मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — वेङ्कटाचलमाहात्म्यम्, अध्याय १०

3
वैष्णवखण्डः · वेङ्कटाचलमाहात्म्यम् · 10

तोण्डमांश्चक्रवर्तिवृत्तवर्णनम्

अथ तोण्डमान्नृपस्य स्वपितुः सकाशाद्राज्यप्राप्तिः ॥

श्रीशुक उवाच ॥

इदं पद्मसरोनाम राजन्पापप्रणाशनम् ॥

कीर्तनात्स्मरणात्स्नानान्नृणां लक्ष्मीप्रदं भुवि ॥

कृत्वा स्नानं त्वमप्यस्मिन्व्रज स्वपितुरंतिकम्

॥१॥

श्रीवराह उवाच

एतच्छुकवचः श्रुत्वा स्नात्वा पद्मसरोवरे

॥२॥

तं नत्वा हयमारुह्य तोण्डमान्स्वपुरं ययौ ॥

तं पिता युवराजानं कृत्वा त्रीन्वत्सरानथ

॥३॥

रंजकत्वं च सामर्थ्यं शौर्यं वीर्यं सुशीलताम् ॥

भक्तिं विप्रेषु पुत्रस्य वीक्ष्य राजा स्वमंत्रिभिः

॥४॥

स्वपदे स्थापयामास स्वभिषिच्य विधानतः ॥

अनुनीय सुतं पत्न्या सार्धं राजा वनं ययौ

॥५॥

अथ वसोर्वल्मीके श्रीवराहसन्दर्शनम् ॥

तोण्डमानपि साम्राज्यं लब्ध्वा राज्यं चकार ह ॥

निषादस्य वने देवो वाराहं रूपमास्थितः

॥६॥

श्यामाकपक्वं भक्षित्वा रात्रौरात्रौ चचार ह ॥

पदानि स वराहस्य चान्वियेष दिवादिवा

॥७॥

अदृष्ट्वा तं वराहं स रात्रौ जाग्रद्धनुर्धरः ॥

स्थितोऽपश्यच्चरन्तं तं चंद्रकोटिसमप्रभम्

॥८॥

वराहं सुभगाकारं श्यामाकवनमध्यतः ॥

तं दृष्ट्वा धनुरादाय सिंहनादं चकार ह

॥९॥

वराहस्तद्ध्वनिं श्रुत्वा वनान्निष्क्रम्य सत्वरम् ॥

ययौ तं चाप्यनुययौ वराहं स निषादपः

॥१०॥

रात्रिशेषमनुद्रुत्य वने चंद्रसमप्रभम् ॥

वल्मीकं प्रविशन्तं च ददर्श स निषादपः

॥११॥

गच्छंतं पूर्णिमाचन्द्रमस्तं गिरिवरं यथा ॥

विस्मितोऽखानयत्कोपाद्वल्मीकं स निषादपः

॥१२॥

धरावराहो ददृशे मूर्च्छितोऽयं पपात ह ॥

पितरं मूर्च्छितं दृष्ट्वा तत्पुत्रो भक्तिमांस्तदा

॥१३॥

वराहदेवं तुष्टाव तेन प्रीतोऽभवद्धरिः ॥

आविश्य पितरं तस्य प्रोवाच मधुसूदनः

॥१४॥

श्रीभगवानुवाच

अहं वराह देवेशो नित्यमस्मिन्वसाम्यहम् ॥

राज्ञे त्वमुक्त्वा मामत्र प्रतिष्ठाप्यैव पूजय

॥१५॥

वल्मीकं कृष्णगोक्षीरैः क्षालयित्वा तदुत्थिते ॥

शिलातले च वाराहमुद्धृत्य धरणीस्थितम्

॥१६॥

कारयित्वा प्रतिष्ठाप्य विप्रैर्वैखानसैश्च माम् ॥

पूजयेद्विविधैर्भोगैस्तोण्डमान्राजसत्तमः

॥१७॥

इत्युक्त्वा तं जहौ देवः स च स्वस्थो बभूव ह ॥

सुखासीनं तु पितरं नमस्कृत्य निषादजः

॥१८॥

न्यवेदयद्देववचः पित्रे सर्वं यथातथम् ॥

स श्रुत्वा विस्मितो भूत्वा कृत्स्नं पुत्रवचः शुभम्

॥१९॥

अथ तोण्डमन्नृपाय वसुनिवेदितवाराहोदंतः ॥

राज्ञे वक्तुं ययौ शीघ्रं निषादः स्वानुगैः सह ॥

वसुर्निषादाधिपती राजद्वारमुपागमत्

॥२०॥

निषादाधिपमाज्ञाय द्वारपालैर्नृपोत्तमः ॥

आहूय तं निषादेशं सभायां मंत्रिभिः सह

॥२१॥

सत्कृत्य तं वसुं राजा सपुत्रं सपरिच्छदम् ॥

पप्रच्छ प्रीतिमान्राजा वसुं तं वनगोचरम् ॥

किमागमनकृत्यं ते वद त्वं वनगोचर

॥२२॥

वसुरुवाच

राजन्मम वने दृष्टमाश्चर्यं शृणु भूपते

॥२३॥

कश्चिच्छ्वेतवराहस्तु श्यामाकमचरन्निशि ॥

तं वराहं धनुष्पाणिरन्वधावमहं नृप

॥२४॥

अनुद्रुतो वायुवेगो गत्वा वल्मीकमाविशत् ॥

स्वामिपुष्करिणीतीरे पश्यते मम भूपते

॥२५॥

वल्मीकमखनं क्रोधान्मूर्च्छितो न्यपतं भुवि ॥

मत्पुत्रोऽयं समागत्य मां दृष्ट्वा मूर्च्छितं भुवि

॥२६॥

शुचिर्भूत्वा देवदेवं तुष्टाव मधुसूदनम् ॥

ततो मयि समाविश्य वराहोऽध्यवदत्सुतम्

॥२७॥

राज्ञे निवेदय क्षिप्रं मच्चरित्रं निषादप ॥

कृष्णगोक्षीरसेकेन वल्मीकं क्षालयेन्नृपः

॥२८॥

दृश्यते च शिला काचिद्वल्मीकस्था सुशोभना ॥

वामांकस्थभुवं मां च वराहवदनं स्थितम्

॥२९॥

कारयित्वा शिल्पिनाथ प्रतिष्ठाप्य मुनीश्वरैः ॥

वैखानसैर्मुनिवरैरर्चयेत्तोण्डमानपि

॥३०॥

अथ गत्वा श्रीनिवासं वल्मीकावृतपद्द्वयम् ॥

कपिलाकृष्णगोक्षीरसेचनैः क्षालयेच्छनैः

॥३१॥

आपादपीठपर्यंतं क्षालयित्वा दिनेदिने ॥

कुर्यात्प्राकारमुभयोरुत्तरे दक्षिणे तथा

॥३२॥

इत्युक्त्वा चैव माऽमुंचद्देवः स्वस्थोऽभवं नृप ॥

इदं ते वक्तुमायातो देवदेवचिकीर्षितम्

॥३३॥

अथ नृपस्य निषादवाक्यस्वप्नाभ्यां बिलमार्गेण शेषाचलगमनम् ॥

श्रीवराह उवाच ॥

तोण्डमानपि तच्छ्रुत्वा सुप्रीतो विस्मितोऽभवत् ॥

ततः कार्यं विनिश्चित्य मन्त्रिभिः पुष्करादिभिः

॥३४॥

वेकटाद्रिं जिगमिषुर्गोपानाहूय सर्वशः ॥

कृष्णाश्च कपिला गावो याः काश्चित्संति मामिकाः

॥३५॥

ताः सवत्सा आनयध्वं वेंकटाद्रिसमीपतः ॥

इत्याज्ञाप्य नृपो गोपाञ्छ्वो यात्रेति च मन्त्रिणः

॥३६॥

विसृज्य प्रकृतीः सर्वा विवेशांतःपुरं वशी ॥

उक्त्वा कथां तां पत्नीभ्यः सुष्वाप निशि पार्थिवः

॥३७॥

तं स्वप्ने श्रीनिवासोऽपि बिलमार्गं ह्यदर्शयत् ॥

स्वपुरादाबिलं मार्गे पल्लवानसृजद्धरिः

॥३८॥

एवं स्वप्नं नृपो दृष्ट्वा प्रातरुत्थाय सत्वरः ॥

आहूय मन्त्रिणः सर्वान्प्रकृतीर्ब्राह्मणानपि

॥३९॥

स्वप्नं तथाविधं चोक्त्वाऽपश्यद्द्वारेऽथ पल्लवान् ॥

युक्ते मुहूर्ते प्रययौ हयमारुह्य तोण्डमान्

॥४०॥

पश्यन्पल्लवभंगांश्च शनैः प्रीतो ययौ बिलम् ॥

दृष्ट्वा विस्मयमापन्नो निर्ममे तत्र पत्तनम्

॥४१॥

अथ भगवदुक्त्या तोण्डमन्नृपकृतक्षीराभिषेकवप्रनिर्माणादिकम् ॥

बिलमंतःपुरे कृत्वा प्राकारं चाप्यकारयत् ॥

वसंस्तत्र नृपेन्द्रोऽसौ निर्जित्य पृथिवीमिमाम्

॥४२॥

यथोक्तं देवदेवेन क्षीरप्रक्षालनादिकम् ॥

कृत्वा प्राकारनिर्माणं कर्तुमुद्योगमाययौ

॥४३॥

तदानीं देवदेवेन स्वयमाज्ञापितो नृपः ॥

तिंतिणीं चंपकं चोभौ पालयैतौ नगोत्तमौ

॥४४॥

मम चास्थानिकी चिंचा लक्ष्म्याः स्थानं च चंपकः ॥

नमस्कार्यौ नृपैस्तौ हि ऋषिदेवनरैः सदा

॥४५॥

संस्थाप्यैतौ नृपश्रेष्ठ च्छेदयान्यान्नगोत्तमान् ॥

प्राकारमात्रं कुरु मे द्वारगोपुरसंयुतम्

॥४६॥

विमानं तु भवद्वंश्यो नाम्ना नारायणो नृपः ॥

कारयिष्यति मद्भक्तः स्वर्णेनालंकरिष्यति

॥४७॥

श्रीवराह उवाच

एवमुक्त्वा तोण्डमानं विरराम श्रियः पतिः

॥४८॥

एवं देववचः श्रुत्वा कृत्वा प्राकारमेव च ॥

पूजयामास मुनिभिर्वैखानसकुलोद्भवैः

॥४९॥

नित्यं बिलेन चागत्य देवं नत्वा नृपोत्तमः ॥

राज्यं चकार धर्मेण भुंजानो भोगमुत्तमम्

॥५०॥

अथ गंगास्नानागतवीरशर्माख्यविप्रचरित्रम् ॥

एतस्मिन्नेव काले तु दाक्षिणात्यो द्विजोत्तमः

॥५१॥

गंगास्नानाय गच्छन्वै सदारः प्रययौ पुरात् ॥

मार्गेऽथ गर्भिणी जाता ब्राह्मणी ब्राह्मणः स च

॥५२॥

तां तु गर्भवतीं दृष्ट्वा स्वात्मानुगमनेऽक्षमाम् ॥

राजानं द्रष्टुकामोऽसौ राजद्वारमुपागमत्

॥५३॥

द्वाःस्थेनाज्ञापितो राजा तमाहूय द्विजोत्तमम् ॥

पूजयित्वा तु विधिवत्पप्रच्छ कुशलं द्विजम्

॥५४॥

राजोवाच

किमागमनकृत्यं ते किं करिष्याम्यहं द्विज ॥

ब्राह्मण उवाच ॥

वासिष्ठो वीरशर्माहं सामवेदी नृपोत्तम

॥५५॥

सदारो निर्गतो राक्तगंगास्नानाय सादरः ॥

मार्गे च गर्भिणी चेयं कौशिकी पुण्यशालिनी

॥५६॥

नाम्ना लक्ष्मीरिति ख्याता शीला च पतिव्रता ॥

संस्थाप्यैनां तव गृहे व्रतं निर्वर्तयाम्यहम्

॥५७॥

तस्माद्राजन्प्रयच्छास्यै यथेष्टं भक्तवेतने ॥

तावच्च रक्ष्यतां लक्ष्मीर्यावदागमनं मम

॥५८॥

श्रीवराह उवाच

राजा तस्य वचः श्रुत्वा तंडुलानि धनान्यपि ॥

दत्त्वा षण्मासपर्यन्तं गृहमंतःपुरे ददौ

॥५९॥

तां न्यस्य ब्राह्मणः प्रीतो गंगास्नानाय निर्ययौ ॥

गत्वा भागीरथीं गंगां प्रयागे क्षेत्र उत्तमे

॥६०॥

स्नात्वा काशीं ततो गत्वा तत्रोषित्वा दिनत्रयम् ॥

गयां प्राप्य पितृश्राद्धमकरोद्ब्राह्मणोत्तमः

॥६१॥

गत्वायोध्यामपि पुरीं प्रययौ बदरीवनम् ॥

सालग्रामं ततो गत्वा स्वदेशं प्रति निर्ययौ

॥६२॥

संवत्सरद्वयेऽतीते चैत्रे मासि शुभे दिने ॥

निवृत्तोऽसौ द्विजश्रेष्ठः शनैरागत्य माधवे

॥६३॥

एकादश्यां शुक्लपक्षे पुना राजानमाययौ ॥

राजा तु विस्मृत्य तदा ब्राह्मणीं नास्मरन्नृपः

॥६४॥

ब्राह्मणी मानिनी गेहे मृता शुष्का बभूव ह ॥

वीरशर्मा ततो विप्रो गंगातोयकरंडकम्

॥६५॥

विमुच्य बन्धनं त्वेकं गंगांभःकरकं शुभम् ॥

प्रादाय राज्ञे पप्रच्छ पत्नी कुशलिनीति मे

॥६६॥

स्मृत्वाथ राजा विप्रं तं स्थीयतामिति चाब्रवीत् ॥

अन्तःपुरं ततो गत्वा तामपश्यन्मृतां गृहे

॥६७॥

अनुक्त्वा ब्रह्मणे तस्मै प्रविश्य बिलमुत्तमम् ॥

श्रीनृसिंहं नमस्कृत्य पुनः प्राप्य बिलोत्तमम्

॥६८॥

श्रीनिवासं ययौ द्रष्टुं श्रीभूमिसहितं परम् ॥

तं दृष्ट्वा सहसायांतं जुगूहाते धरारमे

॥६९॥

प्रणमन्तमवोचत्तं किमकाले नृपागतः ॥

नृपोऽवदत्प्रणम्येशं भीतोऽथ ब्राह्मणीं मृताम्

॥७०॥

अथ अस्थिसरोवरमाहात्म्यम् ॥

तच्छ्रुत्वा देवदेवोऽपि मा भै राजन्द्विजोत्तमात् ॥

आन्दोलिकां तामारोप्य स्त्रीभिः स्वाभिः समन्विताम्

॥७१॥

मदालयात्पूर्वभागे द्वादश्यां स्नापय प्रभो ॥

अस्थिनाम्नि सरस्यस्मिन्नपमृत्युनिवारणे

॥७२॥

प्राप्तजीवा समं स्त्रीभिर्ब्राह्मणेन च योक्ष्यते ॥

शीघ्रं याहि नृपश्रेष्ठ यथोक्तं वचनं कुरु

॥७३॥

इति देववचः श्रुत्वा प्रययौ स्वपुरं नृपः ॥

आन्दोलिकासु रम्यासु स्त्रिय आरोप्य तामपि

॥७४॥

ब्राह्मणं च पुरस्कृत्य द्रष्टुं देवं ययौ नृपः ॥

अस्थिकूटसरः प्राप्य स्नापयामास ताः स्त्रियः ॥

त्वगस्थिरूपा सा चापि ताभिः क्षिप्ता सरोवरे ॥

प्राप्तजीवा यथापूर्वं सुव्यंजितशरीरजा

॥७६॥

उत्थिता सरसः स्नात्वा राज्ञीभिः सहमंगला ॥

प्राप्ता च ब्राह्मणं प्रीता भर्तारं पुनरागतम्

॥७७॥

राजा हरिं पूजयित्वा ब्राह्मणाय धनं ददौ ॥

सहस्रनिष्कपर्यंतं वस्त्राणि विविधानि च

॥७८॥

स्वदेशगमनायैव सादरं विससर्ज ह ॥

विप्रः श्रुत्वा स्त्रियो वृत्तं प्रभावं वेंकटेशितुः

॥७९॥

आशीः प्रयुज्य राज्ञेऽथ स्वदेशं प्रययौ द्विजः ॥

विप्रे गते श्रीनिवासो राजानं पुनरब्रवीत्

॥८०॥

दिनेदिने च मध्याह्ने नैवेद्यानेतरं नृप ॥

आगत्य मामर्चयित्वा यथेष्टं स्वर्णपंकजैः

॥८१॥

गत्वा पुरीं स्वधर्मेण राज्यं कुरु नराधिप ॥

यद्यदिष्टं तव नृप भविष्यति न संशयः

॥८२॥

नागंतव्यमकाले तु त्वया नृप कदाचन ॥

एवं कालार्चनं कृत्वा गत्वा त्वं स्वपुरं वस

॥८३॥

राजोवाच

तथा करिष्ये देवेश मध्याह्ने चार्चयाम्यहम् ॥

इति देवाज्ञया नित्यमर्चयन्स्वर्णपंकजैः

॥८४॥

तदूर्ध्वं तुलसीपुष्पं जात्त्वपश्यत्स मृण्मयम्

॥८५॥

अथ कुर्वग्रामस्थकुलालवंशजभीमाख्यभक्तोदन्तः ॥

विस्मितो देवदेवेशमपृच्छन्नृपसत्तमः ॥

राजोवाच ॥

केनार्च्यसे मृन्मयैश्च कमलैस्तुलसीसमैः

॥८६॥

राज्ञा पृष्टो देवदेवः स्मृत्वा राजानमब्रवीत् ॥

कश्चित्कुलालो मद्भक्तः कुर्वग्रामे वसत्यसौ

॥८७॥

स्वगृहेऽर्चयते राजंस्तदंगीक्रियते मया ॥

इति देववचः श्रुत्वा तं द्रष्टुं प्रययौ नृपः

॥८८॥

गत्वा कुर्वपुरं तस्य कुलालस्य गृहं ययौ ॥

राजानमागतं दृष्ट्वा प्रणम्यैवाग्रतः स्थितः

॥८९॥

स्थितं तं भीमनामानं पप्रच्छ नृपसत्तमः ॥

तोण्डमानुवाच ॥

भीम पूजयसे देवं कथं वद कुलोत्तम

॥९०॥

श्रीवराह उवाच

पृष्टः प्राह कुलालोऽपि जातु जाने न चार्चनम् ॥

केनोक्तं नृपतिश्रेष्ठ कुलालोऽर्चयतीति हि

॥९१॥

तोण्डमानुवाच

देवेन श्रीनिवासेन ममोक्तं हि त्वदर्चनम् ॥

स तु श्रुत्वा नृपवचः स्मृत्वा देववरं पुरा

॥९२॥

भीम उवाच

यदा प्रकाशिता पूजा यदा राजा समागतः ॥

तोण्डमांस्तेन संवादस्तदा मोक्षं गमिष्यसि

॥९३॥

इति पूर्वं वरं देवो दत्तवान्वेकटेश्वरः

॥९४॥

अथ कुर्वग्रामस्थभीमाख्यभक्तस्य पत्न्या सह वैकुण्ठप्राप्तिः ॥

इत्युक्त्वाथ कुलालोऽपि पत्न्या सार्धं तथैव च ॥

विमानमागतं दृष्ट्वा देवं दृष्ट्वा जनार्दनम्

॥९५॥

प्रणमन्प्रजहौ प्राणान्सदारो भक्तसत्तमः ॥

पश्यतो राजराजस्य विमानमधिरुह्य च

॥९६॥

दिव्यरूपधरो देव्या सार्धं विष्णुपदं ययौ ॥

दृष्ट्वा राजाद्भुतं तत्र स्वपुरं प्राप्य हर्षितः

॥९७॥

स्वपुत्रं श्रीनिवासाख्यमभिषिच्य विधानतः ॥

परिपालय धर्मेण मानवांश्च वसुन्धराम्

॥९८॥

इत्याज्ञाप्य सुतं धीमांस्तताप परमं तपः ॥

तप्यतस्तस्य देवोऽपि प्रत्यक्षमभवद्धरिः

॥९९॥

अथ श्रीनिवासकृपया तोण्डमन्नृपस्य सारूप्यप्राप्तिः ॥

आरुह्य गरुडं देवो रमाभूमिसमन्वितः

॥१००॥

श्रीभगवानुवाच

किं करोमि नृपश्रेष्ठ तपसा तोषितस्तव ॥

इत्युक्तो देवदेवेन तोण्डमानपि राजराट्

॥१०१॥

प्रीतिमान्प्राञ्जलिर्भूत्वा सगद्गदमुवाच ह ॥

त्वल्लोके वस्तुमिच्छामि जरामरणवर्जिते

॥१०२॥

इदमेव वरं देहि माधवैतन्ममेप्सितम्

॥१०३॥

श्रीवराह उवाच

इत्युक्त्वा निपपातोर्व्यां साष्टांगं देवसन्निधौ ॥

तदा कलेवरं मुक्त्वा विमानं त्वारुरोह च

॥१०४॥

गन्धर्वैः स्तूयमानोऽसौ सारूप्यं प्राप्य शार्ङ्गिणः ॥

यच्छोकमोहहतं जरामरणवर्जितम्

॥१०५॥

पुनरावृत्तिरहितं तद्विष्णोः पदमाययौ

॥१०६॥

अथैतन्माहात्म्यश्रवणपठनफलश्रुतिः ॥

एतद्भविष्यं देवेशि मयोक्तं वरवर्णिनि ॥

यः श्रावयेद्यः शृणुयाद्विष्णुलोकं स गच्छति

॥१०७॥

श्रीसूत उवाच

इत्युक्तं देवदेवेन सभविष्यं सहोत्तरम् ॥

शृणुयाद्यः पठेद्भक्त्या कथां पुण्यां पुरातनीम्

॥१०८॥

स तु भुक्त्वाखिलान्कामानन्ते विष्णुपदं व्रजेत्

॥१०९॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवेंकटाचलमाहात्म्ये धरणीवराहसंवादे भविष्यद्वर्णने तोण्डमांश्चक्रवर्तिवृत्तवर्णनंनाम दशमोऽध्यायः ॥ १० ॥