मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — वेङ्कटाचलमाहात्म्यम्, अध्याय १६

3
वैष्णवखण्डः · वेङ्कटाचलमाहात्म्यम् · 16

जलदानवैभववर्णनम्

अथ श्रीवेंकटाद्रौ जलदानप्रशंसा ॥

श्रीसूत उवाच ॥

वेंकटाख्ये महापुण्ये तृषार्तानां विशेषतः ॥

जलदानमकुर्वाणस्तिर्यग्योनिमवाप्नुयात्

॥१॥

तस्माद्वेंकटशैलेन्द्रे यथाशक्त्यनुसारतः ॥

जलदानं हि कर्तव्यं सर्वेषां जीवनं महत्

॥२॥

अत्रैवोदाहरन्तीममितिहासं पुरातनम् ॥

विप्रस्य गृहगोधायाः संवादं परमाद्भुतम्

॥३॥

अथ हेमांगस्य जलदानाकरणेन गृहगोधिकात्वप्राप्तिः ॥

पुरा चेक्ष्वाकुवंशेऽभूद्धेमांग इति भूमिपः ॥

ब्रह्मण्यो ब्रह्मभूयिष्ठो जितामित्रो जितेंद्रियः

॥४॥

यावन्तो भूमिकणिका यावन्तस्तोयबिन्दवः ॥

यावन्त्युडूनि गगने तावतीर्गा ददात्यसौ

॥५॥

येनेष्टयज्ञदर्भैश्च भूमिर्बर्हिष्मती स्मृता ॥

गोभूतिलहिरण्याद्यैस्तोषिता बहवो द्विजाः

॥६॥

तेनादत्तानि दानानि न विद्यन्त इति श्रुतम् ॥

तेनादत्तं जलं चैकं सुखलभ्यधिया द्विजाः

॥७॥

बोधितो ब्रह्मपुत्रेण वसिष्ठेन महात्मना ॥

अमूल्यं सर्वतोलभ्यं तद्दातुः किं फलं लभेत्

॥८॥

इति दुर्धीर्हेतुवादैर्न जलं दत्तवान्विभुः ॥

अलभ्यदाने पुण्यं स्यादित्यवादीत्सयुक्तिकम्

॥९॥

स आनर्च द्विजान्व्यङ्गान्दरिद्रान्वृत्तिकर्शितान् ॥

नानर्च श्रोत्रियान्विप्रान्ब्रह्मज्ञान्ब्रह्मवादिनः

॥१०॥

प्रख्यातान्पूजयिष्यन्ति सर्वलोकाः सहार्हणैः ॥

अनाथानामविद्यानां व्यङ्गानां च कुटुंबिनाम्

॥११॥

दरिद्राणां गतिः का वा तस्मात्ते मद्दयास्पदाः ॥

इति दुष्टेषु पात्रेषु दत्तवान्किमपि स्वकम्

॥१२॥

तेन दोषेण महता चातकत्वं त्रिजन्मसु ॥

एकजन्मनि गृध्रत्वं श्वत्वं वा सप्त जन्मसु

॥१३॥

प्राप्य पश्चाद्गृहे जातो भूपोऽयं गृहगोधिका ॥

श्रुतकीर्तेस्तु भूपस्य मिथिलाधिपतेर्द्विजाः

॥१४॥

गृहद्वारप्रतोल्यां स्म वर्तते कीटकाशनः ॥

अष्टाशीतिषु वर्षेषु स्थितं तेन दुरात्मना

॥१५॥

अथ श्रुतदेवपादोदकसेवनेन हेमांगस्य जातिस्मरणम् ॥

विदेहाधिपतेर्गेहं कदाचिदृषिसत्तमः ॥

श्रुतदेव इति ख्यातः श्रान्तो मध्याह्न आगमत्

॥१६॥

तं दृष्ट्वा सहसोत्थाय जातहर्षो नराधिपः ॥

मधुपर्कः सुसंपूज्य तस्य पादावनेजनीः

॥१७॥

अपो मूर्ध्नावहत्क्षिप्रं तदोत्क्षिप्तैश्च बिन्दुभिः ॥

दैवोपदिष्टकालेन प्रोक्षिता गृहगोधिका

॥१८॥

सद्यो जातिस्मृतिरभूत्कृतकर्मातिदुःखिता ॥

त्राहि त्राहीति चुक्रोश ब्राह्मणं गृहमागतम्

॥१९॥

तिर्यग्जन्तुरवं श्रुत्वा ब्राह्मणो विस्मितोऽभवत् ॥

कुतः क्रोशसि गोधे त्वं दशेयं केन कर्मणा

॥२०॥

उपदेवोऽथ देवो वा त्वं नृपोऽथ द्विजोत्तमः ॥

कस्त्वं ब्रूहि महाभाग त्वामद्याहं समुद्धरे

॥२१॥

इत्युक्तः स नृपः प्राह श्रुतदेवं महाप्रभुः ॥

अहमिक्ष्वाकुकुलजः शस्त्रविद्याविशारदः

॥२२॥

यावन्तो भूमिकणिका यावन्तस्तोयबिन्दवः ॥

यावन्त्युडूनि गगने तावतीर्गा अदामहम्

॥२३॥

सर्वैर्यज्ञैर्मया चेष्टं पूर्तान्याचरितानि मे ॥

दानान्यपि च दत्तानि धर्मजातं स्वनुष्ठितम्

॥२४॥

तथापि दुर्गतिर्जाता न मे चोर्ध्वगतिर्विभो ॥

त्रिवारं चातकत्वं मे गृध्रत्वं चैकजन्मनि

॥२५॥

सप्तजन्मसु च श्वत्वं प्राप्तं पूर्वं मया द्विज ॥

धरतानेन भूपेन चापः पादावनेजनीः

॥२६॥

बिन्दवो दूरमुत्क्षिप्तास्तैः सिक्तोऽहं कथंचन ॥

तदा जन्मस्मृतिरभूत्तेन मे हतपाप्मनः

॥२७॥

गोधाजन्मानि भाव्यानीत्यष्टाविंशति मे द्विज ॥

दृश्यन्ते देवदिष्टानि बिभ्यते जन्मभिर्भृशम्

॥२८॥

न कारणं प्रपश्यामि तन्मे विस्तरतो वद ॥

इत्युक्तः स द्विजः प्राह ज्ञातं विज्ञानचक्षुषा

॥२९॥

अथ श्रुतदेवदत्तपुण्येन हेमांगस्य गोधिकात्वविमुक्तिः ॥

शृणु भूप प्रवक्ष्यामि तव दुर्गतिकारणम् ॥

न जलं तु त्वया दत्तं वेंकटाह्वयभूधरे

॥३०॥

तज्जलं सुलभं मत्वा न मौल्यमिति निश्चितः ॥

नाध्वगानां द्विजादीनां घर्मकालेऽप्यजानता

॥३१॥

तथा पात्रं समुत्सृज्य ह्यपात्रे प्रतिपादितम् ॥

ज्वलन्तमग्निमुत्सृज्य न हि भस्मनि हूयते

॥३२॥

तुलसीं तु समुत्सृज्य बृहती पूज्यते नु किम् ॥

अनाथव्यंगपंगुत्वं न प्रयोजकतामियात्

॥३३॥

पंग्वाद्या येप्यनाथा हि दयापात्रं हि केवलम् ॥

तपोनिष्ठा ज्ञाननिष्ठाः श्रुतिशास्त्रपरायणाः

॥३४॥

विष्णुरूपाः सदा पूज्या नेतरे तु कदाचन ॥

तत्रापि ज्ञानिनोऽत्यर्थं प्रिया विष्णोः सदैव हि

॥३५॥

ज्ञानिनामपि भूपाल विष्णुरेव सदा प्रियः ॥

तस्माज्ज्ञानी सदा पूज्यः पूज्यात्पूज्यतरः स्मृतः

॥३६॥

न जलं तु त्वया दत्तं साधवो वा न सेविताः ॥

तेन ते दुर्गतिश्चेयं प्राप्ता चेक्ष्वाकुनन्दन

॥३७॥

वेंकटाद्रौ कृतं पुण्यं तुभ्यं दास्यामि शान्तये ॥

भूतं भव्यं भवत्तेन कर्मजातं विजेष्यसि

॥३८॥

इत्युक्त्वाप उपस्पृश्य ददौ पुण्यमनुत्तमम् ॥

यद्दत्तं ब्राह्मणेनापि स्नानं चैकदिने कृतम्

॥३९॥

तेन ध्वस्ताखिलाऽऽगास्तु त्यक्त्वा च गृहगोधिका ॥

रूपं कर्मोचितं घोरं सद्योऽदृश्यत पूरुषः

॥४०॥

दिव्यं विमानमारूढो दिव्यस्रग्वस्त्रभूषणः ॥

पश्यतामेव साधूनां मैथिलस्य गृहान्तरे

॥४१॥

बद्धाञ्जलिपुटो भूत्वा परिक्रम्य प्रणम्य च ॥

अनुज्ञातो ययौ राजा स्तूयमानोऽमरैर्दिवम्

॥४२॥

तत्र भुक्त्वा महाभोगान्वर्षायुतमतन्द्रितः ॥

स एव चेक्ष्वाकुकुले ककुत्स्थोऽभून्महारथः

॥४३॥

सप्तद्वीपप्रतीपालो ब्रह्मण्यः साधुसंमतः ॥

देवेन्द्रस्य समो विष्णोरंश एवं महाप्रभुः

॥४४॥

बोधितस्तु वसिष्ठेन सर्वान्धर्मान्मनोहरान् ॥

अनुष्ठायाखिलान्राजा तेन ध्वस्ताशुभादिकः

॥४५॥

दिव्यं ज्ञानं समासाद्य विष्णोः सायुज्यमाप्तवान् ॥

तस्माद्वेंकटशैलेन्द्रः पुण्यः पापविनाशनः

॥४६॥

तस्मिंश्च जलदानं तु विष्णुलोकप्रदायकम् ॥

एवं वः कथितं विप्रा जलदानस्य वैभवम् ॥

वेंकटाद्रौ महापुण्ये सर्वपातकनाशने

॥४७॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवेंकटाचलमाहात्म्ये जलदानवैभववर्णनंनाम षोडशोऽध्यायः ॥ १६ ॥