सर्वतीर्थमहिमोपसंहारपूर्वकपुराणश्रवणप्रक्रियाद्यनुवर्णनम्
अथ श्रीवेंकटाचलस्य सर्वपुण्यतीर्थाधारत्ववर्णनम् ॥
ऋषय ऊचुः ॥
वेंकटाद्रौ महापुण्ये सर्वसंकटनाशने ॥
सन्ति वै कति तीर्थानि सूत पौराणिकोत्तम
॥१॥तेषां संख्यां च मे ब्रूहि कति मुख्यानि तत्र वै ॥
तत्राप्यत्यन्तमुख्यानि वद मे मुनिसत्तम
॥२॥सद्धर्मरतिदान्यत्र कति मुख्यानि तानि च ॥
कानि ज्ञानप्रदान्यत्र भक्तिवेराग्यदानि च
॥३॥मुक्तिप्रदानि कान्यत्र तानि मे वद सुव्रत
॥४॥श्रीसूत उवाच
षट्षष्टिकोटितीर्थानि पुण्यान्यत्र नगोत्तमे ॥
अष्टोत्तरसहस्राणि तेषु मुख्यानि सुव्रत
॥५॥सद्धर्मरतिदान्यत्र सन्ति चाष्टोत्तरं शतम् ॥
सहस्रेभ्यश्च मुख्यानि पृथक्तेभ्यश्च तानि च
॥६॥भक्तिवैराग्यदान्यत्र षष्टिरष्टोत्तरे शते
॥७॥अथ स्वामिपुष्करिण्यादिषट्तीर्थस्नानकालनिर्णयः ॥
मुक्तिदान्यत्र षट् चैव वेंकटाचलमूर्धनि ॥
स्वामिपुष्करिणी चैव वियद्गङ्गा ततः परम्
॥८॥पश्चात्पापविनाशं च पाण्डुतीर्थमतःपरम् ॥
कुमारधारिकातीर्थं तुम्बोस्तीर्थमतः परम्
॥९॥कुम्भमासे पौर्णमास्यां मघायोगो यदा भवेत् ॥
कुमारधारिकां यान्ति सर्वतीर्थानि हे द्विजाः
॥१०॥तत्र यः स्नाति विप्रेन्द्रा राजसूयफलं लभेत् ॥
मुक्तिश्च भविता तत्र नात्र कार्या विचारणा
॥११॥अन्नदानविधिस्तत्र सार्धं दक्षिणयाऽ द्विजाः ॥
उत्तराफल्गुनीयुक्तशुक्लपक्षीयपर्वणि
॥१२॥तुम्बोस्तीर्थं मीनसंस्थे रवौ तीर्थानि सर्वशः ॥
अपराह्णे समायान्ति तत्र स्नातो न जायते
॥१३॥मौञ्जीबन्धं विवाहं च कारयेद्द्रव्यदानतः ॥
मेषसंक्रमणे भानौ चित्रानक्षत्रसंयुते
॥१४॥पौर्णमास्यां समायान्ति वियद्गङ्गां तथैव च ॥
तत्र स्नात्वा नरः सद्यः शतक्रतुफलं लभेत्
॥१५॥सुवर्णं तत्र दातव्यं कन्यादानं विशेषतः ॥
वृषभस्थे रवौ विप्रा द्वादश्यां हरिवासरे
॥१६॥शुक्ले वाप्यथ कृष्णे वा भौमेनापि समन्विते ॥
पाण्डुतीर्थं समायान्ति गङ्गादीनि जगत्त्रये
॥१७॥तत्र स्नात्वा च गां दत्त्वा मुच्यते प्रतिबन्धकात् ॥
आश्वयुक्छुक्लपक्षे च सप्तम्यां भानुवासरे
॥१८॥उत्तराषाढयुक्तायां तथा पापविनाशनम् ॥
उत्तराभाद्रयुक्तायां द्वादश्यां वा समागतः
॥१९॥शालग्रामशिलां दत्त्वा स्नात्वा च विधिपूर्वकम् ॥
मुच्यते सर्वपापैश्च जन्म कोटिशतोद्भवैः
॥२०॥धनुर्मासे सिते पक्षे द्वादश्यामरुणोदये ॥
आयान्ति सर्वतीर्थानि स्वामिपुष्करिणीजले
॥२१॥तत्र स्नात्वा नरः सद्यो मुक्तिमेति न संशयः ॥
यस्य जन्मसहस्रेषु पुण्यमेवार्जितं पुरा
॥२२॥तस्य स्नानं भवेद्विप्रा नान्यस्य त्वकृतात्मनः ॥
विभवानुगुणं दानं कार्यं तत्र यथाविधि
॥२३॥शालिग्रामशिलादानं गां दद्याच्च विशेषतः
॥२४॥अथ पुराणश्रवणस्य विशेषतः प्राशस्त्यवर्णनम् ॥
ये शृण्वंति कथां विष्णोः सदा भुवनपावनीम् ॥
ते वै मनुष्यलोकेऽस्मिन्विष्णुभक्ता भवन्ति हि
॥२५॥यद्यशक्तः सदा श्रोतुं कथां भुवनपावनीम् ॥
मुहूर्तं वा तदर्धं वा क्षणं वा विष्णुसत्कथाम् ॥
यः शृणोति नरो भक्त्या दुर्गतिर्नास्ति तस्य हि
॥२६॥यत्फलं सर्वयज्ञेषु सर्वदानेषु यत्फलम् ॥
सकृतपुराणश्रवणात्तत्फलं विन्दते नरः
॥२७॥कलौ युगे विशेषेण पुराणश्रवणादृते ॥
नास्ति धर्मः परः पुंसां नास्ति मुक्तिप्रदं परम्
॥२८॥पुराणश्रवणं विष्णोर्नामसंकीर्तनं परम् ॥
उभे एव मनुष्याणां पुण्यद्रुममहाफले
॥२९॥पिबन्नेवामृतं यत्नादेकः स्यादजरामरः ॥
विण्णोः कथामृतं कुर्यात्कुलमेवाजरामरम्
॥३०॥अथ पुराणवक्तुः सर्वपूजनीयत्ववर्णनम् ॥
बालो युवाथ वृद्धो वा दरिद्रो दुर्भगोऽपि वा ॥
पुराणज्ञः सदा वन्द्यः स पूज्यः सुकृतात्मभिः
॥३१॥नीचबुद्धिं न कुर्वीत पुराणज्ञे कदाचन ॥
यस्य वक्त्रोद्गता वाणी कामधेनुः शरीरिणाम्
॥३२॥भवकोटिसहस्रेषु भूत्वा भूत्वावसीदताम् ॥
यो ददात्यपुनर्वृत्तिं कोऽन्यस्तस्मात्परो गुरुः
॥३३॥व्यासासनसमारूढो यदा पौराणिको द्विजः ॥
आ समाप्तेः प्रसंगस्य नमस्कुर्यान्न कस्यचित्
॥३४॥न दुर्जनसमाकीर्णे न शूद्रश्वापदावृते ॥
देशे न द्यूतसदने वदेत्पुण्यकथां सुधीः
॥३५॥सुग्रामे सुजनाकीर्णे सुक्षेत्रे देवतालये ॥
पुण्ये वाथ नदीतीरे वदेत्पुण्यकथां सुधीः
॥३६॥श्रद्धाभक्तिसमायुक्ता नान्यकार्येषु लालसा ॥
वाग्यताः शुचयोऽव्यग्राः श्रोतारः पुण्यभागिनः
॥३७॥अभक्त्या ये कथां पुण्यां शृण्वंति मनुजाधमाः ॥
तेषां पुण्यफलं नास्ति दुःखं जन्मनि जन्मनि
॥३८॥पुराणं ये तु संपूज्य ताम्बूलाद्यैरुपायनैः ॥
शृण्वंति च कथां भक्त्या न दरिद्रा न पापिनः
॥३९॥कथायां कथ्यमानायां ये गच्छन्त्यन्यतो नराः ॥
भोगान्तरे प्रणश्यन्ति तेषां दाराश्च संपदः
॥४०॥सोष्णीषमस्तका ये च कथां शृण्वंति पावनीम् ॥
ते बालकाः प्रजायन्ते पापिनो मनुजाधमाः
॥४१॥तांबूलं भक्षयन्तो ये कथां शृण्वंति पावनीम् ॥
श्वविष्ठां भक्षयन्त्येते नरके च पतंति हि
॥४२॥ये च तुंगासनारूढाः कथां शृण्वन्ति दांभिकाः ॥
अक्षय्यान्नरकान्भुक्त्वा ते भवन्त्येव वायसाः
॥४३॥ये च वीरासनारूढा ये च सिंहासनस्थिता ॥
शृण्वन्ति सत्कथां ते वै भवन्त्यर्जुनपादपाः
॥४४॥असंप्रणम्य शृण्वन्तो विषवृक्षा भवन्ति हि ॥
तथा शयानाः शृण्वन्तो भवन्त्यजगरा हि ते
॥४५॥यः शृणोति कथां वक्तुः समानासनसंस्थितः ॥
गुरुतल्पसमं पापं संप्राप्य नरकं व्रजेत्
॥४६॥ये निन्दंति पुराणज्ञं सत्कथां पापहारिणीम् ॥
ते वै जन्मशतं मर्त्याः शुनकाश्च भवंति हि
॥४७॥कथायां कीर्त्यमानायां ये वदंति दुरुत्तरम् ॥
ते गर्दभाः प्रजायन्ते कृकलासास्ततःपरम्
॥४८॥कदाचिदपि ये पुण्यां न शृण्वंति कथां नराः ॥
ते भुक्त्वा नरकान्घोरान्भवन्ति वनसूकराः
॥४९॥कथायां कीर्त्यमानायां विघ्नं कुर्वंति ये नराः ॥
कोट्यब्दं नरकान्भुक्त्वा भवंति ग्रामसूकराः
॥५०॥ये कथामनुमोदन्ते कीर्त्यमानां नरोत्तमाः ॥
अशृण्वन्तोऽपि ते यान्ति शाश्वतं पदमव्ययम्
॥५१॥ये श्रावयन्ति मनुजाः पुण्यां पौराणिकीं कथाम् ॥
कल्पकोटिशतं साग्रं तिष्ठन्ति ब्रह्मणः पदे
॥५२॥आसनार्थं प्रयच्छन्ति पुराणज्ञस्य ये नराः ॥
कम्बलाजिनवासांसि तथा मंचकमेव वा
॥५३॥स्वर्गलोकं समासाद्य भुक्त्वा भोगान्यथेप्सितान् ॥
स्थित्वा ब्रह्मादिलोकेषु पदं यांति निरामयम्
॥५४॥पुराणस्य प्रयच्छन्ति ये च सूत्रं नवं वरम् ॥
भोगिनो ज्ञानसंपन्नास्ते भवंति भवे भवे
॥५५॥ये महापातकैर्युक्ता ह्युपपातकिनश्च ये ॥
पुराणश्रवणादेव ते यांति परमं पदम्
॥५६॥वेंकटाद्रेस्तु माहात्म्यं श्रुत्वा त ऋषयस्ततः ॥
व्यासप्रसादसंपन्नं सूतं पौराणिकोत्तमम् ॥
पूजयित्वा यथान्यायं प्रहर्षमतुलं गताः
॥५७॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवेंकटाचलमाहात्म्ये सर्वतीर्थमहिमोपसंहारपूर्वकपुराणश्रवणप्रक्रियाद्यनुवर्णनंनाम सप्तविंशोऽध्यायः ॥ २७ ॥