मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — वेङ्कटाचलमाहात्म्यम्, अध्याय ३०

3
वैष्णवखण्डः · वेङ्कटाचलमाहात्म्यम् · 30

भरद्वाजाश्रमवर्णनम्

अथ सुवर्णमुखरीवर्णनम् ॥

सूत उवाच ॥

तथा सर्वाणि तीर्थानि समालोक्यागतस्य च ॥

मुदं प्रगुणयाञ्चके सा पार्थस्य महापगा

॥१॥

यस्यास्तटनिकुञ्जेषु मोदन्ते वनिताः सुखाः ॥

सिद्धाः संसेविता वातैः शीकरासारशीतलैः

॥२॥

या समुद्यतहस्तेव गङ्गामाकाशवाहिनीम् ॥

आलिंगितुं समुत्तुंगैः कल्लोलैरभ्रसंगिभिः

॥३॥

धूमैराहुतिसंभूतैस्तरुशाखोपलंभिभिः ॥

वल्कलैश्च विराजन्ते यत्तटाश्रमभूमयः

॥४॥

मुनीन्द्रैः सुरवर्यैश्च स्थापितानि समन्ततः ॥

यत्तटद्वितये भांति दिव्यलिंगानि शूलिनः

॥५॥

यदीयसैकतावासविश्रान्ता मानसं सरः ॥

न स्मरंति निजावासं मराला विहगोत्तमाः

॥६॥

शमितावग्रहातंकैः कुल्यामुखविनिर्गतैः ॥

पुष्णाति तोयैः सस्यानि लोकरक्षाक्षमाणि या

॥७॥

चक्रवाककुचोत्तुंगवीचिवल्लीविभूषिता ॥

आवर्तनाभिविलसत्सैकतश्रोणि मण्डला

॥८॥

प्रफुल्लपद्मवदना चलन्मीनयुगेक्षणा ॥

विलसत्फेनवसना हंसयानमनोहरा

॥९॥

जलपक्षिरवालापा नयनानन्दकारिणी ॥

अपूर्वकामिनीरूपा या विभात्यम्बुधिप्रिया

॥१०॥

रोधस्यन्तरवाहिन्या नद्याः प्राच्यां धनञ्जयः ॥

ददर्श शैलमुत्तुंगं कालहस्तिसमाहयम्

॥११॥

उदग्रशिखराभोगोल्लिखिताकाशमण्डलम् ॥

सप्तपातालमूलाधोरूढमूलोपलांचितम्

॥१२॥

अथ अर्जुनस्य स्वर्णमुखरीतीरस्थकालहस्तीश्वरादिसेवाप्राप्तिः ॥

स्नात्वा तस्यां महानद्यां तस्मिञ्छैले सुरार्चितम् ॥

अपश्यदर्जुनो देवं कालहस्तीशनामकम्

॥१३॥

संपूज्य च महादेवं नगेन्द्रतनयासखम् ॥

मनसा भक्तियुक्तेन कृतार्थत्वमुपेयिवान्

॥१४॥

ततो महागिरौ तस्मिन्नद्भुतैकनिकेतने ॥

चचाराभूतपूर्वाणां विशेषाणां दिदृक्षया

॥१५॥

सिद्धानालोकयामास वसतो गिरिसानुषु ॥

गायतो देवदेवस्य चरित्राण्यबलायुतान्

॥१६॥

अप्सरोललनाजुष्टान्पुष्पासवमदाकुलान् ॥

निकुञ्जेषु समासीनान्गंधर्वानैक्षतादरात्

॥१७॥

विविक्तेषु प्रदेशेषु शिवध्यानपरायणान् ॥

अपश्यद्योगिनो दिव्यानादरानन्दशालिनः

॥१८॥

प्रशान्तान्याश्रमपदान्यवैक्षत समंततः ॥

बलिनीवारविलसद्द्वारभूमीश्च पाण्डवः

॥१९॥

निराहारान्वायुभुजः पर्णादानातपाशनान् ॥

शान्तानालोकयामास मुनीन्नियमितेन्द्रियान्

॥२०॥

मुदं वितेनिरे तस्य नेत्रयोः कमलाकराः ॥

फुल्लसौगन्धिकामोदसंवासितदिगन्तराः

॥२१॥

मृगयासंभृतधियश्चरतोऽधिज्यकार्मुकान्

॥२२॥

अथाऽर्जुनस्य सुवर्णमुखरीतीरस्थभरद्वाजाश्रमगमनम् ॥

ददर्शान्वेषितमृगान्किरातान्वनितायुतान् ॥

ततो दक्षिणदिग्भागे चरन्नद्रेर्मनोहरे

॥२३॥

पुण्यमाश्रममद्राक्षीद्भरद्वाजस्य कौरवः ॥

कदलीनारिकेलाम्रकोलचंपकचंदनैः

॥२४॥

तक्कोलाशोकहिन्तालतालकेतकिदाडिमैः ॥

जंबूकदम्वकतकखदिरार्जुनपाटलैः

॥२५॥

नागपुन्नागसरलदेवदारुकरञ्जकैः ॥

लवंगलुंगलवलीप्रियंगुतिलकैरपि

॥२६॥

बिभीतश्रीफलाश्वत्थमधूकप्लक्षकेसरैः ॥

पूगजम्बीरनारंगनिम्बामलककौशिकैः

॥२७॥

अन्यैश्च फलपुष्पाढ्यैः शोभितं धरणीरुहैः ॥

वासन्तीकुन्दजात्यादिलताभिः परिवेष्टितम्

॥२८॥

अपूर्वसौरभाकृष्टभ्रमरीभिः समन्ततः ॥

चक्रवाकबकक्रौञ्चहंसकारण्डवाश्रयैः

॥२९॥

सौगन्धिकोत्पलांभोजकैरवौघविराजितैः ॥

सरोभिरमृतस्यंदिमधुरस्फारवारिभिः

॥३०॥

समापादितलक्ष्मीकं कौतुकैकनिकेतनम् ॥

सिंहदन्तावलव्याघ्रतरक्षुरुरुरङ्कुभिः

॥३१॥

मृगैरन्यैः समाकीर्णमन्योऽन्यहितकारिभिः ॥

जितचैत्ररथोद्यानमधरीकृतनन्दनम्

॥३२॥

अतिवाङ्मनसोदारं परमानन्दकारणम् ॥

शिवागमानां दिव्यानामर्थजातमनुत्तमम्

॥३३॥

प्रकाशयन्ति शावानां यत्र मञ्जुगिरः शुकाः ॥

यस्मिन्हुताशनो दारधूमश्यामलितं नभः

॥३४॥

अकालजलदभ्रांतिमातनोति शिखण्डिनाम् ॥

यस्मिन्विहारश्रान्तानां सिंहानां स्वेच्छयागताः

॥३५॥

निर्वापयन्ति गात्राणि करिणः करशीकरैः ॥

तदाश्रमपदं पश्यन्विस्मयाक्रांतमानसः

॥३६॥

प्रभावं पाण्डुतनयः प्रशशंस तपस्विनाम् ॥

निवार्य तत्र तत्रैव सकलाननुजीविनः

॥३७॥

अथार्जुनकृतभरद्वाजसेवाक्रमः ॥

मित्रैर्विप्रवरैः सार्धं प्रविवेश तमाश्रमम् ॥

अग्रे ददर्श कौन्तेयः स्फुरत्पावकतेजसम्

॥३८॥

भरद्वाजं मुनिवरैरनेकैः परिवारितम् ॥

भस्मानुलिप्तसर्वांगं मृगचर्मोत्तरीयकम्

॥३९॥

नववारिदसंवीतं कैलासमिव भास्वरम् ॥

जटाभिर्लम्बमानाभिर्भास्वन्तं स्वर्णकांतिभिः

॥४०॥

स्थिरविद्युल्लताकीर्णमिव शारदनीरदम् ॥

श्रुतिस्मृति पुराणार्थैरेकीभूय समागतैः

॥४१॥

अङ्गीकृतमिवाकारं दिव्यज्ञानशुभास्पदम् ॥

धृतिक्षांतिदयातुष्टिशांतिभिर्नित्यसेवितम्

॥४२॥

प्रियाभिरिव रक्ताभिरखंडब्रह्मवर्चसम् ॥

उपगम्य शनैः पार्थस्तत्पादांबुजयोः पुरः

॥४३॥

चक्रे प्रणामं साष्टांगं समालिंगितभूतलम्

॥४४॥

अथार्जुनं प्रति भरद्वाजकृतातिथ्यप्रकारः ॥

तमागतं पृथापुत्रमुत्थाप्य मुनिपुङ्गवः ॥

आशीर्भिरेधयाञ्चक्रे प्रहर्षोत्फुल्लमानसः

॥४५॥

संपूज्य च यथान्यायं तमर्घ्याद्यैः प्रियातिथिम् ॥

विनिर्दिष्टासनासीनं समपृच्छदनामयम्

॥४६॥

संमाननमवाप्यास्मान्मुनेः पाण्डवमध्यमः ॥

प्रियैर्वाक्यैर्मुनिपतेरकरोन्मनसो मुदम्

॥४७॥

सस्माराथ भरद्वाजः स्वर्धेनुं कामदोहिनीम् ॥

सा वितेनेऽतिमहतीं भक्ष्यभोज्यादिकल्पनाम्

॥४८॥

भुक्त्वा पार्थः सानुचरस्तमुपास्य तपोनिधिम् ॥

दिनशेषं कथालापकौतुकेनात्यवाहयत्

॥४९॥

ततः सायन्तनीं संध्यामुपास्य हुतपावकः ॥

विप्रैरमात्यैः सहितो ययौ तस्य कुटीगृहान्

॥५०॥

तत्रासीनो मुनिपतेराशीर्भिरभिनन्दितः ॥

आनन्द्यमानो मुमुदे तन्नदीशीतलानिलैः

॥५१॥

संप्रापिता केन भुवः प्रभूता कस्मान्महीध्रादधिकप्रभावा ॥

इति प्रभावं परिपृच्छ्य नद्याः श्रोतुं मुनीन्द्रान्मतिरस्य जज्ञे

॥५२॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवेंकटाचलमाहात्म्ये सुवर्णमुखरीमाहात्म्यप्रशंसायां भरद्वाजाश्रमवर्णनंनाम त्रिंशोऽध्यायः ॥ ३० ॥