सखीविनिवेदितपद्मावत्युदन्तविष्णुभक्तलक्षणादिवर्णनम्
अथ बकुलमालिकां प्रति सखीविनिवेदितपद्मावत्युदन्तः ॥
योषित ऊचुः ॥
वयमाकाशराजस्य शुद्धान्तनिलयाः स्त्रियः ॥
सख्यः पद्मालयाया वै दुहितुर्वसुधापतेः
॥१॥राजपुत्रीं पुरस्कृत्य गताः पूर्वं वनांतरम् ॥
कुर्वंत्यः पुष्पावचयं राजपुत्र्यर्थमाकुलाः
॥२॥वृक्षमूले समासीनास्तत्र पश्याम पूरुषम् ॥
इन्द्रनीलमणिश्याममिन्दिरामन्दिरोरसम्
॥३॥ईषत्स्मितमुखं चारुपीनदीर्घभुजद्वयम् ॥
मृष्टपीतांबरं हेमबाणबाणासनोज्ज्वलम्
॥४॥सुवर्णमुकुटं हारकेयूरादिविभूषितम् ॥
तं तु पद्मालया दृष्ट्वा सखी कमललोचना
॥५॥द्रुतहेमनिभाकारा पश्य पश्येति साब्रवीत् ॥
पश्यन्तीनां तदास्माकं गतोऽन्तर्धानमाशु सः
॥६॥सा सखी मूर्च्छितास्माभिनीता राजगृहं ततः
॥७॥अथ पद्मावतीमुद्दिश्य दैवज्ञं प्रति वियद्राजकृतप्रश्नादिः ॥
दृष्ट्वाऽस्वस्थां नृपः पुत्रीमपृच्छद्दैवचिन्तकम् ॥
वद विप्रेन्द्र पुत्र्या मे ग्रहचारफलं मुने
॥८॥बृहस्पतिसमो विप्रो विचार्यात्मनि खेचरान् ॥
अनुकूला ग्रहाः सर्वे तव पुत्र्या नृपोत्तम
॥९॥किन्तु नित्यं ग्रहफलं किंचिद्भ्रांतिकरं नृप ॥
तमुवाच पुनर्धीमान्प्रश्नकालं विचार्य च
॥१०॥छायां गुणित्वा लग्नं च तत्फलानि विचार्य च ॥
लग्ने लग्नाधिपश्चन्द्रः केंद्रे चैव बृहस्पतिः
॥११॥निद्राति दिनपक्षी तु प्रश्नपक्षी तु राज्यगः ॥
शृणु राजन्फलं तस्य स्वास्थ्यमेव भविष्यति
॥१२॥उत्तमः पुरुषः कश्चिदागतः कन्यकां प्रति ॥
तं दृष्ट्वा मूर्च्छिता पुत्री तेन योगं समेष्यति
॥१३॥तेनैव प्रेषिता काचिदागमिष्यति कन्यका ॥
सा तु वक्ष्यति यद्वाक्यं तद्धितं ते भविष्यति
॥१४॥तत्कुरुष्व महाराज सत्यंसत्यं वदाम्यहम् ॥
किं च सर्वार्थदं यत्तु सर्वव्याधिविनाशनम्
॥१५॥वक्ष्यामि तत्कुरुष्वाद्य पुत्र्यास्तव सुखावहम् ॥
कारयागस्त्यलिंगस्य ब्राह्मणैरभिषेचनम्
॥१६॥इत्युक्ताथ गृहं यातो राजानं दैवचितकः
॥१७॥अथ दैवज्ञोक्त्यागस्त्यलिंगार्चनाय विप्रादिप्रेषणम् ॥
आकाशराजोऽपि तदा विप्रानाहूय वैदिकान् ॥
अभ्यर्च्याज्ञापयामास गत्वा देवालयं द्विजाः
॥१८॥महाभिषेकं शम्भोश्च कुरुध्वं मंत्रपूर्वकम् ॥
इत्यनुज्ञाप्य तानस्मानाहूयाभ्यवदच्छुभे
॥१९॥महाभिषेकसम्भारान्सम्पादयत कन्यकाः ॥
इत्याज्ञप्ता नृपेणैव वयं देवालयं गताः
॥२०॥ब्रूहि त्वं सुभगेऽस्माकं त्वदागमनमंजसा ॥
कुतोसि कस्य वार्थेन क्व वा जिगमिषा हि ते
॥२१॥दिव्याश्वमधिरुह्येमं देवलोकादिवागता
॥२२॥श्रीवराह उवाच
इति ताभिस्तदा पृष्टा हृष्टा बकुलमालिका ॥
प्रोवाच वाचं मधुरां हर्षयन्तीव बालिकाः
॥२३॥बकुलमालिकोवाच
श्रीवेंकटाद्रेः प्राप्ताहं नाम्ना बकुलमालिका ॥
धरणीं द्रष्टुकामाहमारुह्येमं तुरंगमम्
॥२४॥द्रष्टुं शक्या भवेद्देवी किमु तत्र नृपालये ॥
इति तस्या वचः श्रुत्वा ताः प्रोचुर्नृपकन्यकाः
॥२५॥अस्माभिः सहिता त्वं वै द्रक्ष्यसे धरणीं शुभे ॥
इत्युक्ता सा ततस्ताभिरागता नृपमंदिरम्
॥२६॥आगच्छन्तीषु तास्वेवं धरणी तु पुलिन्दिनीम्
॥२७॥अथ धरणीकृत प्रश्नस्य पुलिन्दिनीप्रतिवचनम् ॥
आयान्तीं वीथिकायां सा सगुंजाशंखभूषिताम् ॥
शिशुं स्तनं धयं पृष्ठे बद्ध्वा वस्त्रांचलेन वै
॥२८॥वदामि सत्यं शृणुत भूतं भव्यं भविष्यकम् ॥
वदन्ती वीथिवीथीषु तामाहूय शुचिस्मिता
॥२९॥स्वर्णशूर्पं समादाय तस्मिन्मुक्ता निधाय च ॥
त्रिप्रस्थमात्रांस्त्रीन्राशीन्कृत्वा तस्यै निधाय च
॥३०॥वद सत्यं त्वमेष्यद्वा भूतमेव वा ॥
इत्येवं धरणी देवी पृच्छंती तां स्थिताऽभवत्
॥३१॥पृष्टा सावददस्यास्तु मनसा यद्विचिन्तितम् ॥
मध्यराशौ चिन्तितं ते वद कल्याणि मे ऋजु
॥३२॥ओमित्याहाथ धरणी पुलिंदां राजवल्लभा ॥
धरण्युवाच ॥
राशिरुक्तः फलं ब्रूहि धनराशिं ददामि ते
॥३३॥पुलिन्दोवाच
सत्यं वदामि ते सुभ्रु शिशोरन्नं प्रयच्छ मे ॥
इत्युक्ता सा तु धरणी स्वर्णपात्रेऽन्नमाददे
॥३४॥दत्त्वा तस्यै पुलिंदिन्यै सत्यं ब्रूहीति सावदत् ॥
सक्षीरमन्नमादाय दत्त्वा पुत्राय भामिनी
॥३५॥सा सत्यमवदत्सुभ्रूर्दुहितुर्देहशोषणम् ॥
पुरुषादागतं भीरु तद्रूपाऽदर्शनादियम्
॥३६॥अंगतापं समापन्ना ह्यनंगशरपीडिता ॥
स तु देवादिदेवो वै वैकुण्ठादागतः स्वयम्
॥३७॥श्रीवेंकटाद्रिशिखरे स्वामिपुष्करिणीतटे ॥
मायावी परमानंदः श्रिया सह रमापतिः
॥३८॥कामरूपी विहरते भक्ताभीष्टप्रदो हरिः ॥
स तुरंगं समारुह्य विहरन्काननान्तरे
॥३९॥आगत्योपवनं राज्ञि तव कन्यां स दृष्टवान् ॥
रमासमामिमां दृष्ट्वा स्वयं कामवशं गतः
॥४०॥स्वसखीं ललितां देवः प्रेषयिष्यति तेंतिकम् ॥
रमेव तं समेत्यैषा रमिष्यति सुखं चिरम्
॥४१॥एतत्सत्यं मम वचः पश्याद्यैव नृपात्मजे ॥
पुत्रस्यान्नं प्रयच्छेति तूष्णीमास पुलिन्दिनी
॥४२॥अन्नं दत्त्वा पुनर्भूरि तस्यै तां विससर्ज ह ॥
तस्यां विनिर्गतायां तु पुलिंदिन्यामनिन्दिता
॥४३॥उत्थाय चांगणात्तस्माद्विवेशांतःपुरं शुभम् ॥
यत्र पद्मालया कन्या समास्ते स्वसखीवृता
॥४४॥गत्वा पुत्रीसमीपस्था कन्यां कामातुरां सुताम् ॥
पुत्रि किं ते करिष्यामि वस्तु किं वा प्रियं शुभे
॥४५॥इति मात्राभिपृष्टा सा मन्दमाह मनस्विनी
॥४६॥अथ पद्मावती निवेदित भगवद्भागवतयोर्लक्षणानि ॥
नेत्राभिरामं यल्लोके सतामपि मनःप्रियम् ॥
यद्द्रष्टुकामा ब्रह्माद्या यत्तु सर्वगतं महत्
॥४७॥तेजसामपि तेजस्वि देवानामपि दैवतम् ॥
भक्तैस्सद्भिरिह प्राप्यमभक्तैर्न कदाचन
॥४८॥तस्मिन्नेव मनो मेऽम्ब वस्तुनीह प्रवर्तते ॥
तदेवान्विष्यतां मातर्भक्तानां सर्वकामदम्
॥४९॥श्रीवराह उवाच
एतच्छ्रुत्वाथ धरणी तामपृच्छत्पुनः सुताम् ॥
तद्भक्तलक्षणं ब्रूहि यैः प्राप्यं तत्सुलोचने
॥५०॥पद्मालयोवाच
भक्तानां लक्षणं मातः शृणु गुह्यं समाहिता ॥
शंखचक्रांकिता नित्यं भुजयुग्मे वसुन्धरे
॥५१॥ऊर्ध्वपुंड्रं सान्तरालं तेषामेव विशेषतः ॥
पुण्ड्रानि द्वादश पुनर्धारयंति तथापरे
॥५२॥ललाटोदरहृत्कण्ठे जठरे पार्श्वयोरपि ॥
कूर्परयोर्भुजद्वन्द्वे पृष्ठे च गलपृष्ठके
॥५३॥केशवादीनि नामानि द्वादशांगेषु द्वादश ॥
वासुदेवेति तन्मूर्ध्नि धारयंति नमोऽस्त्विति
॥५४॥तेषां तु नियमान्वक्ष्ये मातः शृणु मनोरमान् ॥
वेदपारायणरताः कर्म कुर्वंति वैदिकम्
॥५५॥सत्यं वदन्ति ये देवि नासूयंति परान्क्वचित् ॥
परनिंदां न कुर्वंति परस्वं न हरंति च
॥५६॥न स्मरंति न पश्यन्ति न स्पृशंति कदाचन ॥
परदारान्सुरूपांश्च ये च तान्विद्धि वैष्णवान्
॥५७॥सर्वभूतदयावंतः सर्वभूतहिते रताः ॥
सदा गायंति देवेशमेतान्भक्तानवेहि वै
॥५८॥येन केन च सन्तुष्टाः स्वदारनिरताश्च ये ॥
वीतरागभयक्रोधास्तान्भक्तान्विद्धि वैष्णवान्
॥५९॥एवंविधैर्गुणैर्युक्ताः पंचायुधधरा अपि ॥
पित्रा चाचार्यरूपेण शिष्टेनान्येन वा पुनः
॥६०॥स्वगृह्योक्तविधानेन वह्निमादाय वै बुधः ॥
चक्राद्यायुधमंत्रेण जुहुयात्षोडशाहुतीः
॥६१॥मूलमंत्रेण सूक्तेन पौरुषेण ततः परम् ॥
जातवेदः सुमंत्रेण पश्चादष्टोत्तरं शतम्
॥६२॥हुत्वा महाव्याहृतिभिश्चक्रादींस्तत्र तापयेत् ॥
सह्यान्सुतप्तान्गुरुणा मंत्रवद्धारयेद्बुधः
॥६३॥भुजद्वये शंखचक्रे मूर्ध्नि शार्ङ्गशरौ तथा ॥
ललाटे तु गदा धार्या हृदये खड्गमेव च
॥६४॥एवं धार्याणि पञ्चैव विष्णुभक्तैर्मुमुक्षुभिः ॥
अथवा भुजयोश्चक्र शंखौ चैव सुलक्षणौ
॥६५॥एवं लाञ्छनयुक्ता ये भक्तास्ते वैष्णवाः स्मृताः ॥
तैरेव लभ्यं तद्ब्रह्म सदाचारसमन्वितैः
॥६६॥तस्मिन्नेव मम प्रीतिस्तत्प्राप्तिं कांक्षते मनः ॥
मातर्विष्णुविनान्येषु वाञ्छा काचिन्न जायते
॥६७॥स्मरामि श्यामलं विष्णुं वदामि हरिमच्युतम् ॥
तेनैव मातर्जीवामि तद्योगे चिन्त्यतां विधिः
॥६८॥श्रीवराह उवाच
इत्युक्त्वा मातरं दीना विररामाम्बुजानना ॥
तच्छ्रुत्वा चिन्तयामास विष्णुः प्रीतः कथं भवेत्
॥६९॥अथ बकुलमालिकया सार्द्धं सखीनां धरणीसमीप आगमनम् ॥
एतस्मिन्नंतरे कन्या अगस्त्येशं समर्च्य च ॥
आगता धरणीं द्रष्टुं सहैव बकुलस्रजा
॥७०॥आगतान्ब्राह्मणान्साथ पूजयित्वा सुभोजनैः ॥
दत्त्वाथ दक्षिणाः पूर्णा वस्त्रालंकारसंयुताः
॥७१॥आशिषौ वाचयित्वाथ वांछितार्थस्य सिद्धये ॥
विसृज्य व्राह्मणान्सर्वानथापृच्छत्स्वयोषितः
॥७२॥पूजयित्वा ह्यगस्त्येशमागतास्ता मनस्विनीः
॥७३॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवेंकटाचलमाहात्म्ये धरणीवराहसंवादे बकुलमालिकां प्रति सखीविनिवेदितपद्मावत्युदन्तविष्णुभक्तलक्षणादिवर्णनंनाम षष्ठोऽध्यायः ॥ ६ ॥