आकाशगंगामाहात्म्यवर्णनम्
अथ दानार्हसत्पात्रनिर्णयः ॥
ऋषय ऊचुः ॥
भगवन्सूत सर्वज्ञ वेदवेदान्तकोविद ॥
दानानि कस्मै देयानि दानकालश्च कीदृशः
॥१॥कश्च तत्प्रतिगृह्णीयात्सर्वं नो वक्तुमर्हसि
॥२॥श्रीसूत उवाच
महापुण्यप्रदे क्षेत्रे वेंकटाख्ये द्विजोत्तमाः ॥
सर्वेषामेव वर्णानां ब्राह्मणः परमो गुरुः
॥३॥तस्मै दानानि देयानि स तारयति पंडितः ॥
ब्राह्मणः प्रतिगृह्णीयाद्वर्जयित्वा त्ववर्णकम्
॥४॥षण्डस्य पुत्रहीनस्य दंभाचाररतस्य च ॥
वेदविद्वेषिणश्चैव द्विजविद्वेषिणस्तथा
॥५॥स्वकर्मत्यागिनश्चापि दत्तं भवति निष्फलम् ॥
परदाररतस्यापि परद्रव्यरतस्य च
॥६॥गायकस्यापि विप्रस्य दत्तं भवति निष्फलम् ॥
असूयाविष्टमनसः कृतघ्नस्य च मायिनः
॥७॥ज्ञानशून्यस्य विप्रस्य दत्तं भवति निष्फलम् ॥
नित्यं याञ्चापरस्यापि हिंसकस्याबलस्य च
॥८॥नामविक्रयिणश्चैव वेदविक्रयिणस्तथा ॥
स्मृतिविक्रयिणश्चैव धर्मविक्रयिणस्तथा
॥९॥परोपतापशीलस्य दत्तं भवति निष्फलम् ॥
ये केचित्पापनिरता निन्दिताः सुकृतैस्तथा
॥१०॥न तेभ्यः प्रतिगृह्णीयान्न देयं वापि किञ्चन ॥
सत्कर्मनिरतायैव श्रोत्रियायाहिताग्नये
॥११॥वृत्तिहीनाय वै देयं दरिद्राय कुटुम्बिने ॥
देवपूजासु सक्ताय पुराणकथकाय च
॥१२॥देयं प्रयत्नतो विप्रा दरिद्रस्य विशेषतः ॥
बहुना किमिहोक्तेन शृणुध्वं द्विजसत्तमाः
॥१३॥सर्वेषां ब्राह्मणानां च प्रदातुं शक्यते सदा ॥
वन्ध्याभर्त्रे प्रदत्तञ्चेद्रासभो जायते नरः
॥१४॥नास्तिकं भिन्नमर्यादं पुत्रहीनं जडं खलम् ॥
स्तेयिनं कितवं चैव कदाचिन्नाभिवादयेत्
॥१५॥पाषण्डं पतितं व्रात्यं वेदविक्रयिणं तथा ॥
कृतघ्नं पापनिरतं कदाचिन्नाभिवादयेत्
॥१६॥तथा स्नानं प्रकुर्वन्तं समित्पुष्पकरं तथा ॥
उदपात्रधरञ्चैव भुंजन्तं नाभिवादयेत्
॥१७॥विवादशालिनं चण्डं वमन्तं जनमध्यगम् ॥
भिक्षान्नधारिणं चैव शयानं नाभिवादयेत्
॥१८॥वन्ध्याञ्च पुष्पिणीं जारां सूतिकां गर्भपातिनीम् ॥
व्रतघ्नीञ्च तथा चण्डीं कदाचिन्नाभिवादयेत्
॥१९॥सभायां यज्ञशालायां देवतायतनेष्वपि ॥
प्रत्येकं तु नमस्कारो हन्ति पुण्यं पुरातनम्
॥२०॥श्राद्धव्रते नियुक्तञ्च देवताभ्यर्चकं तथा ॥
यज्ञं च तर्पणञ्चैव कुर्वन्तं नाभिवादयेत्
॥२१॥कुर्वते वन्दनं यस्तु न कुर्यात्प्रतिवन्दनम् ॥
नाभिवाद्यः स विज्ञेयो यथा शूद्रस्तथैव च
॥२२॥तस्मात्सर्वेपु कालेषु बुद्धिमान्ब्राह्मणोत्तमः ॥
वन्ध्यापतिं द्विजं क्रूरं कदाचिन्नाभिवादयेत्
॥२३॥अथाकाशगंगामाहात्म्यम् ॥
श्रीसूत उवाच ॥
अत्रेतिहासं वक्ष्यामि पुण्यशीलस्य धीमतः ॥
सनत्कुमारमुनये नारदेन प्रभाषितम्
॥२४॥तद्वक्ष्यामि मुनिश्रेष्ठाः शृणुध्वं सुसमाहिताः ॥
पुरा गोदावरीतीरे सर्वधर्मपरायणः
॥२५॥पुण्यशीलो द्विजवरः सत्यवादी जितेन्द्रियः ॥
दयावान्सर्वभूतेषु देवाग्निद्विजपूजकः
॥२६॥कर्मणा जन्मशुद्धश्च मातापितृहिते रतः ॥
गुरुभक्तिः सदाक्षिण्यो ब्रह्मण्यः साधुसंमतः
॥२७॥एतादृशगुणैर्युक्तः पुण्यशीलस्य धीमतः
॥२८॥अथ पुण्यशीलस्य वन्ध्यापतिनिमन्त्रणेन गर्दभमुखत्वप्राप्तिः ॥
गृहं सम्प्राप्तवान्विप्रो वेदवेदांगपारगः ॥
प्रार्थितः पुण्यशीलेन पितृश्राद्धेऽतिवेगतः
॥२९॥तं विप्रं श्रोत्रियं शान्तं पितृश्राद्धे नियोज्य वै ॥
श्राद्धं चकार धर्मात्मा प्रत्याब्दिकमनुत्तमम्
॥३०॥ततः कालान्तरे तस्य पुण्यशीलस्य चानने ॥
वैरूप्यं प्राप्तमत्युग्रं रासभाननवत्तदा
॥३१॥ततः खिन्नमना भूत्वा पुण्यशीलोऽतिधार्मिकः ॥
निःश्वस्य बहुधा खिन्नः प्रपेदेऽगस्त्ययोगिनः
॥३२॥सुवर्णमुखरीतीरे ऋषिसंघनिषेविते ॥
आश्रमं परमं दिव्यं सर्वकामफलप्रदम्
॥३३॥तत्राश्रमे मुनिवरैः सेव्यमानमहर्निशम् ॥
दृष्ट्वागस्त्यं महात्मानं सर्वलोकहितैषिणम्
॥३४॥प्रणाममकरोत्तस्मै गार्दभास्योऽतिदुःखितः
॥३५॥पुण्यशील उवाच
तपोनिधे नमस्तुभ्यमगस्त्य मुनिसेवित ॥
कुत्सितास्यं महापापं रक्षरक्ष दयानिधे
॥३६॥केन दोषेण मे चात्र मुखस्यासीत्कुरूपता
॥३७॥मयि प्रीत्या महाभाग वदस्व मुनिसत्तम
॥३८॥अगस्त्य उवाच
विप्रवर्य महाभाग पुण्यशील महामते ॥
आननस्य विरूपं वै शृणु नान्यमना द्विज
॥३९॥अथ वन्ध्यापतेः श्राद्धनिमन्त्रणानर्हत्वकथनम् ॥
कञ्चिद्विप्रं गुणनिधिं वेदवेदांगपारगम् ॥
श्रोत्रियं पुत्ररहितं श्राद्धे त्वं विनियुक्तवान्
॥४०॥तेन दोषेण महता मुखे तव विरूपता ॥
ये लोके हव्यकव्यादौ वन्ध्यायाः स्वामिनं द्विजम्
॥४१॥नियोजयन्ति ते यान्ति मुखे गर्दभरूपताम् ॥
शुभकर्मणि वा विप्र पैतृके वापि कर्मणि
॥४२॥वन्ध्यापतिं महापापं कदाचिन्न निमन्त्रयेत् ॥
वन्ध्यापतिं महाक्रूरं वृषलीपतिमेव वा
॥४३॥श्रेयस्कामी हि विप्रेंद्र श्राद्धे तु न निमन्त्रयेत् ॥
वेदशास्त्रादियुक्तोऽपि कुलीनः कर्मठोऽपि वा
॥४४॥वन्ध्याभर्ता द्विजश्रेष्ठ श्राद्धे त्याज्यः कथञ्चन ॥
ज्योतिष्टोमादियज्ञेषु व्रतेषु च तपःसु च
॥४५॥समर्थोऽपि द्विजश्रेष्ठः श्राद्धे वन्ध्यापतिं त्यजेत् ॥
अलभ्ये तु द्विजे पात्रे तन्तुमात्रोपजीविनम्
॥४६॥पुत्रवन्तं सदाचारं श्राद्धार्थं तु निमन्त्रयेत् ॥
तदभावे द्विजश्रेष्ठ पुत्रं वाऽनुजमेव वा
॥४७॥आत्मानं वा नियुञ्जीत श्राद्धे वन्ध्यापतिं त्यजेत् ॥
पुण्यशील महाभाग चोद्धृत्य भुजमुच्यते
॥४८॥सर्वथा पुत्रहीनं तु श्राद्धार्थं न नियोजयेत् ॥
वन्ध्यापतिं द्विजं यस्तु श्राद्धकर्ता नियोक्ष्यति
॥४९॥तच्छ्राद्धमासुरं ज्ञेयं कर्ता च नरकं व्रजेत्
॥५०॥अथाकाशगंगास्नानेन पुण्यशीलस्य तद्विकृतिनिवृत्तिः ॥
बहुनात्र किमुक्तेन तद्दोषविनिवृत्तये ॥
उपायं ते प्रवक्ष्यामि स्वर्णमुख्यास्तटे शुभे
॥५१॥वर्तते देवसंघैश्च सेवितो वेंकटाचलः ॥
मेरुपुत्रो महापुण्यः सर्वकामफलप्रदः
॥५२॥तस्मिन्वेंकटशैलेन्द्रे सुरासुरनमस्कृते ॥
वियद्गंगेति नाम्ना वै तीर्थमस्ति महत्तरम्
॥५३॥सर्वपापप्रशमनमायुरारोग्यवर्धनम् ॥
त्वं गत्वा वेंकटं शैलं स्वामिपुष्करिणीजले
॥५४॥स्नात्वा संकल्पपूर्वं तु गंगातीर्थमनन्तरम् ॥
गत्वा तीर्थविधानेन स्नानं कुरु महामते
॥५५॥स्नानमात्रात्ततः सद्यो मुखस्यास्य महामते ॥
वैरूप्यं तत्क्षणादेव नंक्ष्यत्येव न संशयः
॥५६॥एवमुक्तः पुण्यशीलो ह्यगस्त्येन महात्मना ॥
तं प्रणम्य महात्मानं वेंकटाद्रिं ततो ययौ
॥५७॥तत्र गत्वा महाभागः स्वामिपुष्करिणीजले ॥
स्नात्वा नियमपूर्वं तु वियद्गंगासमीपगः
॥५८॥तत्र स्नानेन धर्मात्मा कामवक्रोपमं मुखम् ॥
प्राप्तवान्पुण्यशीलस्तु अहो तीर्थस्य वैभवम्
॥५९॥श्रीसूत उवाच
एवं वः कथितं विप्रा नारदेन प्रभाषितम् ॥
सनत्कुमारमुनये शौनकाद्या महौजसः
॥६०॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवेंकटाचलमाहात्म्य आकाशगंगामाहात्म्यवर्णनंनाम द्वाविंशतितमोऽध्यायः ॥ २२ ॥