मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — वेङ्कटाचलमाहात्म्यम्, अध्याय १३

3
वैष्णवखण्डः · वेङ्कटाचलमाहात्म्यम् · 13

स्वामिपुष्करिणीमहिमानुवर्णनम्

अथ धर्मगुप्तचरित्रवर्णनम् ॥

श्रीसूत उवाच ॥

भूयोपि संप्रवक्ष्यामि स्वामितीर्थस्य वैभवम् ॥

युष्माकमादरेणाऽहं नैमिषारण्यवासिनः

॥१॥

नन्दोनाम महाराजः सोमवंशसमुद्भवः ॥

धर्मेण पालयामास सागरान्तां धरामिमाम्

॥२॥

तस्य पुत्रः समभवद्धर्मगुप्त इति स्मृतः ॥

राज्यरक्षाधुरं नन्दो निजपुत्रे निधाय सः

॥३॥

जितेंद्रियो जिताहारः प्रविवेश तपोवनम् ॥

ताते तपोवनं याते धर्मगुप्ताभिधो नृपः

॥४॥

मेदिनीं पालयामास धर्मज्ञो नीतितत्परः ॥

ईजे वहुविधैर्यज्ञैर्देवानिन्द्र पुरोगमान्

॥५॥

ब्राह्मणानां ददौ वित्तं क्षेत्राणि च बहूनि सः ॥

सर्वे स्वधर्मनिरतास्तस्मिन्राजनि शासति

॥६॥

कदाचिन्नाभवन्पीडास्तस्मिंश्चोरादिसंभवाः ॥

कदाचिद्धर्मगुप्तोऽयमारुह्य तुरगोत्तमम्

॥७॥

वनं विवेश विप्रेंद्रा मृगयारसकौतुकी ॥

तमालतालहिन्तालकुरवाकुलदिङ्मुखे

॥८॥

विचचार वने तस्मिन्सिंसहव्याघ्रभयानके ॥

मत्तालिकुलसन्नादसंमूर्च्छितदिगन्तरे

॥९॥

पद्मकल्हारकुमुदनीलोत्पलवनाकुले ॥

तटाके रससंपूर्णे तपस्विजनमण्डिते

॥१०॥

तस्मिन्वने सञ्चरतो धर्मगुप्तस्य भूपतेः ॥

अभूद्विभावरी विप्रास्तमसावृतदिङ्मुखा

॥११॥

राजाऽपि पश्चिमां सन्ध्यामुपास्य विनयान्वितः ॥

जजाप च वने तत्र गायत्रीं वेदमातरम्

॥१२॥

सिंहव्याघ्रादिभीत्यास्मिन्वृक्षमेकं समाश्रिते ॥

राजपुत्रे तदभ्याशमृक्षः सिंहभयार्दितः

॥१३॥

अन्वधावत वृक्षं तमेकः सिंहो वनेचरः ॥

अनुद्रुतः स सिंहेन ऋक्षो वृक्षमुपारुहत्

॥१४॥

आरुह्य ऋक्षो वृक्षं तं ददर्श जगतीपतिम् ॥

वृक्षस्थितं महात्मानं महाबलपराक्रमम्

॥१५॥

उवाच भूपतिं दृष्ट्वा ऋक्षोयं वनगोचरः ॥

मा भीतिं कुरु राजेंद्र वत्स्यावो रजनीमिह

॥१६॥

महासत्त्वो महाकायो महादंष्ट्रसमाकुलः ॥

वृक्षमूलं समायातः सिंहोऽयमतिभीषणः

॥१७॥

रात्र्यर्धं भज निद्रां त्वं रक्ष्यमाणो मयोद्यतः ॥

ततः प्रसुप्तं मां रक्ष शर्वर्यर्धं महामते

॥१८॥

इति तद्वाक्यमाकर्ण्य सुप्ते नन्दसुते हरिः ॥

प्रोवाच ऋक्षं सुप्तोऽयं नृपो मे त्यज्यतामिति

॥१९॥

तं सिंहमब्रवीदृक्षो धर्मज्ञो द्विजसत्तमाः ॥

भवान्धर्मं न जानीते मृगराज वनेचर

॥२०॥

विश्वासघातिनां लोके महाकष्टं भवत्यहो ॥

न हि मित्रद्रुहां पापं नश्येद्यज्ञायुतैरपि

॥२१॥

ब्रह्महत्यादिपापानां कथञ्चिन्निष्कृतिर्भवेत् ॥

विश्वासघातिनां पापं न नश्येज्जन्मकोटिभिः

॥२२॥

नाहं मेरुं महाभारं मन्ये पञ्चास्य भूतले ॥

महाभारमिमं मन्ये लोकविश्वासघातकम्

॥२३॥

एवमुक्तोऽथ ऋक्षेण सिंहस्तूष्णीं बभूव ह ॥

धर्मगुप्ते प्रबुद्धे तु ऋक्षः सुष्वाप भूरुहे

॥२४॥

ततः सिंहोऽब्रवीद्भूपमेनमृक्षं त्यजस्व मे ॥

एवमुक्तोऽथ सिंहेन राजा सुप्तमशंकितः

॥२५॥

स्वांकन्यस्तशिरस्कं तमृक्षं तत्याज भूतले ॥

पात्यमानस्ततो राज्ञा समालम्बितपादपः

॥२६॥

ऋक्षः पुण्यवशाद्वृक्षान्न पपात महीतले ॥

स ऋक्षो नृपमभ्येत्य कोपाद्वाक्यमभाषत

॥२७॥

कामरूपधरो राजन्नहं भृगुकुलोद्भवः ॥

ध्यानकाष्ठाभिधो नाम्ना ऋक्षरूपमधारयम्

॥२८॥

कस्मादनागसं सुप्तमत्याक्षीन्मां भवान्नृप ॥

मच्छापादतिशीघ्रं त्वमुन्मत्तश्चर भूतले

॥२९॥

इति शप्त्वा मुनिर्भूपं ततः सिंहमभाषत ॥

न सिंहस्त्वं महायक्षः कुबेरसचिवः पुरा

॥३०॥

हिमवद्गिरिमासाद्य कदाचित्तं वधूसखः ॥

अज्ञानाद्गौतमाभ्याशे विहारमतनोर्मुदा

॥३१॥

गौतमोऽप्युटजाद्दैवात्समिदाहरणाय वै ॥

निर्गतस्त्वां विवसनं दृष्ट्वा शापमुदाहरत्

॥३२॥

यस्मान्ममाश्रमेऽद्य त्वं विवस्त्रः स्थितवानसि ॥

अतः सिंहत्वमद्यैव भविता ते न संशयः

॥३३॥

इति गौतमशापेन सिंहत्वमगमत्पुरा ॥

कुबेरसचिवो यक्षो भद्रनामा भवान्पुरा

॥३४॥

कुबेरो धर्मशीलो हि तद्भृत्याश्च तथैव हि ॥

अतः किमर्थं त्वं हंसि मामृषिं वनगोचरम्

॥३५॥

एतत्सर्वमहं ध्यानाज्जानामि हि मृगाधिप ॥

इत्युक्तो ध्यानकाष्ठेन त्यक्त्वा सिंहत्वमाशु सः

॥३६॥

यक्षरूपं गतो दिव्यं कुबेरसचिवात्मकम् ॥

ध्यानकाष्ठमसावाह प्रांजलिः प्रणतो मुनिम्

॥३७॥

अद्य ज्ञातं मया सर्वं पूर्ववृत्तं महामुने ॥

गौतमः शापकाले मे शापान्तमपि चोक्तवान्

॥३८॥

ध्यानकाष्ठेन संवाद ऋक्षरूपेण ते यदा ॥

तदा निर्धूय सिंहत्वं यक्षरूपमवाप्स्यसि

॥३९॥

इति मामब्रवीद्ब्रह्मन्गौतमो मुनिपुङ्गवः ॥

अद्य सिंहत्वनाशान्मे जानामि त्वां महामुने

॥४०॥

ध्यानकाष्ठाभिधं शुद्धं कामरूपधरं सदा ॥

इत्युक्त्वा तं प्रणम्याथ ध्यानकाष्ठं स यक्षराट्

॥४१॥

विमानवरमारुह्य प्रययावलकापुरीम् ॥

उन्मत्तरूपं तं दृष्ट्वा मन्त्रिणस्तु नृपोत्तमम्

॥४२॥

पितुः सकाशमानिन्यू रेवातीरे नृपोत्तमम् ॥

तस्मै निवेदयामासुर्मतिभ्रंशं सुतस्य च

॥४३॥

ज्ञात्वा तु पुत्रवृत्तान्तं पिता वै नंदनस्तदा

॥४४॥

अथ जैमिनिवाक्यात्स्वामितीर्थस्नातस्य धर्मगुप्तस्योन्मादनिवृत्तिः ॥

पुत्रमादाय सहसा जैमिनेरन्तिकं ययौ ॥

तस्मै निवेदयामास पुत्रवृत्तान्तमादितः

॥४५॥

भगवञ्जैमिने पुत्रो ममाद्योन्मत्ततां गतः ॥

अस्योन्मादविनाशाय ब्रूह्युपायं महामुने

॥४६॥

इति पृष्टश्चिरं दध्यौ जैमिनिर्मुनिपुंगवः ॥

ध्यात्वा तु सुचिरं कालं नृपनन्दनमब्रवीत्

॥४७॥

ध्यानकाष्ठस्य शापेन ह्युन्मत्तस्ते सुतोऽभवत् ॥

तस्य शापस्य मोक्षार्थमुपायं प्रब्रवीमि ते

॥४८॥

सुवर्णमुखरीतीरे वेंकटेनाम पर्वते ॥

सर्वपापहरे पुण्ये नानाधातुविनिर्मिते

॥४९॥

स्वामिपुष्करिणी चेति तीर्थमस्ति महत्तरम् ॥

पवित्राणां पवित्रं हि मंगलानां च मंगलम्

॥५०॥

श्रुतिसिद्धं महापुण्यं ब्रह्महत्यादिशोधकम् ॥

नीत्वा तत्र सुतं तेऽद्य स्नापयस्व महामते

॥५१॥

उन्मादस्तत्क्षणादेव तस्य नश्येन्न संशयः ॥

इत्युक्तस्तं प्रणम्यासौ जैमिनिं मुनिपुंगवम्

॥५२॥

नन्दः पुत्रं समादाय स्वामिपुष्करिणीं ययौ ॥

तत्र च स्नापयामास पुत्रं नियमपूर्वकम्

॥५३॥

स्नानमात्रात्ततः सद्यो नष्टोन्मादोऽभवत्सुतः ॥

स्वयं सस्नौ स नन्दोऽपि स्वामिपुष्करिणीजले

॥५४॥

उषित्वा दिनमेकं तु सहपुत्रः पिता तदा ॥

सेवित्वा वेंकटेशं च श्रीनिवासं कृपानिधिम्

॥५५॥

पुत्रमापृच्छ्य नन्दस्तं प्रययौ तपसे वनम् ॥

गते पितरि पुत्रोऽपि धर्मगुप्तो नृपो द्विजाः

॥५६॥

प्रददौ वेंकटेशस्य बहुवित्तानि भक्तितः ॥

ब्राह्मणेभ्यो धनं धान्यं क्षेत्राणि च ददौ तदा

॥५७॥

प्रययौ मन्त्रिभिः सार्धं स्वां पुरीं तदनन्तरम् ॥

धर्मेण पालयामास राज्यं निहतकण्टकम्

॥५८॥

पितृपैतामहं विप्रा धर्मगुप्तोतिधार्मिकः ॥

उन्मादैरप्यपस्मारैर्ग्रहैर्दुष्टैश्च ये नराः

॥५९॥

ग्रस्ता भवन्ति विप्रेन्द्रास्तेऽपि चात्र निमज्जनात् ॥

पुष्करिण्यां विमुक्ताः स्युः सत्यं सत्यं वदाम्यहम्

॥६०॥

स्वामिपुष्करिणीं त्यक्त्वा तीर्थमन्यद्व्रजेत्तु यः ॥

स्निग्धं स गोपयस्त्यक्त्वा स्नुहीक्षीरं प्रयाचते

॥६१॥

स्वामितीर्थं स्वामितीर्थं स्वामितीर्थमिति द्विजाः ॥

त्रिःपठन्तो नरा एवं यत्र क्वापि जलाशये

॥६२॥

स्नांति सर्वे नरास्ते वै यास्यन्ति ब्रह्मणः पदम् ॥

एवं वः कथिता विप्रा धर्मगुप्तकथा शुभा

॥६३॥

यस्याः श्रवणमात्रेण ब्रह्महत्या विनश्यति

॥६४॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवेंकटाचलमाहाल्ये स्वामिपुष्करिणीमहिमानुवर्णनंनाम त्रयोदशोऽध्यायः ॥ १३ ॥