मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — वेङ्कटाचलमाहात्म्यम्, अध्याय २०

3
वैष्णवखण्डः · वेङ्कटाचलमाहात्म्यम् · 20

भूदानफलानुवर्णनम्

अथ पापविनाशनतीर्थमाहात्म्यवर्णनम् ॥

श्रीसूत उवाच ॥

पुनश्चाहं प्रवक्ष्यामि पापनाशनवैभवम् ॥

भगवद्भक्तिभावेन शृणुध्वं सुसमाहिताः

॥१॥

इतिहासं प्रवक्ष्यामि सर्वपापविनाशनम् ॥

यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः

॥२॥

अथ भद्रमत्याख्यदरिद्रद्विजवृत्तान्तः ॥

आसीत्पुरा द्विजवरो वेदवेदांगपारगः ॥

दरिद्रो वृत्तिहीनश्च नाम्ना भद्रमतिर्द्विजः

॥३॥

श्रुतानि सर्वशास्त्राणि तेन विप्रेण धीमता ॥

श्रुतानि च पुराणानि धर्मशास्त्राणि सर्वशः

॥४॥

अभवंस्तस्य षट् पत्न्यः कृता सिंधुर्यशोवती ॥

कामिनी मालिनी चैव शोभा चैव प्रकीर्तिताः

॥५॥

तासु पत्नीषु तस्यासीत्पुत्राणां च शतद्वयम् ॥

ते सर्वे तस्य पुत्राद्याः क्षुधया परिपीडिताः

॥६॥

अकिञ्चनो भद्रमतिः क्षुधार्तानात्मजान्प्रियान् ॥

पश्यन्प्रियाः क्षुधार्ताश्च विललापाकुलेन्द्रियः

॥७॥

धिग्जन्म भाग्यरहितं धिग्जन्म धनवर्जितम् ॥

धिग्जन्म कीर्तिरहितं धिग्जन्मातिथ्यवर्जितम्

॥८॥

धिग्जन्माचाररहितं धिग्जन्म ज्ञानवर्जितम् ॥

धिग्जन्म यत्नरहितं धिग्जन्म सुखवर्जितम्

॥९॥

धिग्जन्म बन्धुरहितं धिग्जन्म ख्यातिवर्जितम् ॥

नरस्य बह्वपत्यस्य धिग्जन्मैश्वर्यवर्जितम्

॥१०॥

अहो गुणाः सौम्यता च विद्वत्ता जन्म सत्कुले ॥

दारिद्र्याम्बुधिमग्नस्य सर्वमेतन्न शोभते

॥११॥

विप्राः पुत्राश्च पौत्राश्च बान्धवा भ्रातरस्तथा ॥

शिष्याश्च सर्वे मनुजास्त्यजन्त्यैश्वर्यवर्जितम्

॥१२॥

इति निश्चित्य मतिमान्धीरो भद्रमतिर्द्विजः ॥

चण्डालो वा द्विजो वापि भाग्यवानेव पूज्यते

॥१३॥

दरिद्रः पुरुषो लोके शववल्लोकनिन्दितः ॥

अहो सम्पत्समायुक्तो निष्ठुरो वाप्यनिष्ठुरः

॥१४॥

गुणहीनोऽपि गुणवान्मूर्खो वापि स पण्डितः ॥

निष्ठुरो वा गुणी वापि धर्महीनोऽथ वा नरः

॥१५॥

ऐश्वर्यगुणयुक्तश्चेत्पूज्य एव न संशयः ॥

अहो दरिद्रता दुःखं तत्राप्याशातिदुःखदा

॥१६॥

आशाभिभूताः पुरुषा दुःखमश्नुवते क्षणात्

॥१७॥

आशाया ये दासा दासास्ते सर्वलोकस्य ॥

आशा दासी येषां तेषां दासायते लोकः

॥१८॥

सर्वशास्त्रार्थवेत्तापि दरिद्रो भाति मूर्खवत् ॥

आकिञ्चन्यमहाग्राहग्रस्तानां नास्ति मोचकः

॥१९॥

अहो दुःखमहो दुःखमहो दुःखं दरिद्रता ॥

तत्रापि पुत्रदाराणां बाहुल्यमतिदुःखदम्

॥२०॥

एवमुक्त्वा भद्रमतिः सर्वशास्त्रार्थपारगः ॥

अत्यैश्वर्यप्रदं धर्मं मनसा चिन्तयंस्तदा ॥

तूष्णीं स्थितो भद्रमतिमहाक्लेशसमन्वितः

॥२१॥

अथ भद्रमतेः कामिनीकृतवेंकटाद्रिगमनप्रोत्साहनम् ॥

तदानीं तासु भार्यासु कामिनी पतिदेवता

॥२२॥

भार्या साधुगुणैर्युक्ता पतिं तं प्रत्यभाषत

॥२३॥

कामिन्युवाच

भगवन्सर्वधर्मज्ञ सर्वशास्त्रार्थपारग ॥

मम नाथ महाभाग वाक्यं शृणु महामते

॥२४॥

सुवर्णमुखरीतीरे ऋषिसंघनिषेविते ॥

वर्तते दैवतैः सेव्यः पावनो वेंकटाचलः

॥२५॥

तस्मिन्वेंकटशैलेन्द्रे सुरासुरनमस्कृते ॥

वर्तते पावनं तीर्थं पापानां दाहकं शुभम्

॥२६॥

तत्र गत्वा महाभाग पापनाशे महामते ॥

कुरु स्नानं प्रयत्नेन भार्यापुत्रसमन्वितः

॥२७॥

तस्य तीर्थस्य माहात्म्यं नारदाच्च श्रुतं मया ॥

बालभावे मम पितुरंतिके प्रोक्तवान्मुनिः

॥२८॥

वेंकटाद्रौ महापुण्ये सर्वपातकनाशने ॥

सर्वदुःखप्रशमने सर्वसंपत्प्रदायके

॥२९॥

पापनाशे महातीर्थे स्नात्वा संकल्पपूर्वकम् ॥

अत्यैश्वर्यप्रदं धर्मं मनसा चिन्तयंस्तदा

॥३०॥

भूमिदानं विनिश्चित्य सर्वदानोत्तमोत्तमम् ॥

प्रापकं परलोकस्य सर्वकामफलप्रदम्

॥३१॥

दानानामुत्तमं दानं भूदानं परिकीर्तितम् ॥

तद्दत्त्वा समवाप्नोति यद्यदिष्टतमं नरः

॥३२॥

इत्येवं नारदेनोक्तं श्रुत्वा मे जनको द्विजः ॥

संप्रहृष्टमना भूत्वा शेषाद्रिं प्राप्तवांस्तदा

॥३३॥

तत्र गत्वा महाभागः सर्वसंपत्प्रदायकम् ॥

भूदानं विप्रवर्याय श्रोत्रियाय प्रदत्तवान्

॥३४॥

ततो मे जनको विद्वन्सर्वभाग्यसमन्वितः ॥

इहलोके सुखं प्राप्य चान्ते विष्णुपुरं ययौ

॥३५॥

त्वं च गत्वा महाभाग वेंकटाद्रिं नगोत्तमम् ॥

कुरु दानं प्रयत्नेन भूदानं सर्वकामदम्

॥३६॥

अथ कामिनीकथितभूदानप्रशंसा ॥

भूमिदानस्य माहात्म्यं शृणुष्व सुसमाहितः ॥

न कोऽपि गदितुं शक्तो लोकेऽस्मिन्भगवन्प्रभो

॥३७॥

भूमिदानात्परं दानं न भूतं न भविष्यति ॥

परं निर्वाणमाप्नोति भूमिदो नात्र संशयः

॥३८॥

स्वल्पामपि महीं दत्त्वा श्रोत्रियायाहिताग्नये ॥

ब्रह्मलोकमवाप्नोति पुनरावृत्तिवर्जितम्

॥३९॥

भूमिदः सर्वदः प्रोक्तो भूमिदो मोक्षभाग्भवेत् ॥

भूभिदानं वृषाद्रौ च सर्वपापप्रणाशनम्

॥४०॥

महापातकयुक्तो वा युक्तो वा सर्वपातकैः ॥

दशहस्तां महीं दत्त्वा सर्वपापैः प्रमुच्यते

॥४१॥

सत्पात्रे भूमिदाता यः सर्वदानफलं लभेत् ॥

भूमिदस्य समो नान्यस्त्रिषु लोकेषु विद्यते

॥४२॥

द्विजस्य वृत्तिहीनस्य यः प्रदद्यान्महीं शुभाम् ॥

तस्य पुण्यफलं वक्तुं शेषो नार्हः कदाचन

॥४३॥

विप्रस्य वृत्तिहीनस्य सदाचारस्य कस्यचित् ॥

यो ऽल्पामपि महीं दद्यात्स विष्णुर्नात्र संशयः

॥४४॥

इक्षुगोधूमकेदारपूगदृक्षादिसंयुता ॥

पृथ्वी प्रदीयते येन स विष्णुर्नात्र संशयः

॥४५॥

वृत्तिहीनस्य विप्रस्य दरिद्रस्य कुटुम्बिनः ॥

स्वल्पामपि महीं दत्त्वा विष्णुसायुज्यमश्नुते

॥४६॥

सक्तस्य देवपूजासु विप्रस्याटविका मही ॥

दत्ता भवति गंगायां त्रिरात्रस्नानजं फलम्

॥४७॥

विप्रस्य वृत्तिहीनस्य सदाचाररतस्य च ॥

द्रोणिकां पृथिवीं दत्त्वा यत्फलं लभते शृणु

॥४८॥

गंगातीरेऽश्वमेधानां शतानि विधिवन्नरः ॥

कृत्वा यत्फलमाप्नोति तदाप्नोति महत्फलम्

॥४९॥

ददाति भारिकां भूमिं दरिद्राय द्विजातये ॥

तस्य पुण्यं प्रवक्ष्यामि मन्नाथ भगवन्प्रभो

॥५०॥

अश्वमेधसहस्राणि वाजपेयशतानि च ॥

विधाय जाह्नवीतीरे यत्फलं तल्लभेत सः

॥५१॥

भूमिदानं महादानमतिदानं प्रकीर्तितम् ॥

सर्वपापप्रशमनमपवर्गफलप्रदम्

॥५२॥

यच्छ्रुत्वा श्रद्धया युक्तो भूमिदानफलं लभेत् ॥

भार्याया वचनं श्रुत्वा त्वितिहाससमन्वितम्

॥५३॥

सन्तुष्टो मनसि ध्यात्वा शेषाचलनिवासिनम्

॥५४॥

अथ भद्रमतये भूप्रदानात्सुघोषस्य सद्गतिः ॥

गन्तुं प्रचक्रमे बुद्ध्या क्रीडाचलमनुत्तमम् ॥

ततो भद्रमतिः सौम्यः सर्वधर्मपरायणः

॥५५॥

सुशालिंनाम नगरीं कलत्रसहितो ययौ ॥

सुघोषं नाम विप्रेन्द्रं सर्वैश्वर्यसमन्वितम्

॥५६॥

गत्वा याचितवान्भूमिं पञ्चहस्तायतां द्विजः ॥

सुघोषो धर्मनिरतस्तं निरीक्ष्य कुटुम्बिनम्

॥५७॥

मनसा प्रीतिमापन्नं समभ्यर्च्यैनमब्रवीत् ॥

कृतार्थोऽहं भद्रमते सफलं मम जन्म च ॥

मत्कुलं चानघं जातं त्वं हि ग्राह्योऽसि मे यतः

॥५८॥

इत्युक्त्वा तं समभ्यर्च्य सुघोषो धर्मतत्परः ॥

पञ्चहस्तप्रमाणां तां ददौ तस्मै महामतिः

॥५९॥

पृथिवी वैष्णवी पुण्या पृथिवी विष्णुपालिता ॥

पृथिव्यास्तु प्रदानेन प्रीयतां मे जनार्दनः

॥६०॥

मन्त्रेणानेन विप्रेन्द्राः सुघोषस्तं द्विजेश्वरम् ॥

विष्णुबुद्ध्या समभ्यर्च्य तावतीं पृथिवीं ददौ

॥६१॥

स भद्रमतये विप्रा धीमांस्तां याचितां भुवम् ॥

दत्तवान्हरिभक्ताय श्रोत्रियाय कुटुंबिने

॥६२॥

सुघोषो भूमिदानेन कोटिवंशसमन्वितः ॥

प्रपेदे विष्णुभवनं यत्र गत्वा न शोचति

॥६३॥

अथ भद्रमतेः पापनाशनतीरे भूदानार्थं वेंकटाद्रिगमनम् ॥

विप्रो भद्रमतिश्चापि पुत्रदारसमन्वितः ॥

गतो वेंकटशैलेन्द्रं सुरासुरनमस्कृतम्

॥६४॥

गन्धर्वयक्षशैलादिसेवितं मेरुपुत्रकम् ॥

वैकुण्ठादागतं दिव्यं क्रीडाचलमनुत्तमम्

॥६५॥

तत्र स्वामिसरस्तोये निर्मले पावने शुभे ॥

दारपुत्रादिसंयुक्तः स्नात्वा संकल्पपूर्वकम्

॥६६॥

तत्पश्चिमतटे श्वेतसूकरं वसुधाधरम् ॥

नत्वा तत्र विधानेन श्रीनिवासालयं गतः

॥६७॥

तत्र ब्रह्मादिदेवैश्च सेवितं वेंकटेश्वरम् ॥

दृष्टवान्सह पुत्राद्यैर्विष्णुभक्तो महामतिः

॥६८॥

भक्त्या प्रणम्य देवेशं श्रीनिवासं कृपानिधिम् ॥

पुत्रदारादिसंयुक्तः पापनाशनमाययौ

॥६९॥

तत्र स्नात्वा विधानेन कृतधर्मादिसत्क्रियः ॥

कस्मैचिद्विष्णुभक्ताय श्रोत्रियाय महामतिः

॥७०॥

विष्णुबुद्ध्या स प्रददौ भूदानं मोक्षदं शुभम्

॥७१॥

अथ भूदानप्रभावेण भद्रमतेर्भगवत्साक्षात्कारः ॥

तदा प्रादुरभूद्देवः शंखचक्रगदाधरः

॥७२॥

विनतानन्दनारूढो वनमालाविभूषितः ॥

पापनाशस्य तीरे तु भूदानस्य प्रभावतः

॥७३॥

तदा भद्रमतिः सौम्यः स्तोतुं समुपचक्रमे

॥७४॥

नमोनमस्तेऽखिलकारणाय नमोनमस्तेऽखिलपालकाय ॥

नमोनमस्तेऽमरनायकाय नमोनमो दैत्यविमर्दनाय

॥७५॥

नमोनमो भक्तजनप्रियाय नमोनमः पापविदारणाय ॥

नमोनमो दुर्जननाशकाय नमोऽस्तु तस्मै जगदीश्वराय

॥७६॥

नमो नमः कारणवामनाय नारायणायामितविक्रमाय ॥

श्रीशार्ङ्गचक्रासिगदाधराय नमोऽस्तु तस्मै पुरुषोत्तमाय

॥७७॥

नमः पयोराशिनिवासकाय नमोऽस्तु लक्ष्मीपतयेऽव्ययाय ॥

नमोऽस्तु सूर्याद्यमितप्रभाय नमोनमः पुण्यगतागताय

॥७८॥

नमोनमोऽर्केन्दुविलोचनाय नमोऽस्तु ते यज्ञफलप्रदाय ॥

नमोस्तु यज्ञांगविराजिताय नमोऽस्तु ते सज्जनवल्लभाय

॥७९॥

नमोनमः कारणकारणाय नमोऽस्तु शब्दादिविवर्जिताय ॥

नमोऽस्तु तेऽभीष्टसुखप्रदाय नमोनमो भक्तमनोरमाय

॥८०॥

नमोनमस्तेऽद्भुतकारणाय नमोऽस्तु ते मन्दरधारकाय ॥

नमोऽस्तु ते यज्ञवराहनाम्ने नमो हिरण्याक्षविदारकाय

॥८१॥

नमोऽस्तु ते वामनरूपभाजे नमोऽस्तु ते क्षत्रकुलान्तकाय ॥

नमोऽस्तु ते रावणमर्दनाय नमोऽस्तु ते नन्दसुताग्रजाय

॥८२॥

नमस्ते कमलाकान्त नमस्ते सुखदायिने ॥

श्रितार्तिनाशिने तुभ्यं भूयोभूयो नमोनमः

॥८३॥

विप्रेण संस्तुतो देवो भगवान्भक्तवत्सलः ॥

वात्सल्येनाब्रवीद्वाक्यं श्रीनिवासो दयानिधिः

॥८४॥

तात तुष्टोऽस्मि भद्रं ते स्तोत्रेण महता द्विज ॥

सर्वभोगसमायुक्तः पुत्रपौत्रादिभिर्युतः

॥८५॥

इह लोके सुखं प्राप्य देहान्ते मुक्तिमाप्नुहि ॥

इत्युक्त्वा भगवान्विष्णुस्तत्रैवान्तरधीयत

॥८६॥

एवं वः कथितं विप्राः पापनाशनवैभवम् ॥

तत्तीरे भूप्रदानस्य माहात्म्यं चापि वर्णितम्

॥८७॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवेंकटाचलमाहात्म्ये पापविनाशनतीर्थे भूदानफलानुवर्णनंनाम विंशतितमोऽध्यायः ॥ २० ॥