मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — वेङ्कटाचलमाहात्म्यम्, अध्याय १७

3
वैष्णवखण्डः · वेङ्कटाचलमाहात्म्यम् · 17

क्षेत्रमहिमानुवर्णनम्

अथ श्रीवेंकटाचलक्षेत्रादिवर्णनम् ॥

श्रीसूत उवाच ॥

वेंकटाद्रेस्तु माहात्म्यं भूयोऽपि प्रवदाम्यहम् ॥

युष्माकं सावधानेन शृणुध्वं सुसमाहिताः

॥१॥

पृथिव्यां यानि तीर्थानि ब्रह्माण्डान्तर्गतानि च ॥

तानि सर्वाणि वर्तंते वेंकटाह्वयभूधरे

॥२॥

तस्मिन्नगोत्तमे पुण्ये वसन्तं पुरुषोत्तमम् ॥

शंखचक्रधरं देवं पीताम्बरधरं शुभम्

॥३॥

कौस्तुभालंकृतोरस्कं भक्तानामभयप्रदम् ॥

देवदेवं विशालाक्षं वेदवेद्यं सनातनम्

॥४॥

अंगकोसलकर्णाटकाशीगुर्जरदेशगाः ॥

चोलकेरलपाण्ड्यादिसर्वदेशसमुद्भवाः

॥५॥

सकुटुंबाश्च सेवार्थमायान्ति प्रतिवत्सरम् ॥

देवाश्च ऋषयः सिद्धा योगिनः सनकादयः

॥६॥

ये भाद्रपदमासे तु वेंकटेशमहोत्सवे ॥

सेवां कुर्वन्ति ते सर्वे निष्पापा उत्तमोत्तमाः

॥७॥

तत्र श्रीवेंकटेशस्य ब्रह्मा लोकपितामहः ॥

चकार कन्यामासे तु ध्वजारोपमहोत्सवम्

॥८॥

प्रतिवर्षं च तत्सेवा निमित्तं सर्वमानवाः ॥

सर्वे देवाश्च गंधर्वाः सिद्धाः साध्या महौजसः

॥९॥

ब्रह्मोत्सवे भगवतः समायांति द्विजोत्तमाः ॥

विद्यानां वेदविद्येव मंत्राणां प्रणवो यथा

॥१०॥

प्राणवत्प्रियवस्तूनां धेनूनां कामधेनुवत् ॥

तथा वेंकटशैलेन्द्रः क्षेत्राणामुत्तमोत्तमः

॥११॥

शेषवत्सर्वनागानां पक्षिणां गरुडो यथा ॥

देवानां तु यथा विष्णुर्वर्णानां ब्राह्मणो यथा

॥१२॥

तथा वेंकटशैलेन्द्रः क्षेत्राणामुत्तमोत्तमः ॥

भूरुहाणां सुरतरुर्भार्येव सुहृदां यथा

॥१३॥

तीर्थानां तु यथा गंगा तेजसां तु रविर्यथा ॥

तथा वेंकटशैलेन्द्रः क्षेत्राणामुत्तमोत्तमः

॥१४॥

आयुधानां यथा वज्रं लोहानां कांचनं यथा ॥

वैष्णवानां यथा रुद्रो रत्नानां कौस्तुभो यथा

॥१५॥

तथा वेंकटशैलेन्द्रः क्षेत्राणामुत्तमोत्तमः ॥

नानेन सदृशो लोके विष्णुप्रीतिविवर्धनः

॥१६॥

न माधवसमो मासो न कृतेन समं युगम् ॥

न च वेदसमं शास्त्रं न तीर्थं गंगया समम्

॥१७॥

न जलेन समं दानं न सुखं भार्यया समम् ॥

न कृषेस्तु समं वित्तं न लाभो जीवितात्परः

॥१८॥

न तपोऽनशनादन्यन्न दानात्परमं सुखम् ॥

न धर्मस्तु दयातुल्यो न ज्योतिश्चक्षुषा समम्

॥१९॥

न तृप्तिरशनातुल्या न वाणिज्यं कृषेः समम् ॥

न धर्मेण समं मित्रं न सत्येन समं यशः

॥२०॥

यथा तथा भगवतः स्थानेन सदृशं न हि

॥२१॥

यत्कीर्तनं सकलपापहरं मुनीन्द्रा यद्वन्दनं सकलसौख्यदमेव लोके ॥

यात्रापि यं प्रति सुरैरपि पूजनीया तादृङ्महान्भवति वेंकटशैलमुख्यः

॥२२॥

तस्यानुभावं प्रवदामि भूयः समस्ततीर्थानि वसंति यत्र ॥

एवं समस्तेषु च मुख्यतीर्थं श्रीस्वामिनामास्ति सरोवरं तत्

॥२३॥

माहात्म्यमेतस्य मयोच्यते कथं यत्पश्चिमे रोधसि भूवराहः ॥

आलिंग्य कान्तामतिसौम्यमूर्तिर्विराजते विश्वजनोपकारी

॥२४॥

श्रीस्वामिपुष्करिण्यां च दक्षिणे वेंकटेश्वरः ॥

आलिंगितवपुर्लक्ष्म्या वरदो वर्तते चिरम्

॥२५॥

एवं वः कथितं विप्राः क्षेत्रमाहात्म्यमुत्तमम् ॥

यः शृणोति सदा भक्त्या विष्णुलोके महीयते

॥२६॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवेंकटाचलमाहात्म्ये क्षेत्रमहिमानुवर्णनंनाम सप्तदशोऽध्यायः ॥ १७ ॥