥

ऋषय ऊचुः

सूत त्वयोक्तं भुवि पर्वतेषु पुण्येषु पुण्यस्य महीधरस्य ॥

माहात्म्यमस्माकमहीन्द्रनाम्नः पापापहं मोक्षफलप्रदायकम्

॥१०४॥

ततो वृषाद्रिं संप्राप्य वराहो धरणीयुतः ॥

किमुक्तवान्धरण्यै स तन्नो ब्रूहि महामते

॥१०५॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवेंकटाचलमाहात्म्ये धरणीवराहसंवादे नारदस्य सुमेरुशिखरस्थ यज्ञवराहदर्शनप्राप्त्यादिवर्णनंनाम प्रथमोऽध्यायः ॥ १ ॥