श्रीवेंकटाचलमाहात्म्येऽगस्त्यतीर्थादिविविधतीर्थमाहात्म्यवर्णनम्
अथागस्त्यतीर्थागस्त्येश्वरयोः प्रभावः ॥
अर्जुन उवाच ॥
श्रोत्राञ्जलिभ्यां पीत्वापि भवद्वाक्यामृतं मुहुः ॥
मनो नोपैति मे तृप्तिं भूयः श्रवणकाङ्क्षया
॥१॥क्रियासमभिहारो मे त्वद्वाक्याकर्णनैषिणः ॥
मनः खेदाय मा भूत्ते करुणाभरितात्मनः
॥२॥इदानीं श्रोतुमिच्छामि नद्यामस्यां महामुने ॥
कुत्र कुत्र समर्थानि तीर्थान्यघनिबर्हणे
॥३॥काः काः पुण्यतरंगिण्यः सङ्गता अनया मुने ॥
कुत्र स्नानेन कृत्ताघा नोपयांति यमाद्भयम्
॥४॥हराच्युतादिदेवानां पुण्यान्यायतनानि च ॥
यानियानि च पुण्यानि तिष्ठन्त्यस्यास्तटद्वये
॥५॥तेषु क्षेत्रेषु मनुजैर्यत्फलं समवाप्यते ॥
विहितैर्विधिवत्स्नानदानादिशुभकर्मभिः
॥६॥सोपाख्यानमिदं सर्वं वेदितं वेदवित्तम ॥
संजाता महती प्रीतिर्विस्तार्याचक्ष्व मे क्रमात्
॥७॥भरद्वाज उवाच
यत्पृष्टं भवता पार्थ क्रमाद्विस्तार्य कथ्यते ॥
आरभ्यागस्त्यतीर्थेन्द्रादस्यास्तीर्थौघवैभवम्
॥८॥अखण्डज्ञानरूपेण सर्वलोकहितैषिणा ॥
सुरासुराणां संभाव्येनागस्त्येन महात्मना
॥९॥वसुधामवतीर्णायां प्रथमं तद्धराधरात् ॥
स्नात्वा यत्र महानद्यां संप्राप्नोति कृतार्थताम्
॥१०॥अगस्त्यतीर्थमित्युक्तं पावनं तज्जगत्त्रये ॥
तत्र स्नानेन शुद्धिः स्यान्महापातकिनामपि
॥११॥अनेकजन्माचरितमहापातकसंहतिंम् ॥
निर दिवि मोदन्ते तत्र स्नानरता जनाः
॥१२॥ये तत्र तीर्थे यतिनः कृतस्नाना यतेन्द्रियाः ॥
गोभूतिलहिरण्यादिमहादानानि कुर्वते
॥१३॥ते प्राप्नुवन्ति संपूर्णं गंगाद्वारे समाहितैः ॥
विहितानां शतगुणं दानानां फलमर्जुन
॥१४॥अत्रास्ति भगवानीशः ख्यातोऽगस्त्येशसंज्ञया ॥
स्थापितोऽगस्त्यमुनिना लोकानन्दविधायिना
॥१५॥स्नात्वा तस्यां महानद्यां तल्लिंगं पूजयन्ति ये ॥
दशानामश्वमेधानां फलं संप्राप्नुवंति ते
॥१६॥अथ सुवर्णमुखरीस्नानकालनिर्णयः ॥
धनूराशिं परित्यज्य यदा मकरमंशुमान् ॥
विशेत्तदयनं पुण्यमुत्तरं परिकीर्तितम्
॥१७॥तस्मिन्दिने ये नियता नद्यां स्नात्वा समाहिताः ॥
पश्यन्ति पार्वतीनाथमगस्त्येशं सुरार्चितम्
॥१८॥अग्निष्टोमसहस्रस्य वाजपेयशतस्य च ॥
फलं संप्राप्य मोदन्ते दिवि देवगणार्चिताः
॥१९॥मृगसंक्रमवेलायां पुरुषैर्मंगलार्थिभिः ॥
अवश्यमेव कर्तव्यमगस्त्येशस्य दर्शनम्
॥२०॥अथ देवर्षिपितृतीर्थमाहात्म्यम् ॥
ऐशान्यां तस्य तीर्थस्य देशे क्रोशमितेऽर्जुन ॥
अस्ति तीर्थत्रयं ख्यातं देवर्षिपितृनामभिः
॥२१॥देवर्षिपितरस्तत्र मुनिना तेन पूजिताः ॥
प्रददुर्हृष्टमनसः सर्वान्समभिवाञ्छितान्
॥२२॥तदा देवर्षिपितृभिरिदं तीर्थत्रयं क्रमात् ॥
अस्मन्नामभिरीड्यं स्यादित्युक्तं तस्य सन्निधौ
॥२३॥तस्मिंस्तीर्थत्रये ये तु स्नात्वा विहिततर्पणाः ॥
ऋणत्रयविनिर्मुक्तास्ते यान्ति दिवमक्षयाम्
॥२४॥अथ वेणासुवर्णमुखरीसंगमवर्णनम् ॥
ततः प्रागुत्तरक्षोण्यां योजनद्वयसीमनि ॥
प्राप्ता सुवर्णमुखरी वेणानाम महानदी
॥२५॥समुदग्ररयाघातनिपातिततटद्रुमा ॥
कुल्यानिर्गतवाःपूरसमाप्लावितकानना
॥२६॥उत्तुङ्गपुलिनोत्संगखेलत्कोककुलाकुला ॥
अम्बुजामोदलोलालिमालालीलारवान्विता
॥२७॥अतिक्रम्य समुत्तुंगाननेकान्धरणीधरान् ॥
प्रभूततोयरुचिरा सुवर्णमुखरीं गता
॥२८॥नदीद्वयव्यतिकरे कृतस्नाना यथाविधि ॥
दशानामश्वमेधानामखण्डं प्राप्नुयुः फलम्
॥२९॥संगता वेणया पुण्या सुवर्णमुखरी नदी ॥
गिरिदुर्गममार्गेण ययावुत्तरवाहिनी
॥३०॥मध्यगेन महीध्राणां मार्गेण विषमेण सा ॥
गत्वा विरेजे तटिनी योजनानां चतुष्टयम्
॥३१॥पूर्वतस्तस्य देशस्य विषये सार्धयोजने ॥
उदक्कूले महानद्याः प्राग्वाहिन्या मनोहरे
॥३२॥अगस्त्येश्वर नामास्ते ख्यातं लिंगं पुरद्विषः ॥
स्मरणं देवमर्त्यानां समस्ताघनिवारणम्
॥३३॥तत्र स्नात्वा महानद्यां ये नरा नियतेन्द्रियाः ॥
पश्यन्ति पार्वतीनाथमगस्त्येन प्रतिष्ठितम्
॥३४॥अनेकैः पूर्वजननैरर्जितं पापसञ्चयम् ॥
ते निरस्य सुरावासे मोदन्ते कालमक्षयम्
॥३५॥ततः सोदङ्मुखी भूत्वा सुवर्णमुखरी ययौ ॥
योजनार्धमिदं देशं तीर्थसंघसमन्विता
॥३६॥अथ सुवर्णमुखर्या व्याघ्रपदाह्वय नदीसंगमः ॥
तस्मिन्देशे तु हिन्तालतालसालमनोरमे ॥
गता सुवर्णमुखरी नदी व्याघ्रपदाह्वया
॥३७॥दुर्वारभूरिदुरितविनिवारणपेशला ॥
नीरंधतीरवानीरवनमण्डलमंडिता
॥३८॥सिद्धगंधर्वललना लीलागाहनशालिनी ॥
तपस्विकन्यानिःक्षिप्त बलिपुष्पविराजिता
॥३९॥हंसकारण्डवक्रौञ्चकुलकोलाहलाकुला ॥
प्राक्प्रवाहा समागत्य शैलान्तरगताध्वना
॥४०॥संगमे सरितोस्तत्र कृतस्नाना नरोत्तमाः ॥
समग्रमश्वमेधानां दशानाप्राप्नुयुः फलम्
॥४१॥अथ शंखतीर्थवर्णनम् ॥
तत्र व्याघ्रपदाख्यायास्तटे लोकमलापहे ॥
अनघं सर्वपापघ्नं शंखतीर्थं विराजते
॥४२॥ब्रह्मर्षिनियतावासं सुरगन्धर्वसेवितम् ॥
दर्शनस्नानपानाद्यैरमितानन्ददायकम्
॥४३॥तत्रास्ते भगवानीशः शंखेशोनाम फाल्गुन ॥
शंखनाम्ना मुनींद्रेण लिंगरूपं प्रतिष्ठितम्
॥४४॥ये तत्र तीर्थे सुस्नाताः पश्यन्ति वृषवाहनम् ॥
दशाश्वमेधजं पुण्यं लब्ध्वा यांति सुरालयम्
॥४५॥युक्ता तया व्याघ्रपदाभिधानया गत्वा ततो योजनसंमितां भुवम् ॥
ययौ मुनीन्द्रैर्वृषभाचलांतिकं संसेव्यमाना शुभनिर्मलोदका
॥४६॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवेंकटाचलमाहात्म्येऽगस्त्यतीर्थादिविविधतीर्थमाहात्म्यवर्णनंनाम चतुस्त्रिंशोऽध्यायः ॥ ३४ ॥