मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — वेङ्कटाचलमाहात्म्यम्, अध्याय १९

3
वैष्णवखण्डः · वेङ्कटाचलमाहात्म्यम् · 19

अथातः संप्रवक्ष्यामि वेंकटाचलवैभवम्

अथ ब्रह्मादीनां नैरंतर्येण श्रीवेंकटाचले स्थितिवर्णनम् ॥

श्रीसूत उवाच ॥

अथातः संप्रवक्ष्यामि वेंकटाचलवैभवम् ॥

युष्माकं सावधानेन शृणुध्वं सुसमाहिताः

॥१॥

लक्षकोटिसहस्राणि सरांसि सरितस्तथा ॥

समुद्राश्च महापुण्या वनान्यप्याश्रमा अपि

॥२॥

पुण्यानि क्षेत्रजातानि वेदारण्यादिकानि च ॥

मुनयश्च वसिष्ठाद्या सिद्धचारणकिंनराः

॥३॥

लक्ष्म्या सह धरण्या च भगवान्मधुसूदनः ॥

सावित्र्या च सरस्वत्या सहैव चतुराननः

॥४॥

पार्वत्या सह देवेशस्त्र्यम्बकस्त्रिपुरांतकः ॥

हेरम्बषण्मुखाद्याश्च देवाः सेन्द्रपुरोगमाः

॥५॥

आदित्यादि ग्रहाश्चैव तथाष्टवसवो द्विजाः ॥

पितरो लोकपालाश्च तथान्ये देवतागणाः

॥६॥

महापातकसंघानां नाशने लोकपावने ॥

दिवानिशं वसन्त्यंतर्वेंकटाचलमूर्धनि

॥७॥

तस्य दर्शनमात्रेण बुद्धिसौख्यं नृणां भवेत् ॥

तन्मूर्धनि कृतावासा सिद्धचारणयोषितः

॥८॥

पूजयंति सदाकालं वेंकटेशं कृपानिधिम् ॥

कोटयो ब्रह्महत्यानामगम्यागमकोटयः

॥९॥

अङ्गलग्ना विनश्यंति वेंकटाचलमारुतैः

॥१०॥

अथ श्रीवेंकटाचलारोहणसमयानुसंध्यानक्रमः ॥

वेंकटाद्रिं गिरिं तं तु प्रार्थयेत्पुण्यवर्धनम् ॥

स्वर्णाचल महापुण्य सर्वदेवनिषेवित

॥११॥

ब्रह्मादयोऽपि यं देवाः सेवन्ते श्रद्धया सह ॥

तं भवन्तमहं पद्भ्यामाक्रमेयं नगोत्तम

॥१२॥

क्षमस्व तदघं मेऽद्य दयया पापचेतसः ॥

त्वन्मूर्धनि कृतावासं माधवं दर्शयस्व मे

॥१३॥

प्रार्थयित्वा नरस्त्वेवं वेंकटाद्रिं नगोत्तमम् ॥

ततो मृदुपदं गच्छेत्पावनं वेंकटाचलम्

॥१४॥

वेंकटाद्रौ महापुण्ये सर्वपातकनाशने ॥

स्वामिपुष्करिणीतीर्थे स्नात्वा नियमपूर्वकम्

॥१५॥

पिण्डदानं ततः कुर्यादपि सर्षपमात्रकम् ॥

शमीदलसमानान्वा दद्यात्पिंडान्पितॄन्प्रति

॥१६॥

स्वर्गस्था मोक्षमायांति स्वर्गं नरकवासिनः

॥१७॥

अथ पापविनाशनाख्यतीर्थमाहात्म्यम् ॥

ततस्तस्योपरि महत्सर्वलोकेषु विश्रुतम् ॥

सर्वतीर्थोत्तमं पुण्यं नाम्ना पापविनाशनम्

॥१८॥

अस्ति पुण्यतमे विप्राः पवित्रे वेंकटाचले ॥

यस्य संस्मरणादेव गर्भवासो न विद्यते

॥१९॥

तत्प्राप्य तु नरः स्नायात्स्वामितीर्थस्य चोत्तरे ॥

तत्र स्नानान्नरा यांति वैकुण्ठं नात्र संशयः

॥२०॥

ऋषय ऊचुः

सूत पापविनाशाख्यतीर्थस्य ब्रूहि वैभवम् ॥

व्यासेन बोधितस्त्वं हि वेत्सि सर्वं महामुने

॥२१॥

श्रीसूत उवाच

ब्रह्माश्रमपदे वृत्तां पार्श्वे हिमवतः शुभे ॥

वक्ष्यामि ब्राह्मणश्रेष्ठा युष्माकं तु कथां शुभाम्

॥२२॥

तदाश्रमपदं पुण्यं ब्रह्माश्रमपदं शुभम् ॥

नानावृक्षसमाकीर्णं पार्श्वे हिमवतः शुभे

॥२३॥

बहुगुल्मलताकीर्णं मृगद्विपनिषेवितम् ॥

सिद्धचारणसंघुष्टं रम्यं पुष्पितकाननम्

॥२४॥

यतिभिर्बहुभिः कीर्णं तापसैरुपशोभितम् ॥

ब्राह्मणैश्च महाभागैः सूर्यज्वलनसन्निभैः

॥२५॥

नियमव्रतसम्पन्नैः समाकीर्णे तपस्विभिः ॥

दीक्षितैर्यागशीलैश्च यताहारैः कृतात्मभिः

॥२६॥

वेदाध्ययनसंपन्नैर्वैदिकैः परिवेष्टितम् ॥

वर्णिभिश्च गृहस्थैश्च वानप्रस्थैश्च भिक्षुभिः

॥२७॥

स्वाश्रमाचारनिरतैः स्ववर्णोक्तविधायिभिः ॥

वालखिल्यैश्च ऋषिभिः समंतात्परिवेष्टितम्

॥२८॥

अथ दृढमत्याख्यशूद्रवृत्तान्तः ॥

तत्राश्रमे पुरा कश्चिच्छूद्रो दृढमतिर्द्विजाः ॥

साहसी ब्राह्मणाभ्याशमाजगाम मुदान्वितः

॥२९॥

आगतो ह्याश्रमपदं पूजितश्च तपस्विभिः ॥

नाम्ना दृढमतिः शूद्रः साष्टांगं प्रणनाम वै

॥३०॥

तान्स दृष्ट्वा मुनिगणान्देवकल्पान्महौजसः ॥

कुर्वतो विविधान्यज्ञान्संप्राशहृष्यत शूद्रकः

॥३१॥

अथास्य बुद्धिरभवत्तपः कर्तुमनुत्तमम् ॥

ततोऽब्रवीत्कुलपतिं मुनिमागत्य तापसम्

॥३२॥

दृढमतिरुवाच

तपोधन नमस्तेऽस्तु रक्ष मां करुणानिधे ॥

तव प्रसादादिच्छामि यागं कर्तुं प्रसीद मे

॥३३॥

अथ दृढमतिं प्रति कुलपत्याख्यमुन्युपदिष्टशूद्रधर्माः ॥

एवमुक्तस्तु शूद्रेण तमाह ब्राह्मणस्तदा

॥३४॥

कुलपतिरुवाच

यागे दीक्षयितुं शक्यो न शूद्रो हीनजन्मभाक् ॥

भूयते यदि ते बुद्धिः शुश्रूषा निरतो भव

॥३५॥

उपदेशो न कर्तव्यो जातिहीनस्य कर्हिचित् ॥

उपदेशे महान्दोष उपाध्यायस्यविद्यते

॥३६॥

नाध्यापयेद्बुधः शूद्रं तथा नैव च याजयेत् ॥

न पाठयेत्तथा शूद्रं शास्त्रं व्याकरणादिकम्

॥३७॥

काव्यं वा नाटकं वापि तथालंकारमेव वा ॥

पुराणमितिहासं च शूद्रं नैव तु पाठयेत्

॥३८॥

यदि चोपदिशेद्विप्रः शूद्रस्यैतानि कर्हिचित् ॥

त्यजेयुर्ब्राह्मणा विप्रं ते ग्रामाद्ब्रह्मसंकुलात्

॥३९॥

शूद्राय चोपदेष्टारं द्विजं चण्डालवत्त्यजेत् ॥

शूद्रं चाक्षरसंयुक्तं दूरतः परिवर्जयेत्

॥४०॥

तच्छुश्रूषस्व भद्रं ते ब्राह्मणाच्छद्धयासह ॥

शूद्रस्य द्विजशुश्रूषा मन्वादिभिरुदीरिता

॥४१॥

न हि नैसर्गिकं कर्म परित्यक्तुं त्वमर्हसि ॥

एवमुक्तः स मुनिना स शूद्रोऽचिन्तयत्तदा

॥४२॥

किं कर्तव्यं मया त्वद्य व्रते श्रद्धा हि मे परा ॥

यथा स्यान्ममसुज्ञान यतिष्येऽहं तथाद्य वै

॥४३॥

इति निश्चित्य मनसा शूद्रो दृढमतिस्तदा ॥

गत्वाश्रमपदादूरं कृतवानुटजशुभम्

॥४४॥

तत्र वै देवतागारं पुण्यान्यायतनानि च ॥

पुष्पारामादिकं चापि तटाकखननादिकम्

॥४५॥

श्रद्धया कारयामास तपः सिद्ध्यर्थमात्मन ॥

अभिषेकांश्च नियमानुपवासादिकानपि

॥४६॥

बलिं कृत्वा च हुत्वा च दैवतान्यभ्यपूजयत् ॥

संकल्पनियमोपेतः फलाहारो जितेंद्रियः

॥४७॥

नित्यं कन्दैश्च मूलैश्च पुष्पैरपि तथा फलैः ॥

अतिथीन्पूजयामास यथावत्समुपागतान्

॥४८॥

एवं हि सुमहान्कालो व्यतिचक्राम तस्य वै

॥४९॥

अथ दृढमतये सुमत्याख्यविप्रप्रकाशितकर्मानुष्ठानक्रमः ॥

अथाश्रममगात्तस्य सुमतिर्नाम नामतः ॥

द्विजो गर्गकुलोद्भूतः सत्यवादी जितेंद्रियः

॥५०॥

स्वागतैर्मुनिमाराध्य तोषयित्वा फलादिकैः ॥

कथयन्वै कथाः पुण्याः कुशलं पर्यपृच्छत

॥५१॥

इत्थं विप्रः स पाद्याद्यैरुपचारैस्तु पूजितः ॥

आशीर्भिरभिनन्द्यैनं प्रतिगृह्य च सत्क्रियाम्

॥५२॥

तमापृच्छत्प्रहृष्टात्मा स्वाश्रमं पुनराययौ ॥

एवं दिनेदिने विप्रः शूद्रेऽस्मिन्पक्षपातवान्

॥५३॥

आगच्छदाश्रमं तस्य द्रष्टुं तं शूद्रयोनिजम् ॥

बहुकालं द्विजस्याभूत्संसर्गः शूद्रयोनिना

॥५४॥

स्नेहस्य वशमापन्नः शूद्रोक्तं नातिचक्रमे ॥

अथागतं द्विजं शूद्रः प्राह स्नेहवशीकृतम्

॥५५॥

हव्यकव्यविधानं मे ब्रूहि त्वं तु गुरुर्मतः ॥

एवमुक्तः स शूद्रेण सर्वमेतदुपादिशत्

॥५६॥

कारयामास शूद्रस्य पितृकार्यादिकं तदा ॥

पितृकार्ये कृते तेन विसृष्टः स द्विजोत्तमः

॥५७॥

अथ शूद्रस्य वैदिककर्मोपदेशेन सुमत्यनुभूतदुर्गतिः ॥

अथ दीर्घेण कालेन पोषितः शूद्रयोनिना ॥

त्यक्तो विप्रगणैः सोऽयं पञ्चत्वमगमद्द्विजः

॥५८॥

वैवस्वतभटैर्नीत्वा पातितो नरकेष्वपि ॥

कल्पकोटिसहस्राणि कल्पकोटिशतानि च

॥५९॥

भुक्त्वा क्रमेण नरकांस्तदन्ते स्थावरोऽभवत् ॥

गर्दभस्तु ततो जज्ञे विड्वराहस्ततः परम्

॥६०॥

जज्ञेऽथ सारमेयोऽसौ पश्चाद्वायसतां गतः ॥

अथ चण्डालतां प्राप्य शूद्रयोनिमगात्ततः

॥६१॥

गतवान्वैश्यतां पश्चात्क्षत्रियस्तदनन्तरम् ॥

प्रबलैर्बाध्यमानोऽसौ ब्राह्मणो वै तदाभवत्

॥६२॥

उपनीतः स पित्रा तु वर्षे गर्भाष्टमे द्विजः ॥

वर्तमानः पितुर्गेहे स्वाचाराभ्यासतत्परः

॥६३॥

गच्छन्कदाचिद्गहने गृहीतो ब्रह्मरक्षसा ॥

रुदन्भ्रमन्स्खलन्मूढः प्रलपन्प्रहसन्नसौ

॥६४॥

शश्वद्धाहेति च वदन्वैदिकं कर्म सोऽत्यजत् ॥

दृष्ट्वा सुतं तथाभूतं पिता दुःखेन पीडितः

॥६५॥

सुतमादाय च स्नेहादगस्त्यं शरणं ययौ ॥

सुवर्णमुखरीतीरे तपस्यन्तं शिवाग्रतः

॥६६॥

भक्त्या मुनिं प्रणम्यासौ पिता तस्य सुतस्य वै ॥

तस्मै निवेदयामास स्वपुत्रस्य विचेष्टितम्

॥६७॥

अथागस्त्योक्त्या दुर्गत्यपनोदनार्थं सुमतेर्वेंकटाद्रिगमनम् ॥

अब्रवीच्च तदा विप्रः कुम्भजं मुनिपुंगवम् ॥

एष मे तनयो ब्रह्मन्गृहीतो ब्रह्मरक्षसा

॥६८॥

सुखं न लभते ब्रह्मन्रक्ष तं करुणादृशा ॥

नास्ति मे तनयोऽप्यन्यः पितॄणामृणमुक्तये

॥६९॥

तस्य पीडाविनाशार्थमुपायं ब्रूहि कुम्भज ॥

त्वत्समस्त्रिषु लोकेषु तपःशीलो न विद्यते

॥७०॥

त्वां विनास्य परित्राता न मे पुत्रस्य विद्यते ॥

पुत्रे दयां कुरु गुरो दयाशीला हि साधवः

॥७१॥

श्रीसूत उवाच

एवमुक्तस्तदा तेन कुम्भजो ध्यानमास्थितः ॥

ध्यात्वा तु सुचिरं कालमब्रवीद्ब्राह्मणं ततः

॥७२॥

अगस्त्य उवाच

पूर्वजन्मनि ते पुत्रो ब्राह्मणोऽयं महामते ॥

सुमतिर्नाम विप्रोऽयं मतिं शूद्राय वै ददौ

॥७३॥

कर्माणि वैदिकान्येष सर्वाण्युपदिदेश वै ॥

अतोऽयं नरकान्भुक्त्वा कल्पकोटिसहस्रकम्

॥७४॥

जातो भुवि तदन्तेषु स्थावरादिषु योनिषु ॥

इदानीं ब्राह्मणो जातः कर्मशेषेण ते सुतः

॥७५॥

यमेन प्रेषितेनात्र गृहीतो ब्रह्मरक्षसा ॥

क्रूरेण पातकेनाद्य पूर्वजन्मकृतेन वै

॥७६॥

उपायं ते प्रवक्ष्यामि ब्रह्मरक्षोविनाशने ॥

शृणुष्व श्रद्धया युक्तः समाधाय च मानसम्

॥७७॥

सुवर्णमुखरीतीरे ऋषिसंघनिषेविते ॥

वर्तते दैवतैः सेव्यः पावनो वेंकटाचलः

॥७८॥

तस्योपरि महातीर्थं नाम्ना पापविनाशनम् ॥

अस्ति पुण्यं प्रसिद्धं च महापातकनाशनम्

॥७९॥

भूतप्रेतपिशाचानां वेतालब्रह्मरक्षसाम् ॥

महतां चैव रोगाणां तीर्थं तन्नाशकं स्मृतम्

॥८०॥

सुतमादाय गच्छ त्वं तत्तीर्थं गिरिमध्यगम् ॥

प्रयतः स्नापय सुतं तीर्थे पापविनाशने

॥८१॥

स्नानेन त्रिदिनं तत्र बह्मरक्षो विनश्यति ॥

नैवोपायान्तरं तस्य विनाशे विद्यते भुवि

॥८२॥

तस्माच्छीघ्रं प्रयाहि त्वं वेंकटाह्वयपर्वतम् ॥

तत्र पापविनाशाख्यतीर्थे स्नापय ते सुतम्

॥८३॥

मा विलम्बं कुरुष्वात्र त्वरया याहि वै द्विज ॥

इत्युक्तः स द्विजोऽगस्त्यं प्रणम्य भुवि दण्डवत्

॥८४॥

अनुज्ञातश्च तेनासौ प्रययौ वेंकटाचलम् ॥

सुतेन साकं विप्रोऽसौ गत्वा पापविनाशनम्

॥८५॥

अथ सुमतेः पापनाशनस्नानेन दुर्गत्यपनोदनम् ॥

संकल्पपूर्वं संस्नाप्य दिनत्रयमसौ सुतम् ॥

सस्नौ स्वयं च विप्रेन्द्रः पिता पापविनाशने

॥८६॥

समागतः पपौ तोयं कृत्वा चाप्याह्निकक्रमम् ॥

अथ तस्य सुतस्तत्र विमुक्तो ब्रह्मरक्षसा

॥८७॥

समजायत नीरोगः स्वस्थः सुन्दररूपधृक् ॥

सर्वसंपत्समृद्धोऽसौ भुक्त्वा भोगाननेकशः

॥८८॥

देहान्ते प्रययौ मुक्तिं स्नानात्पापविनाशने ॥

पितापि तत्र स्नानेन देहान्ते मुक्तिमाप्तवान्

॥८९॥

अथ वैदिककर्मानुष्ठातुर्दृढमतेर्दुर्गतिप्राप्त्यपनोदनम् ॥

तेनोपदिष्टोऽयं शूद्रः स भुक्त्वा नरकान्क्रमात् ॥

अनेकासु जनित्वा च कुत्सितास्वपि योनिषु

॥९०॥

गृध्रजन्माभवत्पश्चाद्वेंकटाचलभूधरे ॥

स कदाचिज्जलं पातुं तीर्थे पापविनाशने

॥९१॥

समागतः पपौ तोयं सिषिचे चात्मनस्तनुम् ॥

तदैव दिव्यदेहः सन्सर्वाभरणभूषितः

॥९२॥

दिव्यं विमानमारुह्य प्रययावमरालयम्

॥९३॥

श्रीसूत उवाच

एवम्प्रभावमेतद्वै तीर्थं पापविनाशनम् ॥

पापानां नाशनाद्विप्राः पापनाशाभिधं हि तत्

॥९४॥

इत्थं रहस्यं कथितं मुनीन्द्रास्तद्वैभवं पापविनाशनस्य ॥

यत्राभिषेकात्सहसा विमुक्तौ द्विजश्च शूद्रश्च विनिन्द्यकृत्यौ

॥९५॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवेंकटाचलमाहात्म्यं पापविनाशनतीर्थमहिमानुवर्णनंनामैकोनविंशतितमोऽध्यायः ॥ १९ ॥