वराहावतारकीर्तनम्
अथ वराहकृतधरण्युद्धरणक्रमः ॥
भरद्वाज उवाच ॥
पुरा निशात्यये धातुः प्रबुद्धो मधुसूदनः ॥
पुनः प्रवृत्तिं भूतानामन्वियेष धिया भृशम्
॥१॥विना वसुमतीमन्ये भूतौघधरणक्षमाः ॥
न भवन्तीति हृदये तर्कस्तस्याजनिष्ट च
॥२॥अपश्यत्प्रणिधानेन महीं पातालगोचराम् ॥
अतिमात्रभयोद्विग्नां परीतां महताम्बुना
॥३॥प्रतिपेदे तदा रूपं भूसमुद्धरणोचितम् ॥
उपकर्मोष्ठमनलजिह्वं प्रणवघोषणम्
॥४॥चतुराम्नायचरणं प्रायश्चित्तखुरांचितम् ॥
प्राग्वंशकायं विलसद्दर्भरोमावलीयुतम्
॥५॥प्रवर्ग्यावर्तसंपन्नं दक्षिणाग्न्युदरान्वितम् ॥
स्रुक्तुण्डमखिलैः सर्वैः संविभक्तांगसन्धिकम्
॥६॥दिव्यसूक्तसटाजालं परत्रह्मशिरस्तथा ॥
हव्यकव्यरयोपेतं विशुद्धपशुजानुकम्
॥७॥उक्तात्युक्तादिकच्छन्दोमार्गमंत्र बलान्वितम् ॥
सर्वयज्ञमयं दिव्यं वाराहं रूपमास्थितः
॥८॥अन्वेष्टुं धरणीमब्धेर्विवेश सलिलांतरम् ॥
दंष्ट्राबालशशांकोत्थलसत्कांतिचयैर्हठात्
॥९॥कल्पांतसमयस्फीतं तमिस्रमपसारयन् ॥
अभिभूतांबुभृद्घोषैर्मुहुर्ब्रह्माण्डकन्दराम्
॥१०॥निनादमुखरां कुर्वन्गाढैर्घुरुघुरुस्वनैः ॥
खुरप्रखुरविन्यासैर्जर्जरीकृतविग्रहम्
॥११॥इतस्ततो विलुठयन्नुरगाणामधीश्वरम् ॥
तीव्रैर्निःश्वासपवनैरापातालं सरित्पतेः
॥१२॥प्रापयन्नतलस्पर्शमन्तरं दर्शनीयताम् ॥
अतिदीर्घेण पात्रेण मग्नोन्मग्नेन वारिधेः
॥१३॥संक्षोभितानि पाथांसि कुर्वन्नन्तर्ययौ तदा ॥
सप्तपातालमूलाधः स्थितां तोये भयाकुलाम्
॥१४॥वेपमानां समालोक्य धरणीं हृष्टमानसः ॥
तामारोप्य स्वदंष्ट्राग्रमुन्ममज्ज सरित्पतेः
॥१५॥संस्तूयमानो मुनिभिर्जनलोकनिवासिभिः ॥
तस्मिन्नुद्वहति प्रेम्णा देवे वसुमतीं क्षणम्
॥१६॥प्रतिसारा बभूवाधो वारिधेमर्ङ्गलोचिता ॥
तदुत्तारणवेलायां वराहवपुषोऽर्जुन
॥१७॥गम्भीरघोषैरम्भोधिः प्राप मंगलतूर्यताम् ॥
उद्वृत्तवीचिविक्षिप्तशीकरासारसंगतः
॥१८॥भेजे मुक्ताफलचयो मंगलाक्षतविभ्रमम् ॥
उदूढा तेन देवेन सा बभौ सलिलाप्लुता
॥१९॥गाढरागसमुत्पन्नस्वेदक्लिन्नतनूरिव ॥
इत्थमुद्धृत्य भगवान्महीं पातालमूलतः
॥२०॥सुदृढं स्थापयामास मध्येऽम्बुनिधिपाथसाम् ॥
तेनोद्धृतायां मेदिन्यां पूर्णं तद्भूनभोन्तरे
॥२१॥जलं तत्कृतमर्यादाऽव्यवच्छिन्नमभूत्तदा ॥
संस्थाप्य पृथिवीमित्थं तदीयाधारसिद्धये
॥२२॥दिग्गजानहिराजं च कमठं च न्यवेशयत् ॥
तेषामपि च सर्वेषामाधारत्वेन सादरम्
॥२३॥अव्यक्तरूपां स्वां शक्तिं युयोज च दयानिधिः ॥
ततो धरां समुद्धृत्य स्थितं किटितनुं हरिम्
॥२४॥तुष्टुवुः सनकाद्यास्तं जनलोकनिवासिनः ॥
तदा वराहवपुषमाराध्य पुरुषोत्तमम्
॥२५॥तदाज्ञया जगद्ब्रह्मा यथापूर्वमकल्पयत्
॥२६॥अर्जुन उवाच
कल्पान्तसलिले मग्ना कथं तिष्ठति भूरियम् ॥
सप्तपाताललोकाधः किमाधारा महामुने
॥२७॥कल्पकालः कियानेष स्यात्तद्वृत्तिश्च कीदृशी
॥२८॥अथ कल्पवृत्तांतवर्णनपूर्वकं श्वेतवराहावतारवर्णनम् ॥
एतद्विस्तार्य सकलं मम ब्रह्मन्मुने वद
॥२९॥भरद्वाज उवाच
विनाडिकानां षष्ट्या स्यान्नाडिकैका दिनं भवेत् ॥
तत्षष्ट्या दिवसास्त्रिंशन्मासः पक्षद्वयात्मकः
॥३०॥मासौ द्वावृतुरित्युक्तस्तैः षङ्भिर्वत्सरो भवेत् ॥
अयनद्वितयाकारः शीतवर्षोष्णसंश्रयः
॥३१॥देवासुराणामन्योयमहोरात्रं विपर्ययात् ॥
उत्तरं दक्षिणे भानोरयने ते यथाक्रमम्
॥३२॥मानुषाब्दैः खखव्योमखाक्षिपावकसागरैः ॥
महायुगं भवेत्पार्थ कृताद्याकारसंयुतम्
॥३३॥सप्तत्या सैकया कालो युगानामन्तरं मनोः ॥
अस्मिञ्छ्वेतवराहाख्ये कल्पे जातान्मनूञ्छृणु
॥३४॥स्वायंभुवः स्यात्प्रथमस्ततः स्वारोचिषो मनुः ॥
उत्तमस्तामसाख्यश्च रैवतश्चाक्षुषाह्वयः
॥३५॥एते गताः प्राङ्मनवः षट्सेन्द्रसुरतापसाः ॥
वैवस्वतो वर्ततेऽद्य सप्तमो मनुरर्जुन
॥३६॥आदित्यवसुरुद्राद्यास्तत्काले देवतागणाः ॥
इष्ट्वाश्वमेधशतकं तेजस्वी प्राप शक्रताम्
॥३७॥विश्वामित्रोऽहमत्रिश्च जमदग्निश्च कश्यपः ॥
वसिष्ठो गौतमश्चैव ते वै सप्तर्षयोऽर्जुन
॥३८॥इक्ष्वाकुप्रमुखाः शूरा मनुपुत्रा महाबलाः ॥
अवनिं पालयामासुर्नित्यं धर्मपरायणाः
॥३९॥सूर्यदक्षब्रह्मधर्मरुद्राणां पञ्च सूनवः ॥
सावर्णिरौच्यभौमाद्या भविष्यन्मनुसप्तकम्
॥४०॥चतुर्दश विधातुस्ते भवन्ति मनवोऽहनि ॥
तत्कल्पसंज्ञं तस्यान्ते निशा स्यात्तत्समा शृणु
॥४१॥दिनावसानसमये ब्रह्मणः पाण्डुनन्दन ॥
जायतेऽवग्रहो घोरः पृथिव्यां शतवार्षिकः
॥४२॥तस्मिन्नवग्रहे पृथ्व्यां नीरसायां धनञ्जय ॥
चतुर्विधानि भूतानि समायान्ति परिक्षयम्
॥४३॥तदा तप्तशिखाकारैरुपेतो घर्मदीधितिः ॥
मयूखैरग्निसदृशैर्वमद्भिः पावकच्छटाः
॥४४॥विनष्टग्रामनगरशैलवृक्षादिकानना ॥
कूर्मपृष्ठोपमोर्वी स्यात्तप्तायःपिण्डसन्निभा
॥४५॥ततो विधातुर्गात्रेभ्यः समुत्पन्ना महाघनाः ॥
आच्छादयन्तो गगनं गर्जितध्वानबन्धुराः
॥४६॥सितपीतारुणश्यामाश्चित्रवर्णाश्च भीषणाः ॥
शैलेभसौधवृक्षादिनानारूपसमन्विताः
॥४७॥ते शताब्दमितं कालं महावृष्टिं वितन्वते ॥
तेनाम्भसा शमं याति सूर्योद्भूतो महानलः
॥४८॥भूयश्च शतवर्षाणि वर्षन्त्युग्रं महाघनाः ॥
तदम्भसा समुद्वेला विकृतिं यान्ति वार्द्धयः
॥४९॥कल्पान्ताम्बुदनिर्मुक्तं लोकान्व्याप्नोति तज्जलम् ॥
भूर्भुवःस्वर्महर्लोकानावृणोति तमो महत् ॥
तदा निमग्ना सलिले मही पातालमूलगा
॥५०॥अनष्टा कथमप्यास्ते ब्रह्मशक्त्यवलम्बिता ॥
अथ निःश्वाससंभूतो मारुतो ब्रह्मणोऽर्जुन
॥५१॥उत्सारयति तान्सर्वान्कल्पान्तोत्थान्महाघनान् ॥
एवं प्रवृद्धः पवनः शतसंवत्सरात्मकम्
॥५२॥कालं निरन्तरं वाति दुर्निवाररयोत्थितः ॥
तमुग्रमनिलं हित्वा हरेर्नाभिसरोरुहे
॥५३॥योगनिद्रामवाप्नोति तस्मिन्पाथसि पद्मभूः ॥
योगनिद्रानुषक्तस्य याति तस्य जगद्विभोः
॥५४॥तावती शर्वरी पार्थ दिनं यावत्प्रमाणकम् ॥
निशायां समतीतायामुत्थितो वेगवान्पुनः
॥५५॥सृजप्यखिलजन्तून्वै पूर्ववच्छासनाद्धरेः ॥
कल्पेकल्पे समुचितै रूपैः पाति जगद्धरिः
॥५६॥अस्मिन्कल्पे श्वेतवर्णां प्राप्तवान्यज्ञपोत्रिताम् ॥
वराहवपुषा देवो विहरन्नवनीतले
॥५७॥स्वपूर्वनियतावासं प्रपेदे वेंकटाचलम् ॥
स्वामिपुष्करिणीतीरे चरंश्चिरमधोक्षजः
॥५८॥भक्त्या परमया युक्तमपश्यज्जलजासनम् ॥
संपूज्य प्रार्थयामास ब्रह्मा तं भूतभावनम्
॥५९॥पुरातनीं निजां स्वामिन्भज दिव्यां तनूमिति ॥
गृहीत्वानुनयं तस्य त्यक्त्वा तां सूकराकृतिम्
॥६०॥अनन्यभजनीयां स्वां प्राप विश्वात्मिकां तनुम् ॥
तथास्थितं गिरौ तत्र कृत्वाप्युत्साहमूर्जितम्
॥६१॥द्रष्टुं न शेकुः सर्वेऽपि कालेन बहुनापि च
॥६२॥अर्जुन उवाच
दर्शनस्मरणादीनां हरिरित्थमगोचरः ॥
कथं प्रत्यक्षतां प्राप मानुषाणां महामुने
॥६३॥भाग्यभूतोऽथ जगतां यः को वाऽऽराध्य तं विभुम् ॥
इह प्रकाशयामास कथामेतां निवेदय
॥६४॥हरिकथाश्रवणं दुरितापहं कथयतां सकलागमविद्भवान् ॥
सुकृतिनां ननु संप्रति धुर्यता मुनिवरेण्य ममाद्य समागता
॥६५॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवेंकटाचलमाहात्म्ये सुवर्णमुखरीमाहात्म्यप्रशंसायां वराहावतारकीर्तनं नाम षट्त्रिंशोऽध्यायः ॥ ३६ ॥