मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — वेङ्कटाचलमाहात्म्यम्, अध्याय १२

3
वैष्णवखण्डः · वेङ्कटाचलमाहात्म्यम् · 12

स्वामिपुष्करिणीतीर्थमहिमानुवर्णनम्

अथ स्वामिपुष्करिणी स्नानात्तामिस्रादिनरकनिस्तारः ॥

ऋषय ऊचुः ॥

सूत सर्वार्थतत्त्वज्ञ वेदवेदांगपारग ॥

श्रीस्वामिपुष्करिण्याश्च वैभवं वद नः प्रभो

॥१॥

यस्याः स्मरणमात्रेण मुक्तः स्यान्मानवो भुवि

॥२॥

श्रीसूत उवाच

स्वामितीर्थं प्रशंसन्ति स्नांति वा कथयंति ये ॥

अष्टाविंशतिभेदांस्ते नरकान्नोपभुञ्जते

॥३॥

तामिस्रमन्धतामिस्रं महारौरवरौरवौ ॥

कुम्भीपाकं कालसूत्रमसिपत्रवनं तथा

॥४॥

कृमिभक्षोऽन्धकूपश्च संदंशः शाल्मली तथा ॥

लालाभक्षो ह्यवीचिश्च सारमेयादनं तथा

॥५॥

तथैव वज्रकणकः क्षारकर्दमपातनम् ॥

रक्षोगणाशनं चापि शूलप्रोतनिरोधनम्

॥६॥

तिरोधानाभिधं विप्रास्तथा सूचीमुखाभिधम् ॥

पूयशोणितभक्षं च विषाग्निपरिपीडनम्

॥७॥

अष्टाविंशतिसंख्यातमेतन्नरकसंचयम् ॥

न याति मनुजो विप्राः स्वामितीर्थनिमज्जनात्

॥८॥

वित्तापत्यकलत्राणां योऽन्येषामपहारकः ॥

स कालपाशबद्धोऽयं यमदूतैर्भयानकैः

॥९॥

तामिस्रे नरके घोरे पात्यते बहुवत्सरम् ॥

स्नाति चेत्स्वामितीर्थे स तस्मिन्नासौ निपात्यते

॥१०॥

मातरं पितरं विप्रान्यो द्वेष्टि पुरुषाधमः ॥

स कालसूत्रनरके विस्तृतायुतयोजने

॥११॥

अधस्तादग्निसन्तप्ते उपर्यर्कमरीचिभिः ॥

खले ताम्रमये विप्राः पात्यते क्षुधयार्दितः

॥१२॥

स्नाति चेत्पुष्करिण्यां वै तस्मिन्नाऽसौ निपात्यते ॥

यो वेदमार्गमुल्लंघ्य वर्तते कुपथे नरः

॥१३॥

सोऽसिपत्रवने घोरे पात्यते यमकिंकरैः ॥

स्नाति चेत्स्वामितीर्थे तु तस्मिन्नाऽसौ निपात्यते

॥१४॥

योऽश्नाति पंक्तिभेदेन पक्वं सूपादिकं नरः ॥

अकृत्वा पंचयज्ञान्वा भुंक्ते मोहेन स द्विजाः

॥१५॥

पात्यतेऽयं यमभटैर्नरके कृमिभोजने ॥

भक्ष्यमाणः कृमिशतैर्भक्षयन्कृमिसंचयान्

॥१६॥

स्वयं च कृमिभूतः संस्तिष्ठेद्यावदघक्षयम् ॥

स्नाति चेत्स्वामितीर्थे वै तस्मिन्नाऽसौ निपात्यते

॥१७॥

यो हरेद्विप्रवित्तानि स्नेहेन बलतोऽपि वा ॥

अन्येषामपि वित्तानि राजा तत्पुरुषोऽपि वा

॥१८॥

अयोमयाग्निकुंडेषु संदंशैः सोऽपि पीडितः ॥

संदंशे नरके घोरे पात्यते यमपूरुषैः

॥१९॥

स्नाति चेत्स्वामितीर्थे तु तस्मिन्नासौ निपात्यते ॥

अगम्यां योभिगच्छेत स्त्रियं वै पुरुषाधमः

॥२०॥

अगम्यं पुरुषं योषिदभिगच्छेत वा द्विजाः ॥

तावयोमयनारीं च पुरुषं चाप्ययोमयम्

॥२१॥

तप्तावालिङ्ग्य तिष्ठन्तौ यावच्चन्द्रदिवाकरम् ॥

सूच्याख्ये नरके घोरे पात्येते यमकिंकरैः

॥२२॥

स्नाति चेत्स्वामितीर्थे च तस्मिन्नासौ निपाप्यते ॥

बाधते सर्वजन्तून्यो नानोपायैरुपद्रवैः

॥२३॥

शाल्मलीनरके घोरे पात्यते बहुकण्टके ॥

स्नाति चेत्स्वामितीर्थे तु तस्मिन्नासौ निपात्यते

॥२४॥

राजा वा राजभृत्यो वा यः पाषण्डमनुद्रुतः ॥

भेदको धर्मसेतूनां वैतरण्यां निपात्यते

॥२५॥

स्नाति चेत्स्वामितीर्थे तु तस्मिन्नासौ निपात्यते ॥

वृषलीसङ्गदुष्टो वा शौचाद्याचारवर्जितः

॥२६॥

त्यक्तलज्जस्त्यक्तवेदः पशुचर्यारतः सदा ॥

स पूयविष्ठामूत्रासृक्छ्लेष्मपित्तादिपूरिते

॥२७॥

अतिबीभत्सनरके पात्यते यमकिंकरैः ॥

स्नाति चेत्स्वामितीर्थे तु तस्मिन्नासौ निपात्यते

॥२८॥

यः श्वभिर्मृगयुर्वन्यान्बाणैर्वा बाधते मृगान् ॥

स विध्यमानो बाणौघैः परत्र यमकिंकरैः

॥२९॥

प्राणरोधाख्यनरके पात्यते यमकिंकरैः ॥

स्नाति चेत्स्वामितीर्थे तु तस्मिन्नासौ निपात्यते

॥३०॥

दाम्भिको यः पशून्यज्ञे विध्यनुष्ठानवर्जितः ॥

हन्त्यसौ परलोकेषु वैशसे नरके द्विजाः

॥३१॥

कर्त्यमानो यमभटैः पात्यते यमकिंकरैः ॥

स्नाति चेत्पुष्करिण्यां वै तस्मिन्नासौ निपात्यते

॥३२॥

आत्मभार्यां सवर्णां यो रेतः पाययते यदि ॥

परत्र रेतःपायी स रेतःकुण्डे निपात्यते

॥३३॥

स्नाति चेत्पुष्करिण्यां वै तस्मिन्नासौ निपात्यते ॥

यो दस्युर्मार्गमाश्रित्य गरदो ग्रामदाहकः

॥३४॥

वणिग्द्रव्यापहारी च स परत्र द्विजोत्तमाः ॥

वज्रदंष्ट्राभिधे घोरे पात्यते नरके चिरम्

॥३५॥

स्नाति चेत्स्वामितीर्थे तु तस्मिन्नासौ निपात्यते ॥

विद्यन्ते यानि चान्यानि नरकाणि परत्र वै

॥३६॥

तानि नाप्नोति मनुजः स्वामितीर्थनिमज्जनात् ॥

पुष्करिण्यां सकृत्स्नानादश्वमेधफलं लभेत्

॥३७॥

आत्मविद्या भवेत्साक्षान्मुक्तिश्चापि चतुर्विधा ॥

न पापे रमते बुद्धिर्न भवेदुःखमेव वा

॥३८॥

तुलापुरुषदानेन यत्फलं लभ्यते नरैः ॥

तत्फलं लभ्यते पुम्भिः स्वामितीर्थनिमज्जनात्

॥३९॥

गोसहस्रप्रदानेन यत्पुण्यं हि भवेन्नृणाम् ॥

तत्पुण्यं लभते मर्त्यः स्वामितीर्थनिमजनात्

॥४०॥

धर्मार्थकाममोक्षाणां यं यमिच्छति पूरुषः ॥

तं तं सद्यः समाप्नोति स्वामितीर्थनिमज्जनात्

॥४१॥

महापातकयुक्तो वा युक्तो वा सर्वपातकैः ॥

सद्यः पूतो भवेद्विप्राः स्वामितीर्थनिमज्जनात्

॥४२॥

प्रज्ञा लक्ष्मीर्यशः संपज्ज्ञानं धर्मो विरक्तता ॥

मनःशुद्धिर्भवेन्नृणां स्वामितीर्थनिषेवणात्

॥४३॥

ब्रह्महत्याऽयुतं चापि सुरापानायुतं तथा ॥

अयुतं गुरुदाराणां गमनं पापकारिणाम्

॥४४॥

स्तेयायुतं सुवर्णानां तत्संसर्गाश्च कोटिशः ॥

शीघ्रं विलयमायान्ति स्वामितीर्थनिमज्जनात्

॥४५॥

ब्रह्महत्यासमानानि सुरापानसमानि च ॥

गुरुस्त्रीगमनेनापि यानि तुल्यानि चास्तिकाः

॥४६॥

सुवर्णस्तेयतुल्यानि तत्संसर्गसमानि च ॥

तानि सर्वाणि नश्यन्ति स्वामितीर्थनिमज्जनात्

॥४७॥

अथ स्वामितीर्थमहिमाश्रद्धालूनां महानरकप्राप्तिः ॥

उक्तेष्वेतेषु सन्देहो न कर्त्तव्यः कदाचन ॥

जिह्वाग्रे परशुं तप्तं प्रक्षिपंति च किंकराः

॥४८॥

अर्थवादमिमं सर्वं ब्रुवन्वै नरकं व्रजेत् ॥

सूकरः स हि विज्ञेयः सर्वकर्मबहिष्कृतः

॥४९॥

अहो मौर्ख्यमहो मौर्ख्यमहो मौर्ख्यं द्विजोत्तमाः ॥

स्वामितीर्थाभिधे तीर्थे सर्वपातकनाशने

॥५०॥

अद्वैतज्ञानदे पुंसां भुक्तिमुक्तिप्रदायिनि ॥

इष्टकामप्रदे नित्यं तथैवाज्ञाननाशने

॥५१॥

स्थितेऽपि तद्विहायायं रमतेन्यत्र वै जनः ॥

अहो मोहस्य माहात्म्यं मया वक्तुं न शक्यते

॥५२॥

स्नातस्य स्वामितीर्थे तु नान्तकाद्भयमस्ति वै ॥

स्वामितीर्थं च पश्यंति तत्र स्नांति च ये नराः

॥५३॥

स्तुवन्ति च प्रशंसंति स्पृशंति च नमन्ति च ॥

न पिबन्ति हि ते स्तन्यं मातॄणां द्विजपुंगवाः

॥५४॥

एवं वः कथितं विप्राः स्वामितीर्थस्य वैभवम् ॥

भुक्तिमुक्तिप्रदं नृणां सर्वपापनिबर्हणम्

॥५५॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवेंकटाचलमाहात्म्ये श्री स्वामिपुष्करिणीतीर्थमहिमानुवर्णनं नाम द्वादशोऽध्यायः ॥ १२ ॥