सुवर्णमुखर्याविर्भाववर्णनम्
अथ नद्युत्पादनायागस्त्वं प्रति अशरीर्युक्तिः ॥
भरद्वाज उवाच ॥
स कदाचिन्मुनिवरः कृतपौर्वाह्निकक्रियः ॥
विवेश देवतागारं समाराधयितुं शिवम्
॥१॥अदृश्यरूपा वाग्देवी तत्राश्रावि महात्मना ॥
तेनाद्भुतोपपन्नेन व्यक्तवर्णसमुज्ज्वला
॥२॥आकाशवाण्युवाचैनमगस्त्यं जपतां वरम् ॥
नदीहीनो ह्ययं देशः प्रसिद्धोऽपि न शोभते
॥३॥ज्ञानविज्ञानविमुखः साकार इव भूसुरः ॥
दीक्षेव दक्षिणाहीना ज्योत्स्नाहीनेव शर्वरी
॥४॥न विभाति नदीहीना पृथ्वीयं भूसुरोत्तम ॥
प्रवर्तय नदीं काञ्चिल्लोकानां हितकाम्यया
॥५॥अगाधदुरितोद्भूतभीतिमोचनशालिनीम् ॥
हितमेतत्सुरौघानामेतन्मुनिवरार्थितम्
॥६॥भद्रमेतन्मनुष्याणामेतदाचर सुव्रत ॥
देवानामृषिवर्याणां भूजनानां हितावहाम्
॥७॥पापपंकप्रशमनीं प्रवर्तय महानदीम्
॥८॥श्रीभरद्वाज उवाच
तदाकर्ण्य वचो विप्रः क्षणं चिन्तापरायणः ॥
समाप्य देवतापूजां बहिर्वेद्यामुपाविशत्
॥९॥आनाययामास तदा तदाश्रमगतान्मुनीन् ॥
तेषामकथयच्चासौ दिव्यवाणीरितं वचः
॥१०॥तदद्भुतमुपश्रुत्य मुनयो हृष्टमानसाः
॥११॥अभिवन्द्य मुनिश्रेष्ठं मैत्रावरुणिमब्रुवन्
॥१२॥अथ सुवर्णमुखर्युत्पादनायागस्त्यं प्रति महर्षिप्रार्थना ॥
मुनय ऊचुः ॥
आश्चर्याणां महाश्चर्यं मंगलानां च मंगलम् ॥
तवैव शोभते दिव्यं त्वच्चरित्रं कृपानिधे
॥१३॥तव हुंकारमात्रेण भ्रष्टो देवाधिराज्यतः ॥
नहुषः कीटतां प्राप ततश्चित्रं न विद्यते
॥१४॥समावृतधराचक्रः कल्लोलाताडिताम्बरः ॥
किं न्वतो विद्यते चित्रं यदब्धिश्चुलकीकृतः
॥१५॥सूर्यमार्गनिरोधार्थं प्रवृत्तो विन्ध्यभूधरः ॥
त्वया प्रशांतिं गमितः किं न्वतो विद्यते परम्
॥१६॥तवाद्भुतानि कर्माणि कः स्तोतुं प्रभवेद्भुवि ॥
मन्महाभाग्ययोगात्त्वं प्राप्तोऽसीति शरीरिताम्
॥१७॥वयं कृतार्थाः संजातास्त्रैलोक्ये यन्महामुने ॥
निवसामोऽत्र भवता सनाथा ह्याश्रमस्थले
॥१८॥वर्ण्यो हि याम्यतो दूरे विषयोऽयं द्विजोत्तम ॥
समस्तवस्तुपूर्णोपि नदीहीनो न राजते
॥१९॥किमलब्धनदीस्नानेनाऽमुना हतजन्मना ॥
अनदीके जनपदे वासादजननं वरम्
॥२०॥परिपाकस्तु भाग्यानामस्माकं समुपस्थितः ॥
यदादिष्टोसि विबुधैः प्रवर्तय महानदीम्
॥२१॥प्रवर्तितायां देशेस्मिन्महानद्यां तवानघ ॥
कदा नु खलु यास्यामः कृतस्नाना कृतार्थताम्
॥२२॥किं वितर्केण बहुना प्रयत्नः क्रियतां धुवम् ॥
समानेतुं जगद्वन्द्यां शरण्यां सरिदुत्तमाम्
॥२३॥श्रीभरद्वाज उवाच
स तेषां वचनं हृद्यं मानयित्वा महाद्विजः ॥
समानेष्यामि सरितमिति चक्रे विनिश्चयम्
॥२४॥अथ सुवर्णमुखर्याविर्भावायागस्त्यकृततपःप्रकारः ॥
मुनीश्वरैरनुज्ञातस्तानभ्यर्च्य सुरानपि ॥
विशेषपूजां विधिवद्विधाय पुरविद्विषः
॥२५॥अंगीकृत्य व्रतं गाढं बहुलक्लेशदुःसहम् ॥
अनन्यसुलभं यत्नात्स चकार महत्तपः
॥२६॥घोरेषु घर्मदिवसेष्वन्तरस्थो हविर्भुजाम् ॥
चतुर्णां सवितृन्यस्तदृष्टिर्नापययौ क्लमम्
॥२७॥वार्षिकेषु दिनेषूग्रवायुसम्पातदुःसहैः ॥
आसारैस्ताड्यमानोऽपि नोद्वेगमगमद्धृदि
॥२८॥हेमन्ते समये तिष्ठन्कण्ठदघ्नेषु वारिषु ॥
जपध्यानपरो भूत्वा न किञ्चिद्विकृतिं ययौ
॥२९॥ततः समीहितार्थस्य विलम्बमवलोक्य सः ॥
पुनर्गाढतरां निष्ठां प्रपेदे लोकभीषणाम्
॥३०॥निगृह्य मानसीं वृत्तिं निराहारो जितेन्द्रियः ॥
अविज्ञातबहिर्वृत्तिस्तस्थौ पाषाणवत्तदा
॥३१॥एवं तपस्यतस्तस्य सर्वाङ्गेषु हुताशनः ॥
अभ्रंलिहो ज्वलज्ज्योतिर्निश्चक्राम भयङ्करः
॥३२॥ततोऽद्भुतशिखाजालैरावृताः सर्वतो दिशः ॥
समुदग्रभयोद्विग्ना जनौघाः परिचुक्रुशुः
॥३३॥तदा तथाविधं घोरं जगत्संक्षोभमागतम् ॥
देवा विज्ञापयामासुर्नमस्कृत्याब्जजन्मने
॥३४॥अथागस्त्याश्रमं प्रति चतुर्मुखागमनम् ॥
तानाश्वास्य ततो ब्रह्मा सिद्धगन्धर्वसेवितः ॥
प्रादुरासीत्कुम्भभुवः पुरोभागे तपस्यतः
॥३५॥तमागतं समालोक्य ब्रह्माणं परमं द्विजः ॥
प्रणम्य विविधैः स्तोत्रैस्तोषयामास तन्मनाः
॥३६॥ततस्तं विनयानम्रमगस्त्यं वीक्ष्य पद्मभूः ॥
प्रसादसुमुखो भूत्वा पूतां गिरमुपाददे
॥३७॥ब्रह्मोवाच
परितुष्टोऽस्मि तपसा दुश्चरेण तवानघ ॥
वृणीष्व यद्यदिष्टं ते तत्तद्दास्यामि सुव्रत
॥३८॥अगस्त्य उवाच
तव प्रसादात्सकलमुपपन्नं मम प्रभो ॥
संप्रयच्छसि चेत्कामं याचे निःशंकया धिया
॥३९॥नदीहीनमिमं देशं दृष्ट्वा खिद्यति मे मनः ॥
अर्थाववोधरहितं श्रुतिपाठमिवाधिकम्
॥४०॥उर्वीं पावयितुं दक्षां रक्षितुं च महानदीम् ॥
प्रसादं कुरु देवेश ममेष्टमिदमेव हि
॥४१॥अथागस्त्यप्रार्थनया गङ्गां प्रति चतुर्मुखचोदना ॥
श्रीभरद्वाज उवाच ॥
अगस्त्यस्य वचः श्रुत्वा भूयादेवमिति ब्रुवन् ॥
सस्मार मनसा ब्रह्मा सुरवर्त्माश्रयां नदीम्
॥४२॥अथोपेत्य वियद्गंगा पुरस्तात्परमेष्ठिनः ॥
अतिष्ठन्मुकुटन्यस्तप्रशस्ताञ्जलिभासुरा
॥४३॥स्वशासनात्समायातां विनयानतमस्तकाम् ॥
तां सर्वजगतां धात्रीमिदं वचनमब्रवीत्
॥४४॥ब्रह्मोवाच
गंगे मयानुशास्यासि कार्ये लोकोपकारके ॥
तवापि लोकरक्षायां ममेव नियता स्थितिः
॥४५॥देशे नदीविहीनेऽत्र प्रवर्तयितुमापगाम् ॥
हितार्थं सर्वलोकानां कुम्भजन्मा समीहते
॥४६॥तस्मात्त्वमवतीर्योर्वीं स्वांशेनैकेन भूजनान् ॥
पुनीहि गच्छ वसुधामेतद्दर्शितवर्त्मना
॥४७॥भूलोके संप्रवृत्ते तु प्रवाहे सिद्धिकांक्षिणः ॥
सेविष्यन्ते सुरवरा मुनिवर्याश्च संततम्
॥४८॥नदीषूत्तमतां याहि त्राहि त्वत्संश्रयाञ्जनान् ॥
कुरु प्रियमगस्त्यस्य गच्छ भद्रे यथासुखम्
॥४९॥भरद्वाज उवाच
इत्युक्त्वान्तर्दधे ब्रह्मा तया नद्या च तेन च ॥
प्रणामपूजनस्तोत्रैर्विशेषैरभिनन्दितः
॥५०॥अथागस्त्यसमीपे स्वांशत्वेन गंगाकृतनद्युत्पत्त्यभ्युपगमः ॥
अथ गंगा मुनिपतेः पुरस्तात्स्वांशसंभवाम् ॥
दिव्यतेजोमयीं मूर्तिं दर्शयित्वा वचोऽब्रवीत्
॥५१॥गंगोवाच
मदीयांशोऽयमवनीं संप्राप्य मुनिवल्लभ ॥
पूरयिष्यति तेऽभीष्टं नदीरूपं समाश्रितः
॥५२॥भरद्वाज उवाच
इत्युक्त्वा सिद्धवाहिन्यां गतायां तत्प्रयुक्तया ॥
गन्तव्यं वर्त्मना केनेत्युक्तो मुनिरुवाच ताम्
॥५३॥अगस्त्य उवाच
गच्छन्पुरस्तात्कल्याणि त्वदीयगमनोचितम् ॥
अहं प्रदर्शयिष्यामि मार्गं त्वं मामनुव्रज
॥५४॥इत्युक्ता मुनिना तेन संप्रहृष्टा तवानघ ॥
यदिष्टं तत्करिष्येऽहमिति प्रोवाच सा शुभा
॥५५॥अथ मुनिरवतार्य तां नगेन्द्राद्धृततटिनीतनुमभ्रसंगिशृङ्गात् ॥
मुदिततरमना ययौ पुरस्तात्तदभिमतां पदवीं प्रदर्शयन्सः
॥५६॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवेंकटाचलमाहात्म्ये श्रीसुवर्णमुखरीमाहात्म्यप्रशंसायां सुवर्णमुखर्याविर्भाववर्णनंनाम द्वात्रिंशोऽध्यायः ॥ ३२ ॥