मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — वेङ्कटाचलमाहात्म्यम्, अध्याय २४

3
वैष्णवखण्डः · वेङ्कटाचलमाहात्म्यम् · 24

चक्रतीर्थमहिमानुवर्णनम्

अथ सुन्दराख्यगन्धर्वस्य राक्षसत्वप्राप्तिनिवृत्त्योरुपोद्घातः ॥

ऋषय ऊचुः ॥

भगवन्राक्षसः कोऽसौ सूत पौराणिकोत्तम ॥

विष्णुभक्तं महात्मानं यो ब्राह्मणमबाधत

॥१॥

श्रीसूत उवाच

वक्ष्यामि राक्षसं क्रूरं तं विप्राः शृणुतादरात् ॥

यथा च राक्षसो जातो मुनीनां शापवैभवात्

॥२॥

पुरा वैकुण्ठसदृशे श्रीरङ्गे विष्णुमंदिरे ॥

वसिष्ठात्रिमुखाः सर्वे विष्णुभक्ता महौजसः

॥३॥

श्रीरङ्गनाथं देवेशं भक्तानामभयप्रदम् ॥

उपासांचक्रिरे मुक्त्यै श्रीरङ्गपुरवासिनः

॥४॥

कदाचित्तत्र गन्धर्वो वीरबाहुसुतो बली ॥

सुन्दरो नाम विप्रेंद्रा विटगोष्ठीपरायणः

॥५॥

ललनाशतसंयुक्तो विवस्त्रः सलिलाशये ॥

चिक्रीड स विवस्त्राभिः साकं युवतिभिर्मुदा

॥६॥

कवेरजायास्तीर्थे तु वसिष्ठो मुनिभिः सह ॥

माध्याह्निकं कर्तुमना ययौ श्रीरंगमंदिरात्

॥७॥

तानृषीनवलोक्याथ रामास्ता भयकातराः ॥

वासांस्याच्छादयामासुः सुन्दरो न तु साहसी

॥८॥

ततो वसिष्ठः कुपितः शशापैनं गतत्रपम्

॥९॥

वसिष्ठ उवाच

यस्मात्सुन्दर गन्धर्व दृष्ट्वाऽस्माँल्लज्जया त्वया ॥

वासो नाच्छादितं शीघ्रं याहि राक्षसतां ततः

॥१०॥

एवमुक्ते वसिष्ठेन रामाः प्राञ्जलयस्तदा ॥

प्रणिपत्य वसिष्ठं तं भक्तिनम्रेण चेतसा

॥११॥

मुनिमण्डलमध्ये तु वसिष्ठमिदमब्रुवन्

॥१२॥

रामा ऊचुः

भगवन्सर्वधर्मज्ञ चतुरानननन्दन ॥

दयासिन्धोऽवलोक्यास्मान्न कोपं कर्तुमर्हसि

॥१३॥

पतिरेव हि नारीणां भूषणं परमुच्यते ॥

पतिहीना तु या नारी शतपुत्रापि सा मुने

॥१४॥

विधवेत्युच्यते लोके तासां जन्म निरर्थकम् ॥

तत्प्रसादं कुरु मुने पत्यावस्माकमादरात्

॥१५॥

एकोऽपराधः क्षंतव्यो मुनिभिस्तत्त्वदर्शिभिः ॥

क्षमां कुरु दयासिन्धो युष्मच्छिष्येऽत्र सुन्दरे

॥१६॥

श्रीसूत उवाच

वसिष्ठः प्रार्थितस्त्वेवं सुन्दरस्यांगनाजनैः ॥

प्रोवाच वचनं भूयः प्रसन्नः स द्विजोत्तमः

॥१७॥

अथ सुन्दराख्यस्य वसिष्ठोक्तराक्षत्वनिवृत्त्युपायः ॥

वसिष्ठ उवाच ॥

न मे स्याद्वचनं मिथ्या कदाचिदपि सुभ्रुवः ॥

उपायं वः प्रवक्ष्यामि शृणुध्वं श्रद्धया सह

॥१८॥

षोडशाब्दावधिः शापो भर्तुर्वै भविता ध्रुवम् ॥

षोडशाब्दावधौ चैव सुन्दरो राक्षसाकृतिः

॥१९॥

यदृच्छया वेंकटाद्रिं सर्वपापहरं शुभम् ॥

गत्वासौ चक्रतीर्थं तद्गमिष्यति सुरांगनाः

॥२०॥

आस्ते तत्र महायोगी पद्मनाभो मुनीश्वरः ॥

भक्षार्थं तं मुनिं सोऽयं राक्षसोऽभिगमिष्यति

॥२१॥

ततो ब्राह्मणरक्षार्थ प्रेरितं चक्रमुत्तमम् ॥

विष्णुनास्य शिरः कायाद्धरिष्यति न संशयः

॥२२॥

ततः स्वं रूपमासाद्य शापान्मुक्तः स सुन्दरः ॥

पतिर्वस्त्रिदिवं भूयो गन्ता नास्त्यत्र संशयः

॥२३॥

ततस्त्रिदिवमासाद्य सुन्दरोऽयं पतिर्हि वः ॥

रमयिष्यति सुन्दर्यो युष्मान्सुन्दरवेषभृत्

॥२४॥

श्रीसूत उवाच

इत्युक्त्वा तु वसिष्ठस्ताः सुन्दरस्य वरांगनाः ॥

स्वाश्रमं प्रययौ तूर्णं श्रीरंगेश्वरभक्तिमान्

॥२५॥

अथ रामास्तमालिंग्य सुन्दरं पतिमात्मनः ॥

रुरुदुः शोकसन्तप्ता दुःखसागरमध्यगाः

॥२६॥

दृश्यमानासु तास्वेवं सुन्दरो राक्षसोऽभवत् ॥

महादंष्ट्रो महाकायो रक्तश्मश्रुशिरोरुहः

॥२७॥

तं दृष्ट्वा भयसंविग्ना जग्मू रामास्त्रिविष्टपम् ॥

ततो राक्षसवेषोऽयं सुंदरी भैरवाकृतिः

॥२८॥

भक्षयन्प्राणिनः सर्वान्देशाद्देशं वनाद्वनम् ॥

भ्रमन्ननिलवेगोऽयं वेंकटाद्रिं नगोत्तमम्

॥२९॥

प्रविश्यासौ महापापी चक्रतीर्थं ततो ययौ ॥

एवं षोडशवर्षाणि भ्रमतोऽस्य ययुस्तदा

॥३०॥

ततस्तु षोडशाब्दान्ते राक्षसोऽयं मुनीश्वराः ॥

भक्षितुं पद्मनाभं तं चक्रतीर्थनिवासिनम्

॥३१॥

उपाद्रवद्वायुवेगः सचास्तौषीज्जनार्दनम् ॥

योगिना च स्तुतो विष्णुस्तदा चक्रमचोदयत्

॥३२॥

रक्षितुं पद्मनाभं तं राक्षसेन प्रपीडितम् ॥

अथागत्य हरेश्चक्रं राक्षसस्य शिरोऽहरत्

॥३३॥

अथ सुन्दराख्यस्य राक्षसत्वविमुक्तिपूर्वकं स्वस्वरूपप्राप्तिः ॥

ततोऽयं राक्षसं देहं त्यक्त्वा दिव्यकलेवरः ॥

विमानवरमारुह्य सुन्दरः पुष्पवर्षितः

॥३४॥

प्राञ्जलिः प्रणतो भूत्वा ववंदे तत्सुदर्शनम् ॥

तुष्टाव श्रुतिरम्याभिर्वाग्भिरग्र्याभिरादरात्

॥३५॥

सुन्दर उवाच

सुदर्शन नमस्तेऽस्तु विष्णुहस्तैकभूषण ॥

नमस्तेऽसुरसंहर्त्रे सहस्रादित्यतेजसे

॥३६॥

कृपावेशेन भवतस्त्यक्वाहं राक्षसीं तनुम् ॥

स्वं रूपमभजं विष्णोश्चक्रायुध नमोऽस्तु ते

॥३७॥

अनुजानीहि मां गंतुं त्रिदिवं विष्णुवल्लभ ॥

भार्या मे परिशोचन्ति विरहातुरचेतसः

॥३८॥

त्वन्मनस्को भविष्यामि यावज्जीवं यथा ह्यहम् ॥

तथा रूपं कुरुष्व त्वं मयि चक्र नमोऽस्तु ते

॥३९॥

एवं स्तुतं विष्णुचक्रं सुन्दरेण सभक्तिकम् ॥

अनुजग्राह सहसा तथास्त्विति मुनीश्वराः

॥४०॥

चक्रायुधाभ्यनुज्ञातः सुन्दरो ब्राह्मणोत्तमम् ॥

प्रणम्य तेनानुज्ञातो गन्धर्वस्त्रिदिवं ययौ

॥४१॥

सुन्दरे तु गते स्वर्गं पद्मनाभो मुनीश्वरः ॥

तच्चक्रं प्रार्थयामास विष्ण्वायुध नमोऽस्तु ते

॥४२॥

चक्रायुध नमामि त्वां महासुरविमर्दन ॥

सन्निधानं कुरुष्व त्वं चक्रतीर्थेऽमले शुभे

॥४३॥

त्वत्सन्निधानात्सर्वेषां स्नातानां पापिनामिह ॥

पापनाशं कुरुष्व त्वं मोक्षं च कुरु शाश्वतम्

॥४४॥

चक्रतीर्थमिति ख्यातिं लोकेऽस्य परिकल्पय ॥

त्वत्सन्निधानादत्रत्यमुनीनां भयनाशनम्

॥४५॥

इतः परं भवत्वार्य चक्रायुध नमोऽस्तु ते ॥

भूतप्रेतपिशाचेभ्यो भयं मा भवतु प्रभो

॥४६॥

इति सम्प्रार्थितं चक्रं पद्मनाभेन योगिना ॥

तथैवास्त्विति सम्भाष्य तस्मिंस्तीर्थे तिरोहितम्

॥४७॥

श्रीसूत उवाच

एवं वः कथितं विप्रा राक्षसस्योद्भवे मया ॥

माहात्म्यं चक्रतीर्थस्य कथितं च मलापहम्

॥४८॥

यच्छुत्वा सर्वपापेभ्यो मुच्यते मानवो भुवि

॥४९॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवेंकटाचलमाहात्म्ये चक्रतीर्थमहिमानुवर्णनंनाम चतुर्विंशोऽध्यायः ॥ २४ ॥