कृतसायन्तनविधिं हुताशनसमद्युतिम्
अथ सुवर्णमुखरीप्रभावशुश्रूषया भरद्वाजं प्रत्यर्जुनप्रश्रः ॥
श्रीसूत उवाच ॥
कृतसायन्तनविधिं हुताशनसमद्युतिम् ॥
सुखासीनं मुनिपतिं प्रणम्य भरतर्षभः
॥१॥तदीयशीतलामोदसुधापूरानुमोदितः ॥
गम्भीरं प्रश्रयोपेतमिदं वचनमब्रवीत्
॥२॥अर्जुन उवाच
मुनिपुंगव लोकेऽस्मिन्धन्य एकोऽहमेव हि ॥
पुत्राविशेषं भवता यदेवं सम्यगादृतः
॥३॥भवदादरसञ्जातकौतुकं मम मानसम् ॥
भवद्वाक्यामृतं दिव्यं पातुं त्वरयतीव माम्
॥४॥कस्माच्छैलादियं जाता केनानीता महानदी ॥
किं पुण्यं स्नानदानाद्यैः कृतैस्तत्रोपलभ्यते
॥५॥अस्याः प्रभावं प्रभवं प्रह्वस्य मम सन्मुने ॥
वक्तुमर्हसि कार्यो हि भक्तानुग्रह एव ते
॥६॥अर्जुनस्य वचः श्रुत्वा भरद्वाजो द्विजोत्तमः ॥
तदाननं समालोक्य वाक्यं वाक्यविदब्रवीत्
॥७॥भरद्वाज उवाच
त्वमर्जुन महाबाहो कौरवान्वयपावनः ॥
विशेषान्मम मान्योऽसि धर्मपुत्रानुजो यतः
॥८॥अनेके भूमिपा दृष्टा न ते त्वमिव फाल्गुन ॥
लीलार्जवदयौदार्यधैर्यगाम्भीर्यशालिनः
॥९॥कुलं विद्या धनं चैव बलिनां मदकारणम् ॥
भवादृशानां भव्यानां तानि प्रश्रयकारणम्
॥१०॥प्राज्येषु राज्यभोगेषु विद्यमानेषु कौरव ॥
ऋते भवन्तं को वान्यो नोपैति विकृतेर्वशम्
॥११॥परवानस्मि कौन्तेय गुणैलाकोत्तरैस्तव ॥
किमस्त्यकथनीयं ते कौतुकोपेतमानस
॥१२॥शृणु राजन्कथां दिव्यां मया मुनिमुखाच्छुताम् ॥
यां श्रुत्वा पातकातङ्कान्मुच्यन्ते सर्वजन्तवः
॥१३॥अथ भरद्वाजकथित शंकरविवाहप्रक्रिया ॥
पूर्वं दाक्षायणी देवी जनकेनावमानिता ॥
त्यक्त्वा तनुं तां नीहारगिरेरभवदात्मजा
॥१४॥सप्तर्षिभिरुपागम्य प्रार्थितो धरणीधरः ॥
मृत्युंजयाय स्वां पुत्रीं विवाहे दातुमुद्यतः
॥१५॥वृषभांको जगत्स्वामी विवोढुं सर्वमंगलाम् ॥
प्राप्तो हिमवदावासमोषधीप्रस्थनामकम्
॥१६॥तच्छासनात्समाजग्मुः स्थावराणि चराणि च ॥
भूतानि भूतनाथस्य कल्याणमभिनंदितुम्
॥१७॥तद्भूरिभारसंभग्ना भूमिरुत्तरसंश्रया ॥
निम्नतामाययौ तावद्यावत्पातालमास्थिता
॥१८॥निर्भारलाघवादस्माद्भृशं दक्षिणगामिनी ।
ऊर्ध्वं गता च तं दृष्ट्वा सर्वेषामभवद्भयम्
॥१९॥ज्ञात्वा तां विकृतिं भूमेर्दृष्ट्वागस्त्यंमहेश्वरः ॥
इत एहि महाप्राज्ञेत्युक्त्वा वचनमब्रवीत्
॥२०॥आगतेषु समस्तेषु भूतेष्वत्र वसुन्धरा ॥
तद्भारेण समाक्रान्ता विकृतिं समुपागता
॥२१॥तद्भुवः साम्यकरणे त्वमर्हसि महामते ॥
ऋते त्वामत्र हि त्वत्तः परेणैतत्कथं भवेत्
॥२२॥मत्तेजःसंभवो हि त्वं लोकसंरक्षणोद्यतः ॥
तस्मान्मद्वचनाद्वत्स भुवमेतां समीकुरु
॥२३॥मत्पाणिग्रहणाल्लोककौतुकायत्तबुद्धिषु ॥
आगतेषु समस्तेषु स्थातव्यं भवताऽपि च
॥२४॥त्वं न तिष्ठसि चेदत्र न कश्चिद्विकृतिं भुवः ॥
अपनेतुं हि शक्नोति तद्गन्तव्यं त्वयानघ
॥२५॥इमां गिरिसुतापाणिग्रहकल्याणभासुराम् ॥
मूर्तिं प्रदर्शयिष्यामि यत्र तिष्ठसि तत्र ते
॥२६॥अथ भूसाम्यकरणायागस्त्यस्य हिमाद्रेर्दक्षिणदिग्गमनम् ॥
इत्युक्त्वा तं परिष्वज्य विससर्ज महेश्वरः ॥
तथेति प्रणम्यासौ ययौ याम्यां दिशं मुनिः
॥२७॥विन्ध्याद्रिं समतिक्रम्य दक्षिणामागते दिशम् ॥
अगस्त्ये मुनिशार्दूले मही साम्यमुपाययौ
॥२८॥भुवोऽपनीय विकृतिं स्थितं कलशजं मुनिम् ॥
तुष्टुवुर्हर्षतरलाः सुरगन्धर्वकिन्नराः
॥२९॥स ददर्श ततो गत्वा कश्चिच्छैलं समुन्नतम् ॥
विततैर्धरणीं पादैर्धृत्वा संस्थितमग्रतः
॥३०॥महौषधीनां रत्नानामशेषाणां स्वयंभुवा ॥
अखण्डतेजोदीप्तानां विनिर्मितमिवाकरम्
॥३१॥समुन्नतैर्यः शिखरैर्निपतद्व्योमभूतले ॥
उदारधारासंपन्नैर्दधातीव निरन्तरम्
॥३२॥शनैरारुह्य तं शैलमगस्त्यो मुनिपुंगवः ॥
निवासाय मतिं चक्रे रम्ये तच्छिखरस्थले
॥३३॥तस्यामृतोपमेयस्य पद्मोत्पलकुलश्रियः ॥
नानाद्रुमपरीतस्य कासारस्योत्तरे तटे
॥३४॥मनोहरे महीभागे विधायाश्रममुत्तमम् ॥
आराध्य पितृदेवर्षीन्विधिवद्वास्तुदेवताम्
॥३५॥उवास सुचिरं तत्र मुनिसङ्घसमन्वितः ॥
देवतासिद्धगन्धर्वाप्सरोजुष्टमहीधरे
॥३६॥तपः समावेशितवित्तवृत्तौ तपोवने तिष्ठति कुम्भजाते ॥
प्रशस्तसौभाग्यसमन्वितोऽद्रिरगस्त्यशैलाह्वयमाससाद
॥३७॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे वेंकटाचलमाहात्म्ये सुवर्णमुखरीमाहात्म्यप्रशंसायामर्जुनभरद्वाजसंवादे शंकरविवाहागस्त्यदक्षिणदिग्गमनवर्णननामैकत्रिंशोऽध्यायः ॥ ३१ ॥