अथाऽगस्त्यशङ्खादितपस्तुष्टस्य भगवत आविर्भावः
अथाऽगस्त्यशङ्खादितपस्तुष्टस्य भगवत आविर्भावः ॥
भरद्वाज उवाच ॥
तेषां हरौ जगन्नाथे समावेशितचेतसाम् ॥
दिनत्रयं गतं तत्र पूजास्तोत्रपरात्मनाम्
॥१॥तृतीये दिवसे प्राप्ते ते सर्वे निद्रिता निशि ॥
अन्ते चतुर्थयामस्य ददृशुः स्वप्नमुत्तमम्
॥२॥शङ्खचक्रगदापाणिं प्रसन्नं पुरुषोत्तमम् ॥
वरदानाय संप्राप्तमपश्यन्स्मेरलोचनम्
॥३॥उत्थाय मुदितात्मानो गृहान्निर्गत्य पावने ॥
स्वामिपुष्करिणीतोये सस्नुर्विधिवदादरात्
॥४॥विधाय विधिवत्कर्म सर्वे दिनमुखोचितम् ॥
गृहान्प्रत्याययुर्देवमाराधयितुमच्युतम्
॥५॥सद्यः श्रेयस्करं मार्गे निमित्तं पक्षिसृचितम् ॥
दृष्ट्वा प्रसादं देवस्य करस्थं मेनिरे तदा
॥६॥ततस्त्रिलोककर्तारं पूजयित्वा जनार्दनम् ॥
तुष्टुवुर्विविधैः स्तोत्रैः पवित्रैर्वेदवर्णितैः
॥७॥स्तोत्रावसाने कौन्तेय मुनीन्द्रः कुम्भसंभवः ॥
जजाप शंखसहितो मन्त्रमष्टाक्षरं हरेः
॥८॥इत्थं तेषां जगत्स्वामिन्यच्युतेऽर्पितचेतसाम् ॥
अग्रभागे प्रादुरभूदेकं तेजो महाद्भुतम्
॥९॥अनेककोटिसंख्यानामादित्येन्दु हविर्भुजाम् ॥
एकीभूयाम्बरतले ज्योतिर्जालमिव स्थितम्
॥१०॥तत्तेजो वीक्ष्य ते सर्वेऽमितान्ताश्चर्यगोचराः ॥
दध्युर्नारायणं दिव्यं परमानन्दविग्रहम्
॥११॥वाङ्मानसपथातीतं विश्रुतैश्वर्यभासुरम् ॥
सहस्रनेत्रं साहस्रबाहुपादैः समन्वितम्
॥१२॥तप्तकार्तस्वरनिभस्फुरत्कांतिमनोहरम ॥
दंष्ट्राकरालं दुर्दर्शं वमन्तं दहनच्छटाः
॥१३॥कौस्तुभेन विराजन्तं दधानमुरसि श्रियम् ॥
अविचिन्त्यमनाद्यन्तमत्यन्तभयदायकम्
॥१४॥प्रकाशयन्तं ब्रह्माण्डं सर्वमात्मनि सर्वगम् ॥
अगस्त्यशंखप्रमुखास्ते सर्वे हृष्टचेतसः
॥१५॥तमालोक्य जगन्नाथं भूयोभूयो ववन्दिरे ॥
भ्रमन्ति लोकरक्षार्थमायुधानि तदा हरेः
॥१६॥निजतेजोबलोपेतान्याजग्मुस्तं निषेवितुम् ॥
चक्रमर्कप्रभं दिव्या गदा खङ्गश्च नन्दकः
॥१७॥पुण्डरीकं चोग्ररवः पाञ्चजन्यः शशिप्रभः ॥
तदा ब्रह्माण्डमखिलं पूरयामास निर्भरः
॥१८॥पाञ्चजन्यस्य निनदः सर्वासुरभयंकरः ॥
पाञ्चजन्यध्वनिं श्रुत्वा नितान्ताश्चर्यभीषणम्
॥१९॥आययुर्देवताः सर्वाः स्वंस्वं वाहनमास्थिताः ॥
ब्रह्मा रुद्रः शतमखः सनकाद्याश्च योगिनः
॥२०॥वसिष्ठमुख्या मुनयो गन्धर्वोरगकिन्नराः ॥
विष्वक्सेनो गरुत्मांश्च विष्णुभृत्या जयादयः
॥२१॥सरूपाश्चैव ये नित्याः श्वेतद्वीपनिवासिनः ॥
सुमनोद्रुमसंभूता सुमनोवृष्टिरद्भुता
॥२२॥पपात मेदुरामोदमोदिताशेषमानसा ॥
ननृतुर्दिव्यसुदृशो जगुः किन्नरपुङ्गवाः
॥२३॥तुष्टुवुर्हर्षतरलाः सुरगन्धर्वचारणाः ॥
दृष्ट्वा ते पुण्डरीकाक्षं प्रसन्नं भक्तवत्सलम्
॥२४॥प्रणम्य तोषयामासुः साष्टांगं विविधैस्तवैः
॥२५॥ब्रह्मादय ऊचुः
जय विष्णो कृपासिन्धो जय तामरसेक्षण ॥
जय लोकैकवरद जय भक्तार्तिभञ्जन
॥२६॥अनन्तमक्षरं शान्तमवाङ्मनसगोचरम् ॥
को वा भवन्तं जानाति चिदानन्दमयात्मकम्
॥२७॥अणोरणुतरं स्थूलात्स्थूलं सर्वान्तरस्थितम् ॥
त्वामामनन्ति पुरुषं प्रकृतेः परमच्युतम्
॥२८॥वेदान्तसाररूपं त्वां सर्वान्तर्बाह्यवर्तिनम् ॥
को हि वर्णयितुं शक्तो मायायत्तेषु देहिषु
॥२९॥भवदीयमिदं रूपं दृष्ट्वातिभयदायकम् ॥
भयोद्विग्ना वयं सर्वे शान्तं रूपं भजस्व ह
॥३०॥भरद्वाज उवाच
इति स्तुतो विरिञ्चाद्यैः प्रसन्नो गरुडध्वजः ॥
मेघघोषप्रतिमया वाचा सादरमब्रवीत
॥३१॥अथ ब्रह्मादिप्रार्थनया भगवद्गृहीतसौम्यरूपप्रकारः ॥
श्रीभगवानुवाच ॥
भयावहामिमां मूर्तिमुत्सृज्याहं प्रियावहम् ॥
शान्तं रूपं भजिष्यामि मां पश्यत निराकुलाः
॥३२॥इत्युक्त्वान्तर्हितो भूत्वा तस्मिन्नेव क्षणांतरे ॥
विमाने रत्नखचिते बभूव सुखदर्शनः
॥३३॥चन्द्रबिम्बाननः शान्तो नीलोत्पलदलद्युतिः ॥
सुवर्णवर्णवसनो रत्नभूषणभूषितः
॥३४॥शंखचक्रगदापद्मलसत्करचतुष्टयः ॥
तमालोक्य रमाकान्तं भूयो भूयो ववंदिरे
॥३५॥सन्तोषयित्वा ब्रह्मादीनभीष्टप्रतिपादनैः ॥
अवोचद्विनयानम्रमगस्त्यं मुनिपुंगवम्
॥३६॥श्रीभगवानुवाच
त्वं मुनीन्द्र व्रतैर्घोरैश्चीर्णैर्मां प्रति संप्रति ॥
परिक्लिष्टोऽसि दास्यामि वरांस्तेऽभीप्सितान्वद
॥३७॥भरद्वाज उवाच
निशम्य वाक्यं श्रीभर्तुः प्रणम्य च पुनःपुनः ॥
स रोमाञ्चितसर्वांगः कुम्भजन्मा वचोऽब्रवीत्
॥३८॥अथागस्त्यप्रार्थनया स्वर्णमुखरीनद्या भगवद्वत्तसर्वाधिकत्वप्राप्तिः ॥
अगस्त्य उवाच ॥
यद्धुतं यत्तपस्तप्तं यदधीतं श्रुतं मया ॥
तत्सर्वं सफलं जातमादृतोऽस्मि यतस्त्वया
॥३९॥एषोऽहमेव धर्मात्मा त्रिषु लोकेष्वपि प्रभो ॥
त्वां विचिन्वन्तमधुना मामन्विष्यागतोऽसि यत्
॥४०॥त्वत्प्रसादात्पुरैवाहं प्राप्ताखिलमनोरथः ॥
न पश्यामि विचिन्त्यापि प्राप्यं संप्रति माधव
॥४१॥तथापि चापलादेतत्तव विज्ञाप्यते प्रभो ॥
त्वत्पादाम्बुजयोर्भक्तिमेवं कुरु निरन्तरम्
॥४२॥अवधारय चैतत्त्वं सुरप्रार्थनया मया ॥
नदी सुवर्णमुखरी स्नाताघौघविनाशिनी
॥४३॥सा भवच्छैलकटकसमासन्ना समागता ॥
तां कृतार्थय लोकेश त्वदनुग्रहवृत्तिभिः
॥४४॥सुवर्णमुखरीतोये स्नात्वा ये वेंकटे स्थितम् ॥
पश्यंति भुक्तिमुक्त्योस्तु भूयासुर्भाजनानि ते
॥४५॥अल्पायुषो नरा मूढा ज्ञानयोगपरिच्युताः ॥
न शक्नुवंति त्वां द्रष्टुं व्रताध्ययनकर्मभिः
॥४६॥सदास्मिन्नास्थितः शैले सर्वेषां च जगद्गुरो ॥
प्रसादसुमुखो देव कांक्षितार्थप्रदो भव
॥४७॥श्रीभगवानुवाच
यत्प्रार्थितं त्वया विप्र तत्तथैव भविष्यति ॥
नूनमप्रतिमा लोके मयि भक्तिः कृता त्वया
॥४८॥जाह्नवीव नदी सेयं सुवर्णमुखरी मुने ॥
स्यादाशास्या सुराणां च वांछितश्रीविधायिनी
॥४९॥स्वामिपुष्करिणी चेयं नदी मूर्त्या समन्विता ॥
संक्रमिष्यति तां दिव्यां नदीं तीर्थौघसंश्रयाम्
॥५०॥वैकुण्ठनाम्नि शैलेऽस्मिन्नद्यप्रभृति सर्वदा ॥
कृतावासो भविष्यामि मुने प्रार्थनया तव
॥५१॥सुवर्णमुखरीस्नानक्षालिताघौघकर्दमाः ॥
अस्मिन्वैकुण्ठशैले मां ये पश्यंति समाहिताः
॥५२॥भुवि पुत्रादिसंपन्नाः सर्वैश्वर्यसमन्विताः ॥
मृतास्त्रिविष्टपे भोगानाकल्पमनुभूय च
॥५३॥पुनरावृत्तिरहितं केवलानन्दभासुरम् ॥
मत्पदं समवाप्स्यन्ति नात्र कार्या विचारणा
॥५४॥मां द्रष्टुमागतान्सर्वान्प्रतीक्ष्याभीप्सितैः शुभैः ॥
योजयिष्यामि सततं त्वद्वचोगौरवान्मुने
॥५५॥पुत्रार्थिनां बहून्पुत्रान्धनानि च धनार्थिनाम् ॥
तथैवारोग्यकामानां रोगशांतिं गरीयसीम्
॥५६॥तीव्रापत्परिभूतानां तथैवापन्निवारणम् ॥
दास्याम्यभीप्सितान्भोगान्दुर्लभानपि सर्वदा
॥५७॥ये यान्कामानपेक्ष्येह प्रेक्षन्ते मां समागताः ॥
अवाप्नुवन्ति ते सर्वे तांस्तान्कामान्न संशयः
॥५८॥स्थिता वा यत्र कुत्रापि मां स्मरन्ति नरोत्तमाः ॥
ते सर्वे वाञ्छितां सिद्धिं लभन्ते मत्प्रसादतः
॥५९॥अथ शङ्खनृपवरप्रदानपूर्वकं भगवदन्तर्धानम् ॥
भरद्वाज उवाच ॥
इत्युक्त्वा तं मुनिं देवः शंखमालोक्य भूपतिम् ॥
शृण्वतां ब्रह्ममुख्यानामिदं वचनमब्रवीत्
॥६०॥श्रीभगवानुवाच
प्रीतोऽस्मि शंख भक्त्या ते वृणीष्वाभीप्सितं वरम् ॥
ददामि वरदोऽहं ते क्रशिष्ठस्य तपस्यतः
॥६१॥शंख उवाच
न याचेऽन्यन्महाबाहो त्वत्पादाम्बुजसेवनात् ॥
यां प्राप्नुवंति त्वद्भक्तास्तां याचे गतिमुत्तमाम्
॥६२॥श्रीभगवानुवाच
यत्प्रार्थितं त्वया शंख तत्तथैव भविष्यति ॥
मत्सेवायोगभव्यानामलभ्यं किमु विद्यते
॥६३॥आकल्पमिन्द्रलोकस्थो ह्यप्सरोगणसेवितः ॥
भुक्त्वा बहुविधान्भोगांस्ततो मल्लोकमेष्यसि
॥६४॥एवं ददौ वरानिष्टाञ्छङ्खाय पृथिवीपते ॥
नारायणो जगद्योनिर्भजतां कल्पभूरुहः
॥६५॥ततो ब्रह्मादिकान्सर्वान्विसृज्य कमलेक्षणः ॥
संस्तूय मानसैर्भक्त्या तत्रैवांतर्दधे प्रभुः
॥६६॥अथ भरद्वाजवर्णितश्रीवेंकटाचलमाहात्म्यनिगमनम् ॥
भरद्वाज उवाच ॥
वेंकटाद्रेः प्रभावोऽयमाख्यातो भवतेऽर्जुन ॥
नराः पापैः प्रमुच्यंते श्रुत्वेमां पावनीं कथाम्
॥६७॥वाराहं रूपमुत्सृज्य ब्रह्मणाभ्यर्थितो हरिः ॥
मुमोदात्राद्भुताकारो मायया मोहयञ्जगत्
॥६८॥पश्चादगस्त्यशंखाभ्यां प्रार्थितः सुखदर्शनम् ॥
ददौ नितान्तसुभगं शान्तं भोगात्मकं वपुः
॥६९॥नारायणं वेंकटाद्रिं स्वामिपुष्करिणीं तथा ॥
इमामाख्यां च संस्मृत्य मुच्यंते पातकैर्जनाः
॥७०॥वेंकटाद्रिसमं स्थानं ब्रह्माण्डे नास्ति किञ्चन ॥
वेंकटेशसमो देवो न भूतो न भविष्यति
॥७१॥वेंकटाद्रिसमं स्थानं न भूतं न भविष्यति ॥
स्वामितीर्थसरस्तुल्यं न कुत्रापि च विद्यते
॥७२॥प्रातरुत्थाय ये नित्यं वेंकटेशं स्मरंति वै ॥
तेषां करस्था मोक्षश्रीर्नात्र कार्या विचारणा
॥७३॥स्वामिपुष्करिणीतीर्थे स्नात्वा सर्वात्मकं हरिम् ॥
ये वा पश्यंति नियता वराहाचलवासिनम्
॥७४॥तेऽश्वमेधसहस्रस्य वाजपेयशतस्य च ॥
प्राप्नुवंति फलं पूर्णं नात्र कार्या विचारणा
॥७५॥वेंकटाचलमाहात्म्यं ये शृण्वंति नरोत्तमाः ॥
तेषां मुक्तिश्च भुक्तिश्च इह लोके परत्र च
॥७६॥वेंकटाचलमाहात्म्यं संक्षिप्य कथितं तव ॥
अतः परं महानद्याः प्रभावः कथ्यतेऽर्जुन
॥७७॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवेंकटाचलमाहात्म्ये सुवर्णमुखरीमाहात्म्यप्रशंसायामगस्त्यशङ्खादितपस्तुष्टश्रीवेंकटेशाविर्भावादिमाहात्म्यवर्णनं नामाष्टत्रिंशोऽध्यायः ॥ ३८ ॥