मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — वेङ्कटाचलमाहात्म्यम्, अध्याय १८

3
वैष्णवखण्डः · वेङ्कटाचलमाहात्म्यम् · 18

अथेदानीं प्रवक्ष्यामि वेंकटेश्वरवैभवम्

अथ श्रीवेंकटेश्वरवैभववर्णनम् ॥

श्रीसूत उवाच ॥

अथेदानीं प्रवक्ष्यामि वेंकटेश्वरवैभवम् ॥

यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः

॥१॥

श्रीवेंकटेश्वरं देवं यः पश्यति सकृन्नरः ॥

स नरो मुक्तिमाप्नोति विष्णुसायुज्यमाप्नुयात्

॥२॥

दशवर्षैस्तु यत्पुण्यं क्रियते तु कृते युगे ॥

त्रेतायामेकवर्षेण तत्पुण्यं साध्यते नृभिः

॥३॥

द्वापरे पञ्चमासेन तद्दिनेन कलौ युगे ॥

तत्फलं कोटिगुणितं निमिषेनिमिषे नृणाम्

॥४॥

निःसंदेहं भवेदेवं श्रीनिवासविलोकिनाम् ॥

श्रीवेंकटेश्वरे देवे तीर्थानि सकलान्यपि

॥५॥

विद्यन्ते सर्वदेवाश्च मुनयः पितरस्तथा ॥

एककालं द्विकालं वा त्रिकालं सर्वदैव वा

॥६॥

ये स्मरन्ति महादेवं श्रीनिवासं विमुक्तिदम् ॥

कीर्तयन्त्यथवा विप्रास्ते मुक्ताः पापपञ्जरात्

॥७॥

नारायणं परं देवं वेंकटेशं प्रयान्ति वै ॥

पूजितं शङ्खराजेन सच्चिदानंदविग्रहम्

॥८॥

तस्य स्मरणमात्रेण यमपीडाऽपि नो भवेत् ॥

श्रीनिवासं महादेवं येऽर्चयंति सकृन्नराः

॥९॥

किं दानैः किं व्रतैस्तेषां किं तपोभिः किमध्वरैः ॥

वेंकटेशं परं देवं यो न चिन्तयति क्षणम्

॥१०॥

अज्ञानी स च पापी स्यात्स मूको बधिरस्तथा ॥

स जडोऽन्धश्च विज्ञेयश्छिद्रं तस्य सदा भवेत्

॥११॥

श्रीनिवासे महादेवे सकृद्दृष्टे मुनीश्वराः ॥

किं काश्या गयया चैव प्रयागेनापि किं फलम्

॥१२॥

दुर्लभं प्राप्य मानुष्यं मानवा इह भूतले ॥

वेंकटेशं परं देवं ये पश्यन्त्यर्चयन्ति वा

॥१३॥

जन्म तेषां हि सफलं ते कृतार्थाश्च नेतरे ॥

वेंकटेशे परे देवे दृष्टे वा पूजितेऽपि वा

॥१४॥

शम्भुना ब्रह्मणा किं वा शक्रेणाप्यखिलामरैः ॥

वेंकटेशे महादेवे भक्तियुक्ताश्च ये नराः

॥१५॥

तेषां प्रणामस्मरणपूजायुक्तास्तु ये नराः ॥

न ते पश्यंति दुःखानि नैव यांति यमालयम्

॥१६॥

ब्रह्महत्यासहस्राणि सुरापानायुतानि च ॥

दृष्टे नारायणे देवे विलयं यांति कृत्स्नशः

॥१७॥

ये वाञ्छंति सदा भोगं राज्यं च त्रिदशालये ॥

वेंकटाद्रिनिवासं ते प्रणमन्तु सकृन्मुदा

॥१८॥

यानि कानि च पापानि जन्मकोटिकृतानि च ॥

तानि सर्वाणि नश्यन्ति वेंकटेश्वरदर्शनात्

॥१९॥

संपर्कात्कौतुकाल्लोभाद्भयाद्वापि च संस्मरन् ॥

वेंकटेशं महादेवं नेहामुत्र च दुःखभाक्

॥२०॥

वेंकटाचलदेवेशं कीर्तयन्नर्चयन्नपि ॥

अवश्यं विष्णुसारूप्यं लभते नात्र संशयः

॥२१॥

यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुते क्षणात् ॥

तथा पापानि सर्वाणि वेंकटेश्वरदर्शनम्

॥२२॥

वेंकटेश्वरदेवस्य भक्तिरष्टविधा स्मृता ॥

तद्भक्तजनवात्सल्यं तत्पूजापरितोषणम्

॥२३॥

स्वयं तत्पूजनं भक्त्या तदर्थे देहचेष्टितम् ॥

तन्माहात्म्यकथावांछाश्रवणेष्वादरस्तथा

॥२४॥

स्वरनेत्रशरीरेषु विकारस्फुरणं तथा ॥

श्रीनिवासस्य देवस्य स्मरणं सततं तथा

॥२५॥

वेंकटाद्रिनिवासं तमाश्रित्यैवोपजीवनम् ॥

एवमष्टविधा भक्तिर्यस्मिन्म्लेच्छेऽपि वर्तते

॥२६॥

स एव मुक्तिमाप्नोति शौनकाद्या महौजसः ॥

भक्त्या त्वनन्यया मुक्तिर्ब्रह्मज्ञानेन निश्चिता

॥२७॥

वेदान्तशास्त्रश्रवणाद्यतीनामूर्ध्वरेतसाम् ॥

सा च मुक्तिर्विना ज्ञानं वेदान्तश्रवणोद्भवम् ॥

यत्याश्रमं विना विप्रा विरक्तिं च विना तथा

॥२८॥

सर्वेषां चैव वर्णानामखिलाश्रमिणामपि ॥

वेकटेश्वरदेवस्य दर्शनादेव केवलम्

॥२९॥

अपुनर्भवदा मुक्तिर्भविष्यत्यविलंबितम् ॥

कृमिकीटाश्च देवाश्च मुनयश्च तपोधनाः

॥३०॥

तुल्या वेंकटशैलेन्द्रे श्रीनिवासप्रसादतः ॥

पापं कृतं मयानेकमिति मा क्रियतां भयम्

॥३१॥

मा गर्वः क्रियतां पुण्यं मयाऽकारीति वा जनैः ॥

वेंकटेशे महादेवे श्रीनिवासे विलोकिते

॥३२॥

न न्यूना नाधिकाश्च स्युः किन्तु सर्वे महाजनाः ॥

वेंकटाख्ये महापुण्ये सर्वपातकनाशने

॥३३॥

श्रीनिवासं परं देवं यः पश्यति सभक्तिकम् ॥

न तेन तुल्यतामेति चतुर्वेद्यापि भूतले

॥३४॥

वेंकटेश्वरदेवेशं यः पूजयति भक्तितः ॥

स कोटिकुलसंयुक्तः प्रयाति हरिमंदिरम्

॥३५॥

श्रीनिवासाच्च न समं नाधिकं पुण्यमस्ति वै ॥

वेंकटाद्रिनिवासं तं द्वेष्टि यो मोहमास्थितः

॥३६॥

ब्रह्महत्यायुतं तेन कृतं नरककारणम् ॥

तत्संभाषणमात्रेण मानवो नरकं व्रजेत्

॥३७॥

श्रीनिवासपरा वेदाः श्रीनिवासपरा मखाः ॥

श्रीनिवासपराः सर्वे तस्मादन्यन्न विद्यते

॥३८॥

अन्यत्सर्वं परित्यज्य श्रीनिवासं समाश्रयेत् ॥

सर्वयज्ञतपोदानतीर्थस्नाने तु यत्फलम्

॥३९॥

तत्फलं कोटिगुणितं श्रीनिवासस्य सेवया ॥

वेंकटाद्रिनिवासं तं चिंतयन्घटिकाद्वयम्

॥४०॥

कुलैकविंशतिं धृत्वा विष्णुलोके महीयते ॥

स्वामिपुष्करिणीतीर्थे स्नानं देवस्य दर्शनम्

॥४१॥

यदि लभ्येत वै पुंसां किं गङ्गाजलसेवया ॥

वेकटेशं परं देवं यः कदापि न पश्यति

॥४२॥

संकरः स तु विज्ञेयो न पितुर्बीजसंभवः ॥

तस्मात्सर्वप्रयत्नेन वेंकटेशो दयानिधिः

॥४३॥

द्रष्टव्योऽतिप्रयत्नेन परलोकेच्छया द्विजाः ॥

एवं वः कथितं विप्रा वेंकटेशस्य वैभवम्

॥४४॥

यस्त्वेतच्छृणुयान्नित्यं पठते च सभक्तिकम् ॥

स वै वेंकटनाथस्य सेवाफलमवाप्नुयात्

॥४५॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवेंकटाचलमाहात्म्ये वेंकटेश्वरवैभवानुवर्णनं नामाष्टादशोऽध्यायः ॥ १८ ॥