सृष्ट्यादिवर्णनम्
अथ सुवर्णमुखर्या कल्यानदीसंगमः ॥
भरद्वाज उवाच ॥
सुवर्णमुखरी तत्र संगता मंगलप्रदा ॥
कल्यानाम नदी पुण्या कालिन्दी जाह्नवीमिव
॥१॥वृषभाचलसंभूता तीर्थराजविराजिता ॥
नदीनामुत्तमा कल्या कलुषौघविनाशिनी
॥२॥नानातरुलताव्रातविभूषिततटद्वया ॥
मुनिसंघसुखावासा पुण्याश्रमसमुत्कटा
॥३॥द्विजदत्तार्ध्यविलसत्कुशाक्षतलसत्तटा ॥
अप्सरःकुचकस्तूरीपंकक्षालनपंकिला
॥४॥दन्तावलकटच्योतन्मदाम्बुसुरभीकृता ॥
विप्रभूपालविततमखयूप शतावृता
॥५॥अनाविलजलापूरतोषिताशेषमानवा ॥
एकैवालं परा कर्तुं महानद्योस्तु पातकम्
॥६॥तयोः संगतयोः स्तोतुं महिमानं क ईशते ॥
यत्र ब्रह्मशिलानाम सरिन्मध्ये च वर्तते
॥७॥अगस्त्यतपसा पश्चाद्गया सांनिध्यमेति च ॥
नदीद्वयजले तत्र स्नाताः पुण्ये कुरूद्वह
॥८॥मखानां पौण्डरीकाणां शतस्य फलमाप्नुयुः ॥
ब्रह्महत्यादिपापानि समायांति परिक्षयम्
॥९॥तत्राभिषेकपूतानां नदीद्वितयसंगमे ॥
सङ्गता भवनाशिन्या कृष्णवेणीव पावनी
॥१०॥अथ सुवर्णमुखरीतीरस्थितश्रीवेंकटाचलवर्णनम् ॥
राजते स्वर्णमुखरी कल्यया संगता तदा
॥११॥अथोदीच्यां महानद्या योजनार्द्धे विराजते ॥
योजनोत्सेधसहितो विख्यातो वेंकटाचलः
॥१२॥सर्वेषामेव तीर्थानामाश्रयोऽयं नगोत्तमः ॥
अञ्जनानन्तवृषभनीलकेसरिपोत्रिणः
॥१३॥एतान्युपवनान्यद्रेः स्युर्नारायणवेंकटौ ॥
वराहवपुषा पूर्वं स्वीकृतत्वान्मधुद्विषा
॥१४॥वराहक्षेत्रमित्यार्यैः कीर्तितोऽयं महीधरः ॥
सुवर्णमुखरीतीरे विख्याते वेंकटाचले
॥१५॥निवसत्यच्युतो नित्यमब्धीन्द्रतनयान्वितः ॥
तस्मिन्गिरौ श्रिया सार्द्धं वसन्ते वेंकटाधिपम्
॥१६॥सेवन्ते सिद्धगन्धर्वमुनिमानवदानवाः ॥
तस्मिन्विन्यस्तचित्तानां भक्तानां पुरुषोत्तमे
॥१७॥वांछितान्याशु सिध्यंति नश्यंति विपदोऽर्जुन ॥
ये स्मरंति जगन्नाथं वेंकटाद्रिनिवासिनम्
॥१८॥निरस्तदोषास्ते यांति शाश्वतं पदमव्ययम्
॥१९॥अर्जुन उवाच
वेंकटाद्रौ महापुण्ये सुरासुरनमस्कृतः ॥
कथं प्रादुरभूद्देवो भगवान्कमलापतिः
॥२०॥कस्य वा कृतिनस्तत्र प्रसन्नो निजमद्भुतम् ॥
रूपं प्रकाशयांचक्रे भुक्तिमुक्तिफलप्रदम्
॥२१॥विष्णोर्देवादिदेवस्य महिमानं महामुने ॥
श्रोतुमिच्छामि तत्त्वेन तन्मे कथय विस्तरात्
॥२२॥अथ श्रीवेंकटाचलवासिभगवद्वैभववर्णनम् ॥
भरद्वाज उवाच ॥
शृणु वेंकटनाथस्य महिमानं समाहितः ॥
विस्तरेण समाख्यातुं ब्रह्मणापि न शक्यते
॥२३॥धन्योऽसि देवदेवस्य माहात्म्यं मधुविद्विषः ॥
यद्भक्तियुक्ताभूत्तात श्रोतुं मतिररिन्दम
॥२४॥कृतपुण्योऽस्म्यहं पार्थ सर्वभूतपतेर्हरेः ॥
पवित्राणि चरित्राणि स्तोष्यन्ते यन्मयाऽधुना
॥२५॥पुरा भागीरथीतीरे जनकाय महात्मने ॥
क्रतुदीक्षाप्रसक्ताय विशुद्धज्ञानशालिने
॥२६॥वामदेवेन कथितां कथां पापप्रणाशिनीम् ॥
कथयिष्यामि ते पार्थ विष्णुकीर्तनपावनीम्
॥२७॥सर्वेषामेव भूतानामाद्यो नारायणः प्रभुः ॥
जगन्मयो जगत्कर्ता चित्स्वरूपो निरंजनः
॥२८॥सहस्रशीर्षा भगवान्सहस्राक्षः सहस्रपात् ॥
यस्य भासा जगदिदं विभाति सचराचरम्
॥२९॥तस्मात्परतरं तेजस्तस्मात्परतरं तपः ॥
तस्मात्परतरं ज्ञानं योगस्तस्मात्परो न च
॥३०॥विद्या तस्मादपि परा नास्ति पार्थ नरर्षभ ॥
सर्वेष्वपि च भूतेषु सदा सन्निहितः प्रभुः
॥३१॥सर्वाण्यपि च भूतानि तस्मिन्नेवासते सुखम् ॥
स एव यज्ञो यज्वा च साधनं स्रुक्स्रुवादिकम्
॥३२॥फलं फलप्रदाता च तत्संप्राप्या गतिस्तथा ॥
वह्नौ प्रणीते पशुना प्रोक्षितेन प्रजुह्वति ॥
ये तं प्रयांति ते यांति गतिं तत्प्रतिपादिताम्
॥३३॥कर्मबन्धं पशुं कृत्वा ज्ञानाग्नौ संप्रवर्तिते ॥
ये जुह्वते तमुद्दिश्य ते तत्सायुज्यभागिनः
॥३४॥हरिः सदाशिवो ब्रह्मा महेन्द्रः परमः स्वराट् ॥
सर्वेश्वरस्य तस्यैते पर्यायाः परिकीर्तिताः
॥३५॥ममाहितोऽनुसंधत्ते य इदं परमात्मनः ॥
नारायणस्य माहात्म्यं स न याति पुनर्भवम्
॥३६॥चिदानन्दमयः साक्षी निर्गुणो निरुपाधिकः ॥
नित्योऽपि भजते तांतामवस्थां स यदृच्छया
॥३७॥पवित्राणां पवित्रं यो ह्यगतीनां परा गतिः ॥
दैवतं देवतानां च श्रेयसां श्रेय उत्तमम्
॥३८॥बोध्यानां बोध्य एकोऽसौ ध्येयानां ध्येय उत्तमः ॥
विनयानां समधिको विनयो नयसंयुतः
॥३९॥तेजसां जनकं तेजः प्रकृष्टं तपसां तपः ॥
आधारः सर्वभूतानामनाद्यन्तो जनार्दनः
॥४०॥तस्येदं भावविज्ञाने मूढा ब्रह्मादयोऽपि च ॥
अजो गृह्णाति जननं सर्वात्मा हन्ति विद्विषः
॥४१॥स्वतन्त्रोऽपि स्वभक्तानां परतन्त्रः प्रवर्तते ॥
स साक्षी कर्मणां देवः सर्वज्ञो गरुडध्वजः
॥४२॥तस्य स्वरूपं मुनयो मृगयन्ते समाहिताः ॥
सङ्कर्षणो वासुदेवः प्रद्युम्नश्च तथा पुनः
॥४३॥अनिरुद्ध इति ख्यातं तन्मूर्तीनां चतुष्टयम् ॥
कीर्तितः प्रणवः पश्चाद्धृदयं तस्य भास्वरम्
॥४४॥भगवान्वासुदेवश्च मन्त्रोऽयं तत्प्रकाशकः
॥४५॥मन्त्रराजमिमं नित्यं प्रजपेद्यः समाहितः ॥
स विष्णोः करुणायोगात्सिद्धीनां भाजनं भवेत्
॥४६॥अथ भगवत्कृतभूतसृष्ट्यादिवर्णनम् ॥
आपन्निवारकः संपत्प्रापको भुक्तिमुक्तिदः ॥
यथा ससर्ज भूतानि कल्पादावेव माधवः
॥४७॥तत्सर्वं कथयिष्यामि समाहितमनाः शृणु ॥
तस्य चिन्तयतः सर्गं तेजोरूपं परं हरेः
॥४८॥विरिंच इति विख्यातं राजसं गुणमाश्रितम् ॥
तस्य देवस्य वदनाच्छक्रो देवः सपावकः ॥
जज्ञे यश्च त्रिलोकेशः पाककर्मणि यः प्रभुः
॥४९॥मनसश्चाभवच्चन्द्रः करुणानित्यशीतलात् ॥
अपां सर्वौषधीनां च विप्राणां रक्षकः सदा
॥५०॥नेत्राभ्यामुदभूत्सूर्यस्तस्य विश्वप्रकाशकः ॥
शीतोष्णवर्षकृत्कालकारणं तेजसां निधिः
॥५१॥प्राणेभ्योऽस्य जगत्प्राणः समीरः समजायत ॥
धर्ता ग्रहर्क्षस्वर्गंगा विमानानां महाबलः
॥५२॥नाभिदेशात्समुत्पन्नमन्तरिक्षं महात्मनः ॥
तस्यासीच्छिरसो व्योम भूतसंभवकारणम्
॥५३॥पादाम्बुजाभ्यामुदभूद्भूमिर्भूतगणाश्रया ॥
विनिःसृता दिशः सर्वाः श्रोत्राभ्यां परमात्मनः
॥५४॥भूर्भुवाद्यास्तथा लोकाः स्मरणात्तस्य जज्ञिरे ॥
रसातलादिलोकाश्च यक्षरक्षोगणादयः
॥५५॥मुखबाहूरुपादेभ्यो जनयामास स क्रमात् ॥
ब्राह्मणान्क्षत्त्रियान्वैश्याञ्छूद्रादींश्च कुरूद्वह
॥५६॥छन्दांसि यज्ञस्तुरगा गावो मेषाविकादयः ॥
अतर्क्यप्रभवां तस्मादुत्पत्तिं प्रतिपेदिरे
॥५७॥संकल्पाद्देवदेवस्य तस्य स्थावरजंगमम् ॥
भूतजातमभूत्कालो भूतो भावी भवंस्तथा
॥५८॥पिबत्यम्बु समुद्राणां बडवानलरूपधृक ॥
कल्पान्तकाले तत्सर्वं विसृजत्यात्मनि स्थितम्
॥५९॥सञ्चारयति भूतानां वृत्तिं सूर्येन्दुरूपधृक् ॥
तमोनिरसनाच्चापि कालधर्मप्रवर्तनात्
॥६०॥जगन्ति कल्पविरमे विन्यस्य स्वोदरान्तरे ॥
लीलाबालाकृतिः शेते वटपत्रे महाम्बुधौ
॥६१॥अथ चोदग्रभोगीन्द्रभोगतल्पे सुखोचिते ॥
योगनिद्रामवाप्नोति सद्वितीयोऽब्जवासया
॥६२॥नाभिकासारसंभूताज्जनयामास पंकजात्
॥६३॥सर्वेषां जगतां नाथो विधातारं चतुर्मुखम्
॥६४॥लीला ह्येषा मुकुन्दस्य स्वेच्छायोगप्रवर्तिनः ॥
विज्ञायते न केनाऽपि याथार्थ्येन स ईश्वरः
॥६४॥यदा धर्मस्य हानिः स्यादधर्मो वर्धते यदा ॥
यदा वा महतीं पीडां भजन्ते देवतागणाः
॥६५॥यदावलेपदुर्वारा यांति वृद्धिं सुरद्रुहः ॥
भूमेर्भूमिजनानां च यदोदेति महद्भयम्
॥६६॥यदा वा निजभक्तानां साधूनामनिवारिता ॥
दुरन्तातंकजननी विपत्समुपजायते
॥६७॥तदा तदनुरूपाणि रूपाण्यास्थाय कौतुकात् ॥
अधर्ममवधूयाशु कुरुते जगतो हितम्
॥६८॥सृजति विधिसमाख्यो राजसेनात्मनाऽसौ वहति हरिसमाख्यः सत्त्वनिष्ठः प्रपञ्चम् ॥
हरति हरसमाख्यस्तामसीमेत्य वृत्तिं मधुमथनमहिम्नामस्ति वेत्ता न कोऽपि
॥६९॥यज्ञांगैः कृतसकलांगसंधिबंधं वाराहं वपुरधिगम्य लोकनाथः ॥
शैलेऽस्मिन्नभजदसौ यथा निवासं तद्वक्ष्ये शृणु विबुधाधिनाथसूनो
॥७०॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवेंकटाचलमाहात्म्ये सुवर्णमुखरीमाहात्म्ये विष्णुमाहात्म्यप्रस्तावे सृष्ट्यादिवर्णनंनाम पञ्चत्रिंशोऽध्यायः ॥ ३५ ॥