मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — वेङ्कटाचलमाहात्म्यम्, अध्याय १५

3
वैष्णवखण्डः · वेङ्कटाचलमाहात्म्यम् · 15

रामकृष्णतीर्थमहिमानुवर्णनम्

अथ रामकृष्णतीर्थमाहात्म्यम् ॥

श्रीसूत उवाच ॥

वेंकटाख्ये महापुण्ये सर्वपातकनाशने ॥

कृष्णतीर्थस्य माहात्म्यं शृणुध्वं सुसमाहिताः

॥१॥

यत्र मज्जनमात्रेण कृतघ्नोऽपि विमुच्यते ॥

पितॄन्मातॄर्गुरूंश्चावमन्यंते मोहमोहिताः

॥२॥

ये चाप्यन्ये दुरात्मानः कृतघ्ना निरपत्रपाः ॥

ते सर्वे कृष्णतीर्थेस्मिञ्छुद्ध्यन्ति स्नानमात्रतः

॥३॥

कृष्णनामा मुनिः पूर्वं वेंकटाहृयभूधरे ॥

अवर्तत तपः कुर्वन्विष्णुं ध्यायन्समाहितः

॥४॥

स तत्र कल्पयामास स्नानार्थं तीर्थमुत्तमम् ॥

तत्र स्नात्वा सकृन्मर्त्यः कृतघ्नोऽपि विमुच्यते

॥५॥

अत्रेतिहासं वक्ष्यामि पुराणं पापनाशनम् ॥

यस्य श्रवणमात्रेण नरो मुक्तिमवाप्नुयात्

॥६॥

पुरा बभूव विप्रेन्द्रो रामकृष्णो महामुनिः ॥

सत्यवाञ्छीलवान्वाग्मी सर्वभूतदयान्वितः

॥७॥

शत्रुमित्रसमो दान्तस्तपस्वी विजितेंद्रियः ॥

परे ब्रह्मणि निष्णातो ब्रह्मतत्त्वैकसंश्रयः

॥८॥

एवंप्रभावः स मुनिस्तपस्तेपे सुदारुणम् ॥

स वै निश्चलसर्वांगस्तिष्ठन्सर्वत्र भूतले

॥९॥

परमाण्वन्तरं वापि न स्वस्थानाच्चचाल सः ॥

स्थित्वा तत्र तपस्यंतमनेकशतवत्सरान्

॥१०॥

तं चाक्रमत वल्मीकं छादितांगं चकार वै ॥

वल्मीकाक्रान्तदेहोऽपि रामकृष्णो महामुनिः

॥११॥

अकरोत्तप एवासौ वल्मीकं न त्वबुध्यत ॥

तस्मिंश्च तप्यति तपो वासवो मुनिपुंगवे

॥१२॥

विसृज्य मेघजालानि वर्षयामास वेगवान् ॥

एवं दिनानि सप्तायं ववर्ष च निरन्तरम्

॥१३॥

धारावर्षेण महता वृष्यमाणोपि वै मुनिः ॥

तद्वर्षं प्रतिजग्राह निमीलितविलोचनः

॥१४॥

महता स्तनितेनाशु तदा बधिरयन्छ्रुतीः ॥

वल्मीकस्योपरिष्टाद्वै निपपात महाशनिः

॥१५॥

तस्मिन्वर्षति पर्जन्ये शीतवातादिदुःसहे

॥१६॥

अथ रामकृष्णाख्यमहर्षितपःप्रसन्नभगवदाविर्भावः ॥

वल्मीकशिखरं ध्वस्तं बभूवाशनिताडितम् ॥

तदाप्रादुरभूद्देवः शङ्खचक्रगदाधरः

॥१७॥

विनतानन्दनारूढो वनमालाविभूषितः ॥

रामकृष्णस्य तपसा तोषितो वाक्यमब्रवीत्

॥१८॥

तपोनिधे रामकृष्ण वेदशास्त्रार्थपारग ॥

मदाविर्भावदिवसे यः स्नाति मनुजोत्तमः

॥१९॥

तस्य पुण्यफलं वक्तुं शेषेणापि न शक्यते ॥

मकरस्थे रवौ विप्र पौर्णमास्यां महातिथौ

॥२०॥

पुष्यनक्षत्रयुक्तायां स्नानकालो विधीयते ॥

तद्दिने स्नाति यो मर्त्यः कृष्णतीर्थं महामतिः

॥२१॥

सर्वपापविनिर्मुक्तः सर्वान्कामाँल्लभेत सः ॥

मदाविर्भावदिवसे कृष्णतीर्थजले शुभे

॥२२॥

स्नातुं तत्र समायांति स्वपापपरिशुद्धये ॥

देवा मनुष्याः सर्वे च दिक्पालाश्च महौजसः

॥२३॥

एते सर्वे महात्मानः कोटिसूर्यसमप्रभाः ॥

ते सर्वे कृष्णतीर्थेस्मिन्स्नानात्पूता भवंति हि

॥२४॥

त्वन्नाम्नेदं महातीर्थं लोके प्रख्यातिमेष्यति ॥

इत्युक्त्वा श्रीनिवासश्च तत्रैवान्तरधीयत

॥२५॥

एवं प्रभावं तत्तीर्थं महापापविशोधनम् ॥

बुद्धिशुद्धिप्रदं पुसां सर्वैश्वर्यप्रदायकम्

॥२६॥

एवं वः कथितं विप्राः कृष्णतीर्थस्य वैभवम् ॥

शृण्वतां पठतां चैव विष्णुलोकप्रदायकम्

॥२७॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां सहितायां द्वितीये वैष्णवखण्डे श्रीवेंकटाचलमाहात्म्ये रामकृष्णतीर्थमहिमानुवर्णनंनाम पञ्चदशोऽध्यायः ॥ १५ ॥