मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — वेङ्कटाचलमाहात्म्यम्, अध्याय ४

3
वैष्णवखण्डः · वेङ्कटाचलमाहात्म्यम् · 4

श्रीनिवासमृगयादिवर्णनम्

अथ उद्यानवासिन्याः पद्मावत्याः समीपे नारदागमनम् ॥

धरण्युवाच ॥

उक्तं भगवता तस्य वियत्पुत्रस्य नाम च ॥

अयोनिजायास्तत्पुत्र्याः किं नाम च तदाऽकरोत्

॥१॥

श्रीसूत उवाच

इति पृष्टः पुनः प्राह श्रीवराहो जगत्पतिः

॥२॥

श्रीवराह उवाच

आकाशराजो मतिमांस्तां दृष्ट्वा कमलेशयाम्

॥३॥

पद्मिनीति च नाम्ना वै चकार वसुधासुताम् ॥

तां तु यौवनसम्पन्नां सखीभिः परिवारिताम्

॥४॥

आरामे विहरंतीं च शुककोकिलनादिते ॥

यदृच्छयाऽऽगतस्तत्र नारदो मुनिसत्तमः

॥५॥

वनलक्ष्मीमिवालोक्य विस्मयादिदमब्रवीत्

॥६॥

नारद उवाच

कासि कस्य सुता भीरु हस्तं दर्शय मे तव ॥

इत्युक्ता सा सुचार्वंगी स्वात्मानं मुनयेऽब्रवीत्

॥७॥

वियद्राजसुता ब्रह्मँल्लक्षणानि वदस्व मे ॥

इत्युक्तः स तदा प्राह नारदो मुनिसत्तमः

॥८॥

अथ नारदोदीरित पद्मावतीशरीरलक्षणानि ॥

नारदउवाच ॥

शृणु त्वं चारुवदने लक्षणानि वदामि ते ॥

पादौ प्रतिष्ठितौ सुभ्रु रक्तपद्मदलान्वितौ

॥९॥

पादांगुल्यः समा रक्ता रक्ततुंगनखान्विताः ॥

गुल्फौ गूढौ समावेतौ जंघे चारोमशे शुभे

॥१०॥

जानुनी समसुस्निग्धे समावूरू क्रमादुरू ॥

नितंबौ पृथुलौ पीनौ जघनं चिंत्यमेव हि

॥११॥

नाभिर्मंडलवान्निम्नः पार्श्वौ ते मेदुरावुभौ ॥

त्रिवलीललितं मध्यं रोमराजिविराजितम्

॥१२॥

स्तनौ पीनौ घनौ स्निग्धाबुन्नतौ मग्नचूचुकौ ॥

करौ ते रक्तपद्माभौ पद्मरेखासमन्वितौ ॥

सुसूक्ष्मौ रक्तसत्पर्व निरन्तरसमांगुली

॥१३॥

शुकतुंडसमाकारनखपंक्तिविराजितौ ॥

दीर्घौ च कोमलौ भद्रे भुजौ ते पुष्पदंडवत्

॥१४॥

पृष्ठं ते वेदिवद्भाति विलग्नमृजु मध्यमम् ॥

कंठस्तु रक्तो दीर्घश्च स्कन्धौ चावनतौ शुभे

॥१५॥

मुखं प्रसन्नं सततमकलंकशशिप्रभम् ॥

कपोलौ कनकादर्शसदृशौ कुंडलोज्ज्वलौ

॥१६॥

तिलपुष्पसमाकारा नासिका ते शुभानने ॥

अकलंकाष्टमीचंद्रसदृशोऽतिमनोहरः

॥१७॥

दृश्यतेऽयं ललाटस्ते नीलालकसुशोभितः ॥

मूर्धा ते समवृत्तश्च स्निग्धायतकचान्वितः

॥१८॥

स्मितसंशोभिदशनं बिंबाधरसमन्वितम् ॥

मुखं ते विष्णुयोग्यं स्यादिति मे निश्चिता मतिः

॥१९॥

नाभिस्ते दक्षिणावर्त आवर्त इव गांगजः ॥

त्वं हि क्षीराब्धिसम्भूता लक्ष्मीरिव हि दृश्यसे

॥२०॥

श्रीवराह उवाच

इत्युक्त्वा पूजितस्ताभिर्नारदोऽन्तर्दधे तदा ॥

एतच्छ्रुत्वाऽथ तत्सख्यस्तामूचुः पद्मिनीं सखीम्

॥२१॥

अथ पद्मावत्याः स्वसखीभिः साकं पुष्पाटवी गमनम् ॥

वनं गच्छाम पुष्पार्थं वसन्तः समुपागतः ॥

कर्णिकाराश्च चूताश्च चंपकाः पारिभद्रकाः

॥२२॥

पलाशाः पाटलाः कुन्दा रक्ताशोकाश्च पुष्पिताः ॥

पद्मिन्यः सिन्धुवाराश्च मालत्यो यूथिकालताः

॥२३॥

कह्लारकरवीराश्च संघर्षादिव पुष्पिताः ॥

पुष्पावचयनं कुर्मो वनेऽस्मिन्सुमनोहरे

॥२४॥

इत्युक्त्वा ता वनं जग्मुराकाशतनयायुताः ॥

पुष्पाण्याहरमाणास्तु विचरन्त्यस्ततस्ततः

॥२५॥

कंचिद्गजेंद्रं ददृशुः शुभ्रदन्तद्वयोज्ज्वलम् ॥

गण्डभित्तितलोद्भूतमदधाराद्वयोज्ज्वलम्

॥२६॥

उन्नतं करिणीयूथैः समुपेतं रजोज्ज्वलम् ॥

फूत्कारिपुष्करप्रोद्यच्छीकरापूरिताननम्

॥२७॥

दृष्ट्वा चोद्विग्नहृदया वनस्पतिमुपाश्रिताः ॥

एतस्मिन्नंतरे चाशु ददृशुर्हयमुत्तमम्

॥२८॥

अथ मृगयार्थं पुष्पाटवीं प्रति श्रीनिवासागमनम् ॥

अकलंकेन्दुधवलं जाम्बूनदपरिष्कृतम् ॥

स्फुरद्विद्युल्लतायुक्तशरन्मेघमिवोन्नतम्

॥२९॥

तस्मिंस्तु पुरुषं कृष्णं मदनाकारवर्चसम् ॥

पुंडरीकदलाकारकर्णान्तायतलोचनम्

॥३०॥

सुसूक्ष्मक्षौमसंवीतनीलचूलिकयोज्ज्वलम् ॥

पद्मरागमणिद्योतिस्फुरत्कुंडलमण्डितम्

॥३१॥

सुवर्णरत्नखचितशार्ङ्गदिव्यधनुर्धरम् ॥

अपरेण करेणैव वहन्तं काञ्चनं शरम्

॥३२॥

पीतकक्षोमसंवीतकटिदेशं सुमध्यमम् ॥

रत्नकंकणकेयूरकटिसूत्रविराजितम

॥३३॥

विशालवक्षः संशोभिदक्षिणावर्तसंयुतम् ॥

स्वर्णयज्ञोपवीतेन स्फुरत्स्कन्धं मनोहरम्

॥३४॥

ईहामृगं समुद्दिश्य महावेगादनुद्रुतम् ॥

तं दृष्ट्वा विस्मिता नार्यः सस्मितास्तस्थुरत्र वै

॥३५॥

तं दृष्ट्वा हयमारूढं गजेन्द्रो नम्रमस्तकः ॥

तुण्डमुद्धृत्य गर्जन्वै विनिर्वृत्य ययौ वनम्

॥३६॥

तस्मिन्गते गजे तत्र हयारूढः समाययौ ॥

ईहामृगं विचिन्वानः पुष्पलावीसमीपतः

॥३७॥

अथ भगवतः कन्यकानां चान्योन्यसंवादः ॥

ताः समेत्य स चोवाच तुरगोपरि संस्थितः ॥

अत्रागतो मृगः कश्चिदीहामृग इतीरितः

॥३८॥

दृष्टो वा भवतीभिः स ब्रूत मे कन्यका इति

॥३९॥

श्रीवराह उवाच

प्रत्यूचुस्तास्तु तं कन्या दृष्टोस्माभिर्न कश्चन

॥४०॥

किमर्थमागतोस्माकं वनं वरधनुर्धरः ॥

अत्रावध्या मृगाः सर्वे वर्तमाना निषादप

॥४१॥

आशु गच्छ वनादस्मादाकाशनृपपालितात् ॥

इति तासां वचः श्रुत्वा हयादवरुरोह सः

॥४२॥

कास्तु यूयमियं चापि कन्यकांबुजसन्निभा ॥

सुभगा चारुसर्वांगी पीनोन्नतपयोधरा ॥

ब्रूत मेऽहं गमिष्यामि श्रुत्वा स्वस्यालयं गिरिम्

॥४३॥

इति तस्या वचः श्रुत्वा धरण्यात्मजयेरिता ॥

सखी पद्मावती प्राह निषादं पर्वतालयम्

॥४४॥

आकाशराजतनया वसुधातलसंभवा ॥

अस्माकं नायिका शूर पद्मिनीनाम नामतः

॥४५॥

ब्रूहि त्वं सुभगाकार किन्नामा कस्य वा सुतः ॥

जातिः का कुत्र ते वासः किमर्थं त्वमिहागतः ॥

इति पृष्टः स ताः प्राह मन्दस्मितमुखांबुजः

॥४६॥

दिवाकरकुलं प्राहुरस्माकं तु पुराविदः ॥

यस्य नामान्यनंतानि पावनानि मनीषिणाम्

॥४७॥

वर्णतो नामतश्चापि कृष्णं प्राहुस्तपस्विनः ॥

ब्रह्मद्विषां सुरारीणां यस्य चक्रं भयावहम्

॥४८॥

यस्य शंखध्वनिं श्रुत्वा मोहमीयुर्हि वैरिणः ॥

यस्य वै धनुषस्तुल्यं धनुर्नैवामरेष्वपि

॥४९॥

तं मां वीरपतिं प्राहुर्वेंकटाद्रिनिवासिनम् ॥

तस्मादद्रितटात्सोऽहं निषादैरनुगैर्वृतः

॥५०॥

मृगयार्थं हयारूढो युष्माकं वनमागतः ॥

मयाप्यनुद्रुतः कश्चिन्मृगो वायुगतिर्ययौ

॥५१॥

तमदृष्ट्वा वनं पश्यन्दृष्टवान्सुभगामिमाम् ॥

कामादिहागतोऽहं वो मया किं लभ्यते न्वियम्

॥५२॥

इति कृष्णवचः श्रुत्वा कुद्धास्ताः पुनरब्रुवन् ॥

आकाशराजो दृष्ट्वा त्वां कृत्वा निगडबन्धनम् ॥

यावन्नयति तावत्त्वं गच्छ शीघ्रं स्वमालयम्

॥५३॥

तर्जितस्ताभिरेवं स हयमारुह्य शीघ्रगम् ॥

युक्तः स्वानुचरैः सर्वैर्ययौ द्रुततरं गिरिम्

॥५४॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवेंकटाचलमाहात्म्ये धरणीवराहसंवाद उद्यानवासिन्याः पद्मावत्यास्समीपे नारदागमन श्रीनिवासमृगयादिवर्णनंनाम चतुर्थोऽध्यायः ॥ ४ ॥