मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — वेङ्कटाचलमाहात्म्यम्, अध्याय २९

3
वैष्णवखण्डः · वेङ्कटाचलमाहात्म्यम् · 29

तीर्थानामिह सर्वेषां प्रभावः कथितस्त्वया

ऋषय ऊचुः

तीर्थानामिह सर्वेषां प्रभावः कथितस्त्वया ॥

नदीनां पर्वतानां च क्षेत्राणां सरसामपि

॥१॥

निदेशात्पद्मगर्भस्य सुवर्णमुखरी नदी ॥

नीता भुवमगस्त्येन व्याख्याता भवतानघ

॥२॥

तदुत्पत्तिप्रभावं च तीर्थौघांस्तत्समाश्रयान् ॥

श्रोतुं संप्रीतिरुत्पन्ना तन्नो वक्तुं त्वमर्हसि

॥३॥

प्रणम्य शम्भुं नन्दीशं षडास्यं व्यासमेव च ॥

मुनिभिः प्रार्थितः सूतस्तदा वक्तुं प्रचक्रमे

॥४॥

श्रीसूत उवाच

साधु पृष्टं महाभाग भवद्भिर्मंगलावहम् ॥

आख्यानमेतदाम्नाय श्रवणोद्भूतसिद्धिदम्

॥५॥

शृणुतावहिता दिव्यां कथां कल्मषनाशिनीम् ॥

भरद्वाजेन कथितां पार्थाय कथयामि वः

॥६॥

अवाप्य द्रुपदात्प्राज्ञाद्याज्ञसेनीं पृथासुताः ॥

धृतराष्ट्रनिदेशेन जग्मुः करिपुरं शुभम्

॥७॥

भीष्मेण चांबिकेयेन तत्र संमानितास्तदा ॥

दुर्योधनादिभिः सार्द्धं न्यवसन्पञ्चवत्सरान्

॥८॥

ततोऽनुशिष्टो भीष्माद्यैर्धृतराष्ट्रो महायशाः ॥

सर्वेषां कुलवृद्धानां वासुदेवस्य चाग्रतः

॥९॥

प्रददौ पांडुपुत्रेभ्यस्तत्सेवाहृष्टमानसः ॥

सार्धराज्यं पुरवरं खाण्डवप्रस्थसंज्ञिकम्

॥१०॥

आमंत्र्य पाण्डुतनया धृतराष्ट्रादिकान्कुरून् ॥

जग्मुस्तत्खाण्डवप्रस्थं पुरं कृष्णसमन्विताः

॥११॥

इन्द्रप्रस्थाह्वये तत्र रक्षिते विश्वकर्मणा ॥

वसन्पुरेऽशिषत्पृथ्वीं सानुजो धर्मनंदनः

॥१२॥

गते कृष्णे निजपुरं नारदस्यानुशासनात् ॥

प्रतिज्ञां चक्रिरे पार्था धर्मज्ञा द्रौपदीं प्रति

॥१३॥

अथार्जुनतीर्थयात्रोपोद्धातः ॥

यथाक्रमेण सा कृष्णा वर्षमेकैकमादरात् ॥

एकैकस्य गृहे तिष्ठेत्प्रतिनिर्णयपूर्वकम्

॥१४॥

यः पश्येत्तां परगृहे स्थितां पांचालनंदिनीम् ॥

तेनैकहायनमितं विधेयं तीर्थसेवनम्

॥१५॥

एवं कृतप्रतिज्ञास्ते पाण्डुभूपालनंदनाः ॥

व्यापारैर्लोंकसामान्यैर्निन्युः कालमतंद्रिताः

॥१६॥

अथ जानपदो विप्रो राजगेहांगणे स्थितः ॥

चुक्रोश बहुधा धेनुर्हृता मे तस्करैरिति

॥१७॥

समाश्वास्य च तं विप्रं प्रविवेश धनंजयः ॥

आयुधानि समानेतुं त्वरया शस्त्रमंदिरम्

॥१८॥

तत्रापश्यत्समासीनौ पांचालीधर्मनन्दनौ ॥

जानन्नपि प्रतिज्ञां स धनुर्जग्राह सेषुधि

॥१९॥

स गत्वा तस्करानाजौ निहत्य नृपनन्दनः ॥

निवर्त्य धेनुं तां तस्मै ददौ विप्राय सादरम्

॥२०॥

अथ विज्ञापयामास फाल्गुनो धर्मनन्दनम् ॥

तीर्थयात्रा मया कार्या समयोल्लंघनादिति

॥२१॥

अनुजस्य वचः श्रुत्वा सर्वधर्मविदां वरः ॥

उवाच वचनं धीरः सादरं धर्मनंदनः

॥२२॥

युधिष्ठिर उवाच

गवार्थं ब्राह्मणार्थं च यद्वदेदनृतं वचः ॥

यदाचरेदसत्कर्म तत्सत्यं तत्समंजसम्

॥२३॥

ब्राह्मणार्थं गवार्थं च त्वया कर्मेदृशं कृतम् ॥

तदसद्भावमाप्नोति कथं कथय सुव्रत

॥२४॥

प्रजापालनकृत्यस्य चोरोपेक्षणशिक्षणैः ॥

नूनं फलं भवेद्राज्ञो ब्रह्महत्याश्वमेधजम्

॥२५॥

असाध्यान्वैरिणो ज्ञात्वाऽप्यवनीशो न भद्रभाक् ॥

स्वदेशोपप्लवकरास्तस्करा यद्यशिक्षिताः

॥२६॥

अस्माकं भूभुजां लोकजालस्य च हितं हि यत् ॥

त्वयेदृशं कृतं कर्म नास्ति दोषो ह्यतस्तव

॥२७॥

श्रीसूत उवाच

धर्मपुत्रस्य वचनमाकर्ण्य रचितांजलिः ॥

पुनर्विज्ञापयामास धर्मनित्यो धनंजयः

॥२८॥

अर्जुन उवाच

मैवं भूपाल वादीस्त्वं स्वप्रतिज्ञातिलंघनम् ॥

जानता धर्मसर्वस्वमुल्लसद्धर्ममूर्तिना

॥२९॥

कृत्याकृत्यविदा दक्षेणात्मना प्राक्समीरिता ॥

नोल्लंघनीया सततं प्रतिज्ञा पुरुषेण हि

॥३०॥

अशक्तानां गतिः सेयं यद्बंधुगुरुवाक्यतः ॥

धर्मं त्यजंति समयं त्यक्ताः प्राक्स्वं समीरितम्

॥३१॥

कृपया तीर्थगमनादार्यो यदि निवर्तयेत् ॥

हतप्रतिज्ञं मां लोकाञ्जल्पतः को निवारयेत्

॥३२॥

ममापि तीर्थयात्रायां कौतुकोत्तरलं मनः ॥

कर्तव्यं च स्मृतं राजन्नारदादिष्टशासनम्

॥३३॥

तत्प्रसीद महाराज यत्तीर्थगमनोद्यमे ॥

संमाननीयः प्रभुभिः समयो ह्यनुजीविनाम्

॥३४॥

तथेति भ्रातृभिः सार्द्धं कृतानुमतिरर्जुनः ॥

अग्रजं तोषयामास प्रणामप्रश्रयादिभिः

॥३५॥

यथार्हं भीमसेनादीन्भ्रातॄनामन्त्र्य पाण्डवः ॥

कृतस्वस्त्ययनो भव्यैर्निर्ययौ धरणीसुरैः

॥३६॥

पौराणिका ज्यौतिषिका भिषजो धरणीसुराः ॥

अनुजग्मुर्भृत्यगणाः शिल्पिनः सूतमागधाः

॥३७॥

युधिष्ठिराज्ञया तस्य भोगत्यागक्षमं धनम् ॥

गृहीत्वानुययुः स्निग्धाः सभ्याः कोशाधिकारिणः

॥३८॥

अथ अर्जुनस्य गंगादितीर्थावगाहनपूर्वक सुवर्णमुखर्यागमनम् ॥

स राजपुत्रः प्रथमं प्राप्य भागीरथीं नदीम् ॥

गंगाद्वारं प्रयागं च सिषेवे काशिकामपि

॥३९॥

पश्यंस्तीर्थानि जाह्नव्यास्तत्तीरोपान्तवर्त्मना ॥

आससाद समुत्तुङ्गकल्लोलं दक्षिणोदधिम्

॥४०॥

महानदीं महापुण्यां प्रसिद्धं पुरुषोत्तमम् ॥

सिंहाचलं च संवीक्ष्य प्राप्तवान्कृतकृत्यताम्

॥४१॥

ततो ददर्श कौन्तेयः पुण्यां गोदावरीं नदीम् ॥

समस्तदुरितव्रातशातनोत्तीर्णगौरवाम्

॥४२॥

कृताभिषेकस्तत्तोयैर्विधिवत्पाण्डुनन्दनः ॥

प्रमोदं विविधैर्दानैरकरोद्भूसुवर्णकैः

॥४३॥

नदीं मलापहाख्यां च दृष्ट्वा मोदं ययौ शुभम् ॥

ततः समाससादासौ कृष्णवेणीं सरिद्वराम्

॥४४॥

शिवस्य नियतावासं चतुर्द्वारसमन्वितम् ॥

नानातीर्थगणाकीर्णं श्रीपर्वतमवैक्षत

॥४५॥

नदीं पिनाकिनीं तीर्त्वा गत्वा देवर्षिसेवितम् ॥

नारायणप्रियावासमपश्यद्वेंकटाचलम्

॥४६॥

शृङ्गेऽस्य भूभृतस्तुंगे स्थितं लोकैकनायकम् ॥

अपूजयद्धरिं भक्त्या प्रसिद्धं शुभसिद्धये

॥४७॥

अवरुह्य वेंकटमहाद्रिशृङ्गतः स ददर्श सिद्धमुनिसंघसेविताम् ॥

कलशोद्भवेन मुनिना समाहृतां तटिनीं सुवर्णमुखरीसमाह्वयाम्

॥४८॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवेंकटाचलमाहात्म्ये सुवर्णमुखरीमाहात्म्ये अर्जुनतीर्थयात्रागमनवर्णनंनामैकोनत्रिंशोऽध्यायः ॥ २९ ॥