मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — वेङ्कटाचलमाहात्म्यम्, अध्याय २८

3
वैष्णवखण्डः · वेङ्कटाचलमाहात्म्यम् · 28

सूत सर्वार्थतत्त्वज्ञ वेदवेदान्तपारग

अथ कटाहतीर्थमाहात्म्यम् ॥

ऋषय ऊचुः ॥

सूत सर्वार्थतत्त्वज्ञ वेदवेदान्तपारग ॥

श्रीवेंकटाचले तीर्थं कटाहाख्यं सुपावनम्

॥१॥

श्रूयते तस्य माहात्म्यं घुष्यते च जगत्त्रये ॥

अस्माकमेतद्ब्रूहि त्वं कृपया व्यासशासित

॥२॥

पुरा वै नारदः श्रीमान्ब्रह्मपुत्रो महानृषिः ॥

दृष्ट्वा वै नैमिषारण्यं संप्राप्तो द्विजसत्तमः

॥३॥

तदानीं ब्रह्मपुत्रं तमर्घ्यपाद्यादिभिः शुभैः ॥

पूजयित्वा यथान्यायं पवित्रे च कुशासने

॥४॥

सन्निवेश्य महाभक्त्या विनयानतकन्धराः ॥

प्रणम्य प्रार्थयामासुरिमे सर्वे महर्षयः

॥५॥

त्वां विना नारद श्रीमन्नस्माकं भुवनत्रये ॥

धर्मोपदेशकः कश्चिन्नास्ति नास्ति महर्षिषु

॥६॥

वेंकटाद्रौ महापुण्ये सर्वदेवनिषेविते ॥

वैकुण्डादागते दिव्ये सिद्धगन्धर्वसेविते

॥७॥

कटाहतीर्थमाहात्म्यं वर्णयाद्य वनौकसाम्

॥८॥

श्रीनारद उवाच

शृणुध्वमृषयः सर्वे शौनकाद्या महौजसः ॥

कटाहतीर्थमाहात्म्यं को वेत्ति भुवनत्रये

॥९॥

महादेवो विजानाति तस्य तीर्थस्य वैभवम् ॥

यानि कानि च पुण्यानि ब्रह्माण्डान्तर्गतानि वै

॥१०॥

तानि गंगादितीर्थानि स्वपापपरिशुद्धये ॥

कटाहतीर्थसेवां च कुर्वन्ति द्विजसत्तमाः

॥११॥

ब्राह्मणाः क्षत्त्रिया वैश्याः शूद्राश्चेतरजातयः ॥

स्पृशन्ति तज्जलमिति न पिबेद्यो विमूढधीः

॥१२॥

स हि चण्डालतां प्राप्य कुम्भीपाके पतिष्यति ॥

ब्रह्मचारी गृहस्थो वा वानप्रस्थो यतीश्वरः

॥१३॥

सेवया तस्य तीर्थस्य प्राप्नोति परमं पदम् ॥

श्रुतिस्मृतिपुराणेषु तत्तीर्थस्य प्रशंसनम्

॥१४॥

बहुधा वर्ण्यते पंचमहापातकनाशनम् ॥

अत्यद्भुततरं विप्राः सर्वलोकैकपावनम्

॥१५॥

ब्रह्महत्यायुतं चापि सुरापानायुतं तथा ॥

अयुतं गुरुदाराणां गमनं पापकारणम्

॥१६॥

स्तेयायुतं सुवर्णानां तत्संसर्गाश्च कोटयः ॥

शीघ्रं विलयमायांति तस्य तीर्थस्य सेवया

॥१७॥

यानि निष्कृतिहीनानि पापानि विविधानि च ॥

तानि सर्वाणि नश्यंति तीर्थस्यास्य निषेवणात्

॥१८॥

इदं तीर्थं महापुण्यं भगवत्पादनिस्सृतम् ॥

कुष्ठादिरोगयुक्तो यः प्रत्यहं च पिबेदिदम्

॥१९॥

अथ कटाहतीर्थमहिमश्रद्धाशून्यानां महानरकप्राप्तिः ॥

सोऽपि रोगविहीनः सन्विष्णुलोकं च गच्छति ॥

भगवाञ्छंकरो देवो रहस्यानुभवे पुरा

॥२०॥

पार्वत्यै कथयामास तस्य तीर्थस्य वैभवम् ॥

उक्तेष्वेतेषु सन्देहो न कर्तव्यः कदाचन

॥२१॥

अर्थवादोऽयमिति च न वक्तव्यं कदाचन ॥

येऽर्थवादमिदं ब्रूयुस्तेषां वै नास्तिकात्मनाम्

॥२२॥

जिह्वाग्रे परशुं तप्तं प्रक्षिपन्ति च किंकराः ॥

तस्मात्कटाहतीर्थं तु सेवनीयं प्रयत्नतः

॥२३॥

सर्वदुःखप्रशमनमपवर्गफलप्रदम् ॥

यत्र पीत्वा नरो भक्त्या सर्वान्कामानवाप्नुयात्

॥२४॥

एवमुक्त्वा महाभागः काशीं त्रैलोक्यपावनीम् ॥

संप्राप्तो नारदः श्रीमान्सूत पौराणिकोत्तम

॥२५॥

संक्षेपतश्च भगवान्नैमिषे ह्युक्तवान्खलु ॥

इदानीं श्रोतुमिच्छामः कटाहस्य च वैभवम्

॥२६॥

सुविस्तरेण चास्माकं वद सूत कृपावशात्

॥२७॥

अथ कटाहतीर्थपानक्रमः ॥

श्रीसूत उवाच ॥

भोभोस्तपोधनाः सर्वे नैमिषारण्यवासिनः ॥

कटाहतीर्थमाहात्म्यं शृणुध्वं द्विजसत्तमाः

॥२८॥

कटाहतीर्थं भो विप्राः सर्व लोकेषु विश्रुतम् ॥

सर्वसम्पत्करं शुद्धं सर्वपापप्रणाशनम्

॥२९॥

दुःस्वप्ननाशनं ह्येतन्महापातकनाशनम् ॥

महाविघ्नप्रशमनं महाशान्तिकरं नृणाम्

॥३०॥

स्मृतिमात्रेण यत्पुंसां सर्वपापनिषूदनम् ॥

मन्त्रेणाष्टाक्षरेणैव पिबेत्तीर्थं मनोहरम्

॥३१॥

अथवा केशवाद्यैश्च नामभिर्वा पिबेज्जलम् ॥

यद्वा नामत्रयेणाऽपि पिबेत्तीर्थं शुभप्रदम्

॥३२॥

आहोस्विद्वेंकटेशस्य मन्त्रेणाष्टाक्षरेण वै ॥

पिबेत्कटाहतीर्थं तद्भुक्तिमुक्तिप्रदायकम्

॥३३॥

विना मंत्रेण यो विप्रः संपिबेत्तीर्थमुत्तमम् ॥

पापं मे नाशय क्षिप्रं जन्मान्तरकृतं महत्

॥३४॥

इत्युक्त्वा स पिबेन्नित्यं मोक्षमार्गैकसाधनम् ॥

स्वामिपुष्करिणीस्नानं वराहश्रीशदर्शनम्

॥३५॥

कटाहतीर्थपानं च त्रयं त्रैलोक्यदुर्लभम् ॥

बहुना किमिहोक्तेन ब्रह्महत्यादिनाशनम्

॥३६॥

अथ केशवाख्यद्विजवृत्तान्तः ॥

पुरा कश्चिद्द्विजो मोहात्केशवाख्यो बहुश्रुतम् ॥

हत्वा खड्गेन दुर्बुद्ध्या ब्रह्महत्यामवाप्तवान्

॥३७॥

सोऽपि तस्मिन्महातीर्थे पीत्वा जलमनुत्तमम् ॥

केशवाख्यो महापापी विमुक्तो ब्रह्महत्यया

॥३८॥

ऋषय ऊचुः

कस्य पुत्रः केशवाख्यः कथं प्राप्तो भयंकरीम् ॥

ब्रह्महत्यामतिक्रूरामस्माकं वक्तुमर्हसि

॥३९॥

श्रीसूत उवाच

तुङ्गभद्रातटे रम्ये गन्धर्वैरुपसेविते ॥

अग्रहारो महानासीद्वेदाढ्य इति नामतः

॥४०॥

तस्मिन्वेदपुरे रम्ये ब्राह्मणा वेदपारगाः ॥

शब्दशास्त्रपराः सर्वे ज्योतिःशास्त्रप्रवर्तकाः

॥४१॥

मीमांसातर्कशास्त्रज्ञाः सर्वे वेदान्तवादिनः ॥

धर्मशास्त्रेषु निरता अन्नदानपराः सदा

॥४२॥

पुत्रवन्तश्च ते सर्वे ह्यग्रहारे महाजनाः ॥

वेदाढयेऽप्यग्रहारे वै पद्मनाभ इति श्रुतः

॥४३॥

अथ गणिकालंपटस्य केशवद्विजस्य ब्रह्महत्याप्राप्तिक्रमः ॥

तस्य पुत्रः केशवाख्यः सर्वकर्मबहिष्कृतः ॥

मातरं पितरं त्यक्त्वा भार्यामपि पतिव्रताम्

॥४४॥

सर्वदा गणिकासक्तो वेश्यागारं विवेश ह ॥

दिनद्वये च तां वेश्यामनुभूय द्विजस्ततः

॥४५॥

निष्कद्वयं प्रदातव्यं हस्ते दत्त्वा गतः सुखम् ॥

वेश्यया चाधनस्त्यक्तस्तत्संयोगैकतत्परः

॥४६॥

इतस्ततश्चोरयित्वा बहुद्रव्याणि सन्ततम् ॥

दत्त्वा तया चिरं रेमे तद्गृहे बुभुजे च सः

॥४७॥

एकेन चषकेणासौ तया सह सुरां पपौ ॥

स कदाचित्किरातैस्तु द्रव्यं हर्तुं ययौ द्विजः

॥४८॥

विप्रस्य कस्यचिद्गेहे सोऽपि कैरातवेषधृक् ॥

केशवो विप्रबन्धुर्वै साहसी खङ्गहस्तवान्

॥४९॥

तद्गृहस्वामिनं विप्रं हत्वा खड्गेन साहसात् ॥

समादाय बहु द्रव्यं वेश्यागारं विवेश ह

॥५०॥

तं यान्तमनुयाति स्म ब्रह्महत्या भयंकरी ॥

नीलवस्त्रधरा भीमा भृशं रक्तशिरोरुहा

॥५१॥

गर्जन्ती साट्टहासं सा कम्पयन्ती च रोदसी ॥

अनुद्रुतस्तया विप्रो बभ्राम जगतीतले

॥५२॥

एवं भ्रमन्धरां सर्वां विप्रबन्धुर्दुरात्मवान् ॥

स्वग्रामं प्रययौ भीत्या शौनकाद्या महौजसः

॥५३॥

अनुद्रुतस्तया भीतः प्रययौ स्वनिकेतनम् ॥

ब्रह्महत्याप्यनुद्रुत्य तेन साकं गृहं ययौ

॥५४॥

जनकं रक्ष रक्षेति केशवः शरणं ययौ ॥

मा भैषीरिति स प्रोच्य पिता रक्षितुमुद्यतः

॥५५॥

अथ स्वसुतरक्षणोद्युक्ते पद्मनाभे ब्रह्महत्योक्तिः ॥

क्रूरैनं ब्रह्महत्या सा जनकं प्रत्यभाषत

॥५६॥

ब्रह्महत्योवाच

मैनं त्वं प्रतिगृह्णीष्व पद्मनाभ द्विजोत्तम ॥

अयं सुरापी स्तेयी च ब्रह्महा चातिपातकी

॥५७॥

मातृद्रोही पितृद्रोही भार्यात्यागी च दुष्टधीः ॥

गणिकासक्तचित्तश्च ह्येनं मुञ्च दुरात्मकम्

॥५८॥

गृह्णासि चेत्सुतं विप्र महापातकिनं वृथा ॥

त्वद्भार्यामस्य भार्यां च त्वां च पुत्रमिमं द्विज

॥५९॥

भक्षयिष्यामि वंशं च तस्मान्मुञ्च दुरात्मकम् ॥

इमं त्यजसि चेत्पुत्रं युष्मान्मुञ्चामि सांप्रतम्

॥६०॥

नैकस्यार्थे कुलं हन्तुमर्हसि त्वं महामते ॥

इत्युक्तः स तया तत्र पद्मनाभोऽब्रवीच्च ताम्

॥६१॥

पद्मनाभ उवाच

बाधते मां सुतस्नेहः कथं पुत्रं परित्यजे ॥

ब्रह्महत्या तदाकर्ण्य पद्मनाभं तमब्रवीत्

॥६२॥

ब्रह्महत्योवाच

पुत्रोऽयं पतितोऽभूत्ते वर्णाश्रमबहिष्कृतः ॥

पुत्रेस्मिन्मा कुरु स्नेहं निंदितं तस्य दर्शनम्

॥६३॥

इत्युक्त्वा ब्रह्महत्या सा पद्मनाभस्य पश्यतः ॥

हस्तेन प्रजहारास्य सुतं केशवनामकम्

॥६४॥

रुरोद ताततातेति जनकं प्रब्रुवन्मुहुः ॥

रुरुदुर्जनको माता भार्या तस्य दुरात्मनः

॥६५॥

अथ पद्मनाभं प्रति भरद्वाजकथितो ब्रह्महत्याविमुक्त्युपायः ॥

तस्मिन्काले महाभागो भरद्वाजो महामुनिः ॥

दिष्ट्या समाययौ योगी शौनकाद्या महौजसः

॥६६॥

पद्मनाभोऽथ तं दृष्ट्वा भरद्वाजं महामुनिम् ॥

स्तुत्वा प्रणम्य शरणं ययाचे पुत्रकारणात्

॥६७॥

भरद्वाज महाभाग साक्षाद्विष्ण्वंशको भवान् ॥

त्वद्दर्शनमपुण्यानां भविता न कदाचन

॥६८॥

ब्रह्महा च सुरापी च स्तेयी चाभूत्सुतो मम ॥

पुत्रं प्रहर्तुमा याता ब्रह्महत्या भयंकरी

॥६९॥

भूयाद्यथा मे पुत्रोयं महापातकमोचितः ॥

घोरेयं ब्रह्महत्या च यथा शीघ्रं लयं व्रजेत्

॥७०॥

तमुपायं वदस्वाद्य मम पुत्रे दयां कुरु ॥

एक एव हि पुत्रो मे नान्योऽस्ति तनयो मुने

॥७१॥

सुते मृते तु वंशो मे समुच्छिद्येत मूलतः ॥

ततः पितृभ्यः पिण्डानां दाताऽपि न भवेद्ध्रुवम्

॥७२॥

ततः कृपां कुरुष्व त्वमस्मासु भगवन्मुने ॥

इत्युक्तः स भरद्वाजः साक्षान्नारायणांशकः

॥७३॥

ध्यात्वा तु सुचिरं कालं पद्मनाभं वचोऽब्रवीत्

॥७४॥

भरद्वाज उवाच

पद्मनाभ कृतं पापमतिक्रूरं सुतेन ते ॥

नास्य पापस्य शान्तिः स्यात्प्रायश्चित्तायुतैरपि

॥७५॥

तथाऽपि ते सुतस्याहमस्य पापस्य शान्तये ॥

प्रायश्चित्तं वदिष्यामि पद्मनाभ शृणु द्विज

॥७६॥

गङ्गाया दक्षिणे भागे द्विशतीयोजने द्विज ॥

पूर्वाम्भोधेः पश्चिमे तु पञ्चभिर्योजनैर्मिते

॥७७॥

सुवर्णमुखरीतीरे चोत्तरे क्रोशमात्रके ॥

वेंकटाद्रिति ख्यातः सर्वलोकनमस्कृतः

॥७८॥

मेरुपुत्रो महापुण्यः सर्वदेवाभिवन्दितः ॥

वैकुण्ठलोकादानीतो विष्णोः क्रीडाचलो महान्

॥७९॥

गरुत्मता वेगवता स्वर्णमुख्यास्तटे शुभे ॥

वर्तते देवसंघैश्च ऋषिसंघैश्च पूजितः

॥८०॥

तस्मिन्वेंकटशैलेन्द्रे साक्षान्नारायणः स्वयम् ॥

लक्ष्मीदेव्या च भूदेव्या नीलादेव्या समागतः

॥८१॥

वर्तते वेंकटेशः स साक्षान्मोक्षप्रदायकः ॥

तस्य वेंकटनाथस्य ह्यालयस्य तथोत्तरे

॥८२॥

कटाहतीर्थं विप्रेन्द्र वर्तते मङ्गलप्रदम् ॥

ब्रह्महत्यादिपापघ्नं वाञ्छितार्थप्रदायकम्

॥८३॥

सुतेन साकं विप्रेंद्र पिब तीर्थं मनोहरम् ॥

भरद्वाजस्य वाक्यं तच्छ्रुत्वा वै वेदसंमितम्

॥८४॥

शिरसा तं प्रणम्याथ ययौ वेंकटपर्वतम्

॥८५॥

अथ भरद्वाजोक्त्या कटाहतीर्थपानेन केशवस्य ब्रह्महत्याविमुक्तिः ॥

तं गत्वा वेंकटं शैलं स्वामिपुष्करिणीजले ॥

सुतेन साकं विप्रेंद्रः सस्नौ नियमपूर्वकम्

॥८६॥

वराहस्वामिनं नत्वा श्रीनिवासालयं गतः ॥

प्रदक्षिणं ततः कृत्वा विमानं संप्रणम्य च

॥८७॥

पद्मनाभोऽथ पुत्रेण केशवेन दुरात्मना ॥

पपौ कटाहतीर्थं तद्ब्रह्महत्याविनाशकम्

॥८८॥

तदानीं ब्रह्महत्या सा शीघ्रमेव लयं गता ॥

अनन्तरं ततो गत्वा वेंकटेशं कृपानिधिम्

॥८९॥

पुत्रेण सह विप्रेन्द्रः पद्मनाभो ददर्श सः ॥

तदा प्रादुरभूद्देवो वेङ्कटेशो दयानिधिः

॥९०॥

कटाहतीर्थपानेन तोषितो वाक्यमब्रवीत्

॥९१॥

अथ ब्रह्महत्याविमुक्तसुतेन सहितं पद्मनाभं प्रति भगवदुक्तिः ॥

श्रीभगवानुवाच ॥

पद्मनाभ महाबुद्धे वेदवेदान्तपारग ॥

भरद्वाजस्य वाक्येन प्राप्य वेंकटपर्वतम्

॥९२॥

कटाहतीर्थं त्वं पीत्वा कृतार्थोऽसि न संशयः ॥

तव पुत्रः केशवाख्यो विमुक्तो ब्रह्महत्यया

॥९३॥

तस्मात्कटाहतीर्थं तु सेवनीयं प्रयत्नतः ॥

तस्मिंस्तीर्थे महाभाग पीत्वा जलमनुत्तमम्

॥९४॥

पापिनोऽपि कृतार्थाः स्युः सत्यं सत्यं न संशयः ॥

मामकं लोकमागत्य सुखी भव महामते

॥९५॥

इत्युक्त्वा वेंकटेशोऽसावन्तर्धानं गतस्ततः

॥९६॥

श्रीसूत उवाच

तस्मात्तपोधनाः सर्वे शौनकाद्या महौजसः ॥

कटाहतीर्थमाहात्म्यमितिहाससमन्वितम्

॥९७॥

यथाश्रुतं मया सम्यक्तथोक्तं भवतां द्विजाः

॥९८॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवेंकटाचलमाहात्म्ये सूतशौनक संवादे कटाहतीर्थप्रशंसनंनामाष्टाविंशोऽध्यायः ॥ २८ ॥